॥ अथर्गुह्योपनिषत् ॥

यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामौषध्यः संभवन्ति गरन्त्यपि ॥ १ ॥
पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्ते विलीयन्ते तथा तस्यां जगन्त्यपि ॥ २ ॥
ज्वलतः पावकात् यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।
निर्गत्य च विनश्यति विश्वं तस्यास्तथा प्रिये ॥ ३ ॥


ऋचो यजूंषि सामानि दीक्षा यज्ञाश्च दक्षिणाः ।
अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ ४ ॥
ब्रह्मविष्ण्वादिका देवाः मनुष्याः पशवो वयः ।
प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ५ ॥
समुद्रा गिरयो नद्यः सर्वं स्थावर जङ्गमम् ।
विसृज्येमानि सर्गादौ स्वं प्रकाशयते ततः ॥ ६ ॥
जङ्गमानि विधायार्थं विष्टभ्य प्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाणि च ॥ ७ ॥
सा पश्यति वदति गच्छति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ८ ॥
तया मुक्तं पुरं तद्धिमृतमित्यभिधीयते ।
अन्तः शरीरे ज्यातिर्मयीं तां ।
भाग्येनैव पश्यन्ति यतयः क्षीणदोषाः ॥ ९ ॥
वृहच्च तद्दिव्यमचिन्त्यरूपं-सूक्ष्माच्च तत्सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहान्तिके च पश्यतित्स्विहैव निहितं गुहायाम् ॥ १० ॥
न चक्षुषा गृह्यते नापि वाचा नान्यैर्योगैस्तपसा कर्मणा वा ।
ज्ञान प्रसादेन विशुद्धसत्त्व स्ततस्तु तां पश्यति निष्कलां ध्यायमानः ॥ ११ ॥
यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नारूपाद् विमुक्तः परात्परां जगदम्बामुपैति ॥ १२ ॥
सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ १३ ॥
एषैवालम्बनं श्रेष्ठमेषैवालम्बनं परम् ।
एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १४ ॥
इन्द्रियेभ्यः पराह्यर्था ह्यर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ १५ ॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ १६ ॥
यथोदकं गिरौ वृष्टं समुद्रेषु विधावति ।
एवं धर्मान् पृथक् पश्यँस्तामेवानु विधावति ॥ १७ ॥
एका गुह्या सर्वभूतान्तरात्मा एका रूपं बहुधा या करोति ।
तामात्मस्थां येऽनुपश्यन्ति धीरा-स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १८ ॥
नित्या नित्यानां चेतना चेतनानामेका बहुनां या विदधाति कामान् ।
तामात्मस्थां येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १९ ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तामेव भान्तीमनुभाति सर्वं तस्याभासा सर्वमिदं विभाति ॥ २० ॥
यस्याः परं नापरमस्ति किञ्चित् यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् ।
वृक्ष इव स्तम्भादि वितिष्ठत्येका तयेदं पूर्ण भगवत्या सर्वम् ॥ २१ ॥
ततो युदुत्तरतरं तदरूपमनामयम् ।
००००००००००००००००००० ॥ २२ ॥
य एतां विदुरमृतास्ते भवन्ति । अथेतरे दुःखमेवापि यन्ति ॥ २३ ॥
सर्वाननशिरोग्रीवा सर्वभूतगुहाशया ।
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ २४ ॥
सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ २५ ॥
सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ २६ ॥
नवद्वारे पुरे देवी हंसी लीलायते बहिः ।
ध्येया सर्वस्य स्थावरस्य चरस्य च ॥ २७ ॥
अपाणिपादा जवना गृहीत्री पश्यत्यचक्षुः सा शृणोत्यकर्णा ।
सा वेत्ति वेद्यं न तस्या अस्ति वेत्ता तामाहुरग्य्रां जगतो महीयसीम् ॥ २८ ॥
सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमा ।
सा चैव शुक्रं सा ब्रह्म सा चापः सा प्रजापतिः ॥
सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ २९ ॥
ऋचोऽक्षरे परमे व्योमन् यस्यां देवा अधिरुद्रा निषेदुः ।
यस्तां न वेद किमृचा करिष्यति ये तां विदुस्तद्वैमे समासते ॥ ३० ॥
छन्दासि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदाः वदन्ति ।
सर्वं देवी सृजते विश्वमेतत् तस्याश्चान्यो मायया सन्निरुद्धः ॥ ३१ ॥
मायां तु प्रकृति विद्यात् प्रभुं तस्या महेश्वरीम् ।
अस्या अवयवैः सूक्ष्मैर्याप्तं सर्वमिदं जगत् ॥ ३२ ॥
या देवानां प्रभवा चोद्भवा च विश्वाधिपा सर्वभूतेषु गूढा ।
हिरण्यगर्भं जनयामास पूर्वं सा नो बुद्ध्या शुभया संयुनक्तु ॥ ३३ ॥
सूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्ट्रीं तामनेकामनाख्याम् ।
विश्वस्यैकां परिवेष्टयित्रीं ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ३४ ॥
सा ह्येव काले भुवनस्य गोप्त्री विश्वाधिपा सर्वभूतेषु गूढा ।
यस्यां मुक्ता ब्रह्मर्षयो देवताश्च तामेव ज्ञात्वा मृत्युपाशांछिनत्ति ॥ ३५ ॥
घृतात्परं मण्डमिवातिसूक्ष्मां ज्ञात्वा कालीं सर्वभूतेषु गूढाम् ।
कल्पान्ते वै सर्वसंहारकर्त्री ज्ञात्वा गुह्यां मुच्यते सर्वपाशैः ॥ ३६ ॥
एषा देवी विश्वयोनिर्महात्मा सदा जनानां हृदये सन्निविष्टा ।
हृदा मनीषा मनसाऽभिक्लृप्ता य एतां विदुरमृतास्ते भवन्ति ॥ ३७ ॥
यदा तमस्तं न दिवा न रात्रि-र्न सन्न चासद् भगवत्येव गुह्या ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्याः प्रसृता पुराणी ॥ ३८ ॥
नैनामूर्ध्वं न तिर्यञ्च न मध्ये परिजग्रभत् ।
न तस्याः प्रतिमाप्यस्ति तस्या नाम महद् यशः ॥ ३९ ॥
न सदृशं तिष्ठति रूपमस्याः न चक्षुषा पश्यति कश्चनैनाम् ।
हृदा मनीषा मनसाऽभिक्लुप्ता य एतां विदुरमृतास्ते भवन्ति ॥ ४० ॥
अथेतरे दुःखमेवार्पयन्ति ॥
भूयश्च सृष्ट्वा त्रिदशानप्यथैशी सर्वाधिपत्यं कुरुते भवानी ।
सर्वा दिश ऊर्ध्वमधश्च तिर्यक् प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ४१ ॥
नैवा स्त्री न पुमानेषा नैव चेयं नपुसंका ।
यद्यच्छरीरमादत्ते तेन नेनैव युज्यते ॥ ४२ ॥
धर्मावहां पापनुदं भगेशीं ज्ञात्वात्म स्थाममृतं विश्वधाम ।
तामीश्वराणां परमें महेश्वरी तां देवतानां परमां च देवताम् ॥ ४३ ॥
पतिं पतीनां परमां पुरस्तात् विदाम तां गुह्य कालीमनीशाम् ।
तस्या न कार्यं करणं च विद्यते न तत्समा चाभ्यधिको च दृश्यते ॥ ४४ ॥
परास्याः शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।
कश्चिन्न तस्याः पतिरस्ति लोके न चेशिता नैव वा किञ्चिल्लिङ्गम् ॥ ४५ ॥
सा कारणं कारणाधिपाधिपा कश्चिन्न चास्याः जनिता न चाधिपा ।
एका देवी सर्वभूतेषु गूढा व्याप्नोत्येतत् सर्वभूतान्तरस्था ॥ ४६ ॥
कर्माध्यक्षा सर्वभूताधिवासा साक्षिणी वेत्त्त्री केवला निर्गुणा च ।
एका वशिनी निष्क्रियाणां बहूना-मेकं बीजं बहुधा या करोति ॥ ४७ ॥
नानारूपं या च वक्त्रं विधत्ते नानारूपान् या च बाहून् विभर्ति ।
नित्या नित्यानां चेतना चेतनाना-मेका बहूनां या विदधाति कामान् ॥ ४८ ॥
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवीं मुच्यते सर्वपाशैः ।
या ब्रह्माणं विदधाति पूर्वं या वै वेदांश्च प्रहिणोति तस्मै ॥ ४९ ॥
या वै विष्णुं पालने सनियुङ्क्ते रुद्रं देवं संहृतौ चापि गुह्या ।
तां वै. देवीमात्मबुद्धिप्रकाशां मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ५० ॥
निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनानाम् ।
अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ॥ ५१ ॥
बह्वाननकरां देवीं गुह्यामेकां समाश्रये ।
इयं हि गुह्योपनिषत् सुगूढा यां वै ब्रह्मा वदन्ते विश्वयोनिः ॥
एतां जल्पन्तश्चान्वहं तन्मया ये सत्यं सत्यममृतास्ते वभूवुः ॥ ५२ ॥
वेदवेदान्तयोर्गुह्यं पुराकल्पप्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्रशिष्याय वै पुनः ॥ ५३ ॥
यस्य देव्यां भक्तिर्यथा देव्यां तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ५४ ॥
॥ इत्यथर्ववेदं गुह्योपनिषत् ॥

See Also :-गुह्यकाल्युपनिषत्

 

 

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.