आप लोगों का मंगल करें

श्रीमत्पङ्कजविष्टरो हरिहरो वायुर्महेन्द्रोऽनलश्चन्द्रो,
भास्करवित्तपालवरुणाः प्रेताधिपाद्या ग्रहाः ।
प्रद्युम्नो नल-कूबरौ सुरगजश्चिन्तामणिः कौस्तुभः,
स्वामी शक्तिधरश्च लाङ्लधरः कुर्वन्तु वो मङ्गलम् ।।

सर्वैश्वर्य ब्रह्मा, विष्णु एवं शिव, वायुदेव, देवराज इन्द्र तथा अग्नि देवता, चन्द्र-देवता, भगवान् सूर्य, धनाध्यक्ष कुबेर, वरुण और संयमनी-पुरी के स्वामी यमराज, सभी ग्रह, श्रीकृष्ण के पुत्र प्रद्युम्न, नल और कूबर, ऐरावत गज, चिन्तामणि रत्न, कौस्तुभ-मणि, शक्ति को धारण करने वाले स्वामी कार्तिकेय तथा हलायुध बलराम – ये सब आप लोगों का मंगल करें ।
गौरी श्रीः कुलदेवता च सुभगा भूमिः प्रपूर्णा,
शुभा सावित्री च सरस्वती च सुरभिः सत्यव्रतारुन्धती ।
स्वाहा जाम्बवती च रुक्मभगिनी दुःस्वप्न-विध्वंसिनी,
वेलाश्चाम्बुनिधेः समीनमकराः कुर्वन्तु वो मङ्गलम् ।।

भगवती गौरी (पार्वती), भगवती लक्ष्मी, अपने कुल के देवता, सौभाग्य-युक्त स्त्री, सभी धन-धान्यों से सम्पन्न पृथ्वी देवी, ब्रह्मा की पत्नी सावित्री और सरस्वती, कामधेनु, सत्य एवं पातिव्रत्य को धारण करने वाली वशिष्ठ-पत्नी अरुन्धती, अग्नि-पत्नी स्वाहा देवी, कृष्ण-पत्नी जाम्बवती, रुक्मभगिनी तथा दुःस्वप्न-नाशिनी देवी, मीन और मकरों से संयुक्त समुद्र एवं उनकी वेलाएँ – ये सब आप लोगों का मंगल करें ।
गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा,
कावेरी सरयूर्महेन्द्र-तनयाश्चर्मण्वती देविका ।
क्षिप्रा वेत्रवती महा-सुरनदी ख्याता गया गण्डकी,
पुण्या पुण्यजलैः समुद्रसहिताः कुर्वन्तु वो मङ्गलम् ।।

भागीरथी गंगा, सिन्धु, सरस्वती, यमुना, गोदावरी, नर्मदा, कावेरी, सरयू, महेन्द्र-पर्वत से निःसृत समस्त नदियाँ, चर्मण्वती, देविका से प्रसिद्ध देव नदी, क्षिप्रा, वेत्रवती, (बेतवा), महानदी, गया की फल्गुनदी, गण्डकी या मारायणी – ये सब पुण्य जल वाली पवित्र नदियाँ अपने स्वामी समुद्र के साथ आप लोगों का मंगल करें ।
लक्ष्मीः कौस्तुभ-पारिजातकसुरा धन्वन्तरिश्चन्द्रमाः,
धेनुः कामदुघा सुरेश्वरगजो रम्भादिदेवाङ्गना ।
अश्वः सप्तमुखो विषं हरिधनुः शंखोऽमृतं चाम्बुधेः,
रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु वो मङ्गलम् ।।

भगवती लक्ष्मी, कौस्तुभ-मणि, पारिजात नाम का कल्प-वृक्ष, वारुणी देवी, वैद्यराज धन्वन्तरि, चन्द्रमा, कामधेनु गौ, देवराज इन्द्र का ऐरावत हस्ती, रम्भा आदि अप्सराएँ, सात मुख वाला उच्चैःश्रवा नामक अश्व, कालकूट विष, भगवान् विष्णु का शार्ङ्ग-धनुष, पाञ्चजन्य-शंख तथा अमृत – ये समुद्र से उत्पन्न चौदह रत्न आप लोगों का प्रतिदिन मंगल करें ।
ब्रह्मा वेदपतिः शिवः पशुपतिः सूर्यो ग्रहाणां पतिः,
शक्रो देवपतिर्हविर्हुतपतिः स्कन्दश्च सेनापतिः ।
विष्णुर्यज्ञपतिर्यमः पितृपतिः शक्तिः पतीनां पतिः,
सर्वे ते पतयः सुमेरुसहिताः कुर्वन्तु वो मङ्गलम् ।।

वेदों के स्वामी ब्रह्मा, पशुपति भगवान् शंकर, ग्रहों के स्वामी भगवान् सूर्य, देवताओं के स्वामी इन्द्र, हव्य पदार्थों में श्रेष्ठ हविर्द्रव्य-पुरोडाश, देवसेनापति भगवान् कार्तिकेय, यज्ञों के स्वामी भगवान् विष्णु, पितरों के पति धर्मराज और सभी स्वामियों की स्वामिनी शक्ति-स्वरुपा भगवती महा-लक्ष्मी – ये सभि स्वामी-गण पर्वत-राज सुमेरु-गिरि-सहित आप लोगों का मंगल करें ।

One comment on “आप लोगों का मंगल करें

  • कुर्वन्तु वो मङ्गलम्
    १. श्रीमत्पंकज-विष्टरौ हरिहरौ वायुर्महेन्द्रोऽनल
    श्चन्द्रो भास्कर-वित्तपाल-वरुणाः प्रेताधिपाद्या-ग्रहाः।
    प्रद्युम्नो नलकूबरौ सुरगजः चिन्तामणिः कौस्तुभः
    स्वामी शक्तिधरश्च लाङ्गलधरः कुर्वन्तु नो मङ्गलम्॥

    २. गङ्गा गोमति-गोपति-र्गणपति-र्गोविन्द-गोवर्द्धनो
    माता गोमय-गौरिजो गिरिसुता गङ्गाधरो गौतमः।
    गायत्री गरुडो गदाधर-गया-गम्भीर-गोदावरी
    गन्धर्व-ग्रह-गोप-गोकुलगणाः कुर्वन्तु नो मङ्गलम्॥

    ३. नेत्राणां त्रितयं शिवं पशुपतेरग्नित्रयं पावनं
    यत्तद्विष्णुपदत्रयं त्रिभुवनं ख्यातं च रामत्रयम्।
    गंगावाहपथत्रयं सुविमलं वेदत्रयं ब्राह्मणं
    सन्ध्यानां त्रितयं द्विजैः सुविहितं कुर्वन्तु नो मङ्गलम्॥

    ४. गौरी श्री: कुलदेवता च सुभगा भूमि: प्रपूर्णा शुभा
    सावित्री च सरस्वती च सुरभी सत्यव्रताऽरुन्धती।
    सत्या जाम्बवती च रुक्म-भगिनी दुःस्वप्न-विध्वंसिनी
    वेला चाऽम्बुनिधेः सुमीन-मकरा: कुर्वन्तु नो मङ्गलम्॥

    ५. ब्रह्मा वेदपतिः शिवः पशुपतिः सूर्यो ग्रहाणां पतिः
    शक्रो देवपति-र्हवि-र्हुतपतिः स्कन्दश्च सेनापतिः।
    विष्णुर्यज्ञपतिर्यमः पितृपतिः शक्तिः पतीनां पतिः
    सर्वे ते पतयः सुमेरुसहिताः कुर्वन्तु वो मङ्गलम्॥

    ५. अश्वत्थो वटवृक्षः चन्दनतरुः मन्दारकल्पद्रुमौ
    जम्बूनिंबकदंबचूतसरलाः वृक्षाश्च ये क्षीरिणः।
    सर्वे ते फलसंयुताः प्रतिदिनं विभ्राजनं राजते
    रम्यं चैत्ररथं च नन्दनवनं कुर्वन्तु नो मङ्गलम्॥

    आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो
    नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणाः।
    मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः
    सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु नो मङ्गलम्॥

    ६. वाल्मीकिः सनकः सनन्दनतरूर्व्यासो वसिष्ठो भृगुः
    जाबालिर्जमदग्निकच्छजनकाः गर्गोऽङ्गिरा गौतमः।
    मान्धाता ऋतुपर्णवैनसगरा धन्यो दिलीपो नलः
    पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मङ्गलम्॥

    ७. लक्ष्मी कौस्तुभपारिजातकुसुमाः धन्वन्तरिश्चन्द्रमाः
    गावः कामदुधाः सुरेश्वरगजो रम्भादिदेवाङ्गनाः।
    अश्वः सप्तमुखो सुधा हरिधनुः शंखो विषं चाऽम्बुधेः
    रत्नानीति चतुर्दश प्रतिदिनं कुर्वन्तु नो मङ्गलम्॥

    ८. गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा
    काबेरी सरयूर्महेन्द्रतनया चर्मण्वती वेदिका।
    क्षिप्रा वेत्रवती महासुरनदी ख्याता गया गण्डकी
    पूर्णा पुण्यजलैः समुद्रसहिताः कुर्वन्तु नो मङ्गलम्॥

    — इत्येतद्वरमङ्गलाष्टकमिदं पापौघविध्वंसनं
    पुण्यं संप्रति कालिदासकविना विप्रप्रबन्धीकृतं।
    यः प्रातः शृणुयात् समाहितमनाः नित्यं पठेत् भक्तिमान्
    गंगासागरसंगमे प्रतिदिनं प्राप्नोत्यसौ मङ्गलम्॥

    ॥इति मङ्गलाष्टकं सम्पूर्णम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.