॥ कात्यायनी ॥

कात्यायनी दशभुजा देवी ही महिषासुर मर्दिनी है। प्रथम कल्प में उग्रचण्डा रूप में, द्वितीय कल्प में १६ भुजा भद्रकाली रूप में तथा तृतीय कल्प में कात्यायनी ने दश भुजा रूप धारण करके महिषासुर का वध किया। कात्यायनी मुनि के द्वारा स्तुति करने पर बिल्व वृक्ष के पास देवी प्रकट हुई थी। आश्विन कृष्णा १४ को भगवती प्रकट हुई थी। शुक्ला सप्तमी को देवी की तेजोमयी मूर्ति ने शोभनरूप धारण किया। अष्टमी को समलंकृत की गई तथा नवमी को उपहारों से पूजित हुई एवं उसने महिषासुर का वध किया तथा दशमी को देवी विदा हुई (इति कालिका पुराणे)।

॥ नमस्कार ध्यान ॥
चन्द्रहासोज्ज्वल करा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्याद् देवि दानव घातिनी ॥
कात्यायनी गायत्री – ॐ कात्यायनाय विद्महे कन्यकुमारी धीमहि तन्नो दुर्गेः प्रचोदयात्।

॥ कात्यायनी ध्यानम् ॥
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्याद् देवी दानवघातिनी ॥
देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद. मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥

॥ कात्यायनी ऋषि कृत स्तुति ॥
(महाकाल संहितायाम्)
जगदंब जयानन्ते सर्वेकसाक्षिणि ।
संकटोद्धारिणि शिवे भक्तानामभयङ्करे ॥
समस्त जगताधारभूते ब्रह्मस्वरूपिणि ।
विधीश हरि शक्रादि देवा विदित वैभवे ॥
सृष्टि स्थिति प्रलयकृत् त्रिगुणात्मक विग्रहे ।
परापरेशि प्रणतमनुज-प्राणदायिनि ॥
मदुपास्यतया ख्यातनाम्नि त्रिभुवनेश्वरि ।
कात्यायनि जगद्वन्द्ये महाकालि नमोस्तुते ॥
मत्प्राणरक्षणकृते भीनाशय दिवौकसाम् ।
स्वरूपं दर्शयामुष्मै विल्ववृक्षाद् विनिःसृता ॥

॥ दशभुजा कात्यायनी ध्यानम् ॥
॥ ध्यानम् ॥

जटाजूटसमायुक्तामर्धेन्दुकृत लक्षणाम् ।
नेत्रत्रयसमायुक्तां पद्मेन्दुसदृशाननाम् ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवन संपन्नां सर्वाभरणभूषिताम् ॥
सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थान संस्थानां महिषासुरमर्दिनीम् ॥
त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः ।
तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत ॥
खेटकं पूर्णचापं च पाशमङ्कशमूर्ध्वतः ।
घण्टा वा परशुं चापि वामतः सन्निवेशयेत् ॥
अधस्तान्महिषं तद्वद्वि शिरस्कं प्रदर्शयेत् ।
शिरश्चेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ॥

॥ षोडशभुजा दुर्गा ध्यानम् ॥
महिषासुर मर्दिनी षोडशभुजा दुर्गा भद्रकाली ही है ।
क्षीरोदस्योत्तरे तीरे विभ्रती विपुलां तनुम् ।
अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डलाम् ॥
जटाजूटमखण्डेन्दुमुकुटत्रय भूषिता ।
नागहारेण सहिता स्वर्णहार विभूषिता ॥
शूलं खड्गं च शङ्ख च चक्रं बाणं तथैव च ।
शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः ॥
विभ्रती सततं देवी विकाशिनयनोज्ज्वला ।
खेटकं चर्म चापं च पाशंचाङ्कशमेव च ॥
घण्टां परशुं मुशलं विभ्रतो वामपाणिभिः ।
सिंहस्था नयनै रक्तवर्णैस्त्रिभिरभिज्ज्वला ॥
शूलेन महिषं भित्त्वा तिष्ठती परमेश्वरी ।
वामपादेन चाक्रम्य तत्र देवी जगन्मयी ॥

॥ अष्टादशभुजा दुर्गा ध्यानम् ॥
अष्टादशभुजा दुर्गा उग्रचण्ड स्वरूपा है । कल्पभेद महिषासुरमर्दिनि का महालक्ष्मी स्वरूपा भेद भी यही है ।
॥ ध्यानम् ॥
अक्षस्रक्परशुंगदेषुकुलिशं पद्मं धनुःकुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ।
शूलं पाश सुदर्शने च दधतीं हस्तैः प्रसन्नानना
सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥ २ ॥

॥ अन्यच्च ॥
ततो ध्यायेन्महालक्ष्मी महिषासुरमर्दिनीम् ।
समस्तदेवता तेजोजातां पद्मासन स्थिताम् ॥
अष्टादशभुजामक्षमालां पद्मं च शायकान् ।
खड्गं वज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् ॥
खड्गं च दधतीं वामे शक्तिं च परशुं धनुः ।
चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् ॥

॥ अष्टादशभुजा ध्यानम् ॥
धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् ।
केशान्ते तिलकस्योर्ध्वं दधती सुमनोहरा ॥
मणिकुण्डल संधृष्टगण्डा मुकुटमण्डिता ।
सज्ज्योतिः कर्णपूराभ्यां कर्णावापूर्य सङ्गता ॥
ससुवर्णमणिमाणिक्य नागहार विराजिता ।
सदासुधिभिः परम्लानैरति सुन्दरी ॥
मालां विभर्ति ग्रीवायां रत्नकेयूरधारिणी ।
मृणालायत वृत्तैस्तु बाहुभिः कोमलै शुभैः ॥
राजन्ती कञ्जुकोपेता पीनोन्नत पयोधरा ।
क्षीणमध्या पीतवस्त्रा त्रिवलोमध्यभूषिता ॥
अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम् ।
आदर्श तर्जनीं चाप ध्वजं डमरुकं चर्मं च ॥
पाशं वामे विभ्रती च शक्ति मुद्गर शूलकम् ।
वज्र खड्गाङ्कश शरांश्चक्रं देवी शलाकया ॥
सिंहोस्योपरि तिष्ठन्ती व्याघ्रचर्मणि कौशिकी ।
विभ्रती रूपममतुलं ससुरासुर मोहनम् ॥

(अस्त्रों का क्रम पुरश्चर्यार्णव में अधूरा है अतः अस्त्रक्रम अग्निपुराण में से दिया है।)
वैकृति रहस्य में अस्त्रों का क्रम इस प्रकार से है ।

अक्षमाला च कमलं वाणोऽसि कुलिशं गदा ।
चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥
शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः ।
अलंकृतभुजामेभिरायुधैः कमलासनम् ॥
इसी तरह मध्यम चरित में १८ भुजा का ध्यान अलग है ।

॥ अथ कात्यायनी मंत्र प्रयोग ॥
अष्टाक्षर मंत्रः-
ॐ ह्रीं कात्यायन्यै स्वाहा ॥ १ ॥
ह्रीं श्रीं कात्यायन्यै स्वाहा ॥ २ ॥

दशाक्षर मंत्र:-
ऐं ह्रीं श्रीं चौं चण्डिकायै नमः ।
विवाह हेतु मंत्र:-
ॐ कात्यायनि महामाये महोयोगिन्यधीश्वरि ।
नन्दगोपसुते देवि पतिं मे कुरु ते नमः ॥

मंत्रो यथा –‘ॐ ह्रीं कात्यायनि स्वाहा’ इत्यष्टाक्षरो मंत्रः ।

विनियोग :- अस्य कात्यायनीमंत्रस्य कपिलो मुनिः । गायत्रीच्छंदः । चंडिका कात्यायनी देवता । ह्रीं श्रीं बीजम् । स्वाहा शक्तिः । मम सर्वेष्टसिद्ध्यर्थे जपे विनियोगः ।
ऋष्यादिन्यास :- ॐ कपिलमुनये नमः शिरसि ॥ १ ॥ गायत्रीच्छंदसे नमः मुखे ॥ २ ॥ चण्डिकाकात्यायनी देवतायै नमः हृदि ॥ ३ ॥ ह्रीं श्रीं बीजाय नमः गुह्ये ॥ ४ ॥ स्वाहाशक्तये नमः पादयोः ॥ ५ ॥ विनियोगाय नमः सर्वाङ्गे ॥ ६ ॥ इति ऋष्यादिन्यासः ।
करन्यास :- ॐ ह्रीं श्रीं अंगुष्ठाभ्यां नमः ॥ १ ॥ ॐ ह्रीं श्रीं तर्जनीभ्यां नमः ॥ २ ॥ ॐ ह्रीं श्रीं मध्यमाभ्यां नमः ॥ ३ ॥ ॐ ह्रीं श्रीं अनामिकाभ्यां नमः ॥ ४ ॥ ॐ ह्रीं श्रीं कनिष्ठिकाभ्यां नमः ॥ ५ ॥ ॐ ह्रीं श्रीं करतलकरपृष्ठाभ्यां नमः ॥ ६ ॥ इति करन्यासः ।
एवमेव हृदयादि षडंगन्यासं कुर्यात् । एवं न्यासं कृत्वा ध्यायेत् ।।
॥ ध्यानम् ॥
ॐ सव्यपादसरोजेनालंकृतोरु मृगाधिपाम् ।
वामपादाग्रदलित महिषासुरनिर्भराम् ॥ १ ॥
सुप्रसन्नां सुवदनां चारुनेत्रत्रयान्विताम् ।
हार नूपुर केयूर जटामुकुटमंडिताम् ॥ २ ॥
विचित्रपट्टवसनामर्द्धचन्द्रविभूषिताम् ।
खड्ग खेटकवज्राणि शूलं च विशिखं तथा ॥ ३ ॥
धारयंतीं धनुः पाशं शंखघंटे सरोरुहम् ।
बाहुभिर्ललितैर्देवि कोटिचन्द्रसमप्रभाम् ॥ ४ ॥
समाहृतैर्दिविषदैर्वरै- राकाशसंस्थितैः ।
स्तूयमानां मोदमानैर्लोकपालादिभिः सदा ॥ ५ ॥
इति ध्यायेत् । ततः पीठादौ रचिते सर्वतोभद्रमंडले मंडूकादिपरतत्त्वांतपीठदेवताः संस्थाप्य ‘ॐ मं मंडूकादिपरतत्त्वांत पीठदेवताभ्यो नमः’ इति पीठदेवताः संपूज्य नव पीठशक्तिः पूजयेत् ।
तद्यथा-पूर्वादिक्रमेण – ॐ प्रभायै नमः ॥ १ ॥ ॐ मायायै नमः । ॐ जयायै नमः ॥ ३ ॥ ॐ सूक्ष्मायै नमः ॥ ४ ॥ ॐ विशुद्धायै नमः ॥ ५ ॥ ॐ नंदिन्यै नमः ॥ ६ ॥ ॐ सुप्रभायै नमः ॥ ७ ॥ ॐ विजयायै नमः ॥ ८ ॥ मध्ये । ॐ सर्वसिद्धिदायै नमः ॥ ९ ॥
इति नव पीठशक्ती: संपूज्य ततस्ताम्रादिपात्रे रक्तचन्दनेन यंत्रं विलिख्य ‘ॐ आधारशक्तिकात्यायन्यै नमः’ इति मंत्रेण पुष्पाद्यासनं दत्त्वा पीठमध्ये संस्थाप्य प्रतिष्ठां च कृत्वा पुनात्वा मूलेन मूर्ति प्रकल्प्यावाहनादि पुष्पांतैरुपचारैः संपूज्य देव्याज्ञां गृहीत्वा आवरणपूजां कुर्यात् ।

॥ यंत्रार्चनम् ॥


तत्र क्रम:- षट्कोणकेसरेषु – अग्निकोणे – ह्रीं श्रीं हृदयाय नमः ॥ १ ॥ निर्ऋति – ह्रीं श्रीं शिरसे स्वाहा ॥ २ ॥ वायु० – ह्रीं श्रीं शिखायै वषट् ॥ ३ ॥ ईशानकोणे – ह्रीं श्रीं कवचाय हुं ॥ ४ ॥ देवीपूजकयोर्मध्ये – ह्रीं श्रीं नेत्रत्रयाय वौषट् ॥ ५ ॥ देवी पश्चिमे – ह्रीं श्रीं अस्त्राय फट् ॥ ६ ॥ इति षडंगानि पूजयेत् । अष्टदले – अष्टशक्तिं पूजयेत्
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपा च चण्डिका ॥
अभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
कालिका पुराण में चामुण्डा सहित आदि नवदुर्गा माना है ।
अतः पूर्वादि क्रमेण – ॐ उग्रचण्डायै नमः । ॐ प्रचण्डायै नमः । ॐ चण्डोग्रायै नमः । ॐ चण्डनायिकायै नमः । ॐ चण्डायै नमः । ॐ चण्डवत्यै नमः । ॐ चण्डरूपायै नमः । ॐ चण्डिकायै नमः ।
परन्तु कालिका पुराण में लिखा है कि यदि उग्रचण्डा तंत्र से देवी की पूजा की जाती है तो अष्टदल की नायिकाओं पूजन इस तरह करे – ॐ कौशिके नमः । ॐ शिवदूत्यै नमः । ॐ उमायै नमः । ॐ हेमवत्यै नमः । ॐ ईश्वर्यै नमः । ॐ शाकम्भर्यै नमः । ॐ दुर्गायै नमः । ॐ महोदर्यै नमः ।
ततो भूपुराभ्यंतरे पूज्यपूजकयोर्मध्ये प्राची प्रकल्प्य प्राच्यादिचतुर्दिक्षु वामावर्तेन च ॐ डाकिन्यै नमः ॥ १ ॥ ॐ योगिन्यै नमः ॥ २ ॥ ॐ खेचर्यै नमः ॥ ३ ॥ ॐ शाकिन्यै नमः ॥ ४ ॥ इति पूजयेत् ।
भूपुरावाहिः इन्द्रादिदशदिग्पालान् वज्राद्यायुधानि च पूजयेत् ।
इत्यावरणपूजां कृत्वा धूपादिनीराजनांतं संपूज्य जपं कुर्यात् ।
अस्य पुरश्चरणं लक्षजपः । तत्तद्दशांशेन होमतर्पणमार्जन ब्राह्मणभोजनानि कुर्यात् । एवं कृते मंत्रः सिद्धो भवति । सिद्धे मंत्रे मंत्री प्रयोगान्साधयेत् ।
तथा च लक्षमेकं जपेन्मंत्रं दशांशं जुहुयात्ततः ।
मंत्रोऽयं चिंतितो देवि सभायां पुरतो यदि ॥ १ ॥
कोटिसूर्यप्रतीकाशो दृश्यते वादिभिस्तथा ।
पलायंते महादेवि साध्वसेन क्षणात्ततः ॥ २ ॥
कार्तिकस्य सिते पक्षे नवम्यामारभेजपम् ।
सहस्रं प्रत्यहं कृत्वा संप्राप्य नवमी सिताम् ॥ ३ ॥
विजयं खड्गमादाय पूजयित्वा यथाविधि ।
अर्द्धरात्रे बलिं दत्वा प्रातर्यात्रां समाचरेत् ॥ ४ ॥
रणभूमिं समासाद्य सहस्रं प्रजपेन्मनुम् ।
तं दृट्वा पुरुषं देवि हृत्क्षोभो जायते रिपोः ॥ ५ ॥
सदूतं यममायांतं मन्यमाना नराधिपाः ।
पलायंते महादेवि नात्र कार्या विचारणा ॥ ६ ॥
शुक्लांबरधरो मौनी ब्रह्मचारिव्रते स्थितः ।

॥ श्री कात्यायनी यन्त्रम् ॥
शुक्लवर्णां महादेवीं ध्यात्वा शुक्लविभूषणाम् ॥ ७ ॥
सहस्रं मासमेकं तु जपोन्नित्यं यथाविधि ।
मालतीबकुलैः कुंदैमंत्री मधुरसंप्लुतैः ॥ ८ ॥
सहस्रत्रितयं हुत्वा वागीशो जायतेऽचिरात् ।
हेलया कवितां देवि विशदां कुरुते द्रुतम् ॥ ९ ॥
जपं या कुरुते नित्यं शतशो वत्सरावधि ।
वंध्यापि लभते पुत्रं कार्तिकेयमिवापरम् ॥ १० ॥
दुर्भगा च भवेत्पत्युः सुभगाऽतिमनोरमा ।
रूपं विचिंत्य पूर्वोक्तं लक्षं जप्त्वायुतं ततः ।
नीलोत्पलैः सरोजैर्वा हुत्वा वैश्रवणायते ॥ ११ ॥

॥ अन्यच्च ध्यानम् ॥
व्याघ्रचर्मपरीधानां मुंडमालाविभूषिताम् ।
रक्तवर्तुलभीमाक्षीं जिह्वया लीलयासुरान् ॥ १२ ॥
चर्वयंती महाकाली कालरात्रिमिवापराम् ।
क्षोभयतीं जगत्सर्वं ससुरासुरपर्वतम् ॥ १३ ॥
एवं ध्यात्वा जपेद्देवि श्मशाने वा चतुष्पथे ।
सप्ताहं विशसं कृत्वा व्रतस्थ: स्थिरमानसः ॥ १४ ॥
जपेद्यो नियतं देवि स रिपून्नाशयेद्धवम् ।
अनेनैव विधानेन बलिं दद्याच्चतुष्पथे ॥ १४ ॥
दग्धं मत्स्यं च सक्त्वन्नं पिंडं कृत्वा समाहितः ।
आममांसं हरिद्राक्तं यं विचिंत्य प्रदापयेत् ॥ १५ ॥
सप्ताहाल्लभते शत्रुर्यमसद्म न संशयः ।
हरिर्वा शंकरो वापि न शक्तो रक्षितुं क्वचित् ॥ १६ ॥
बलिमंत्रो यथा- “ह्रीं ह्रीं चौं चौं कालिके खादय खादय वशीकुरु वशीकुरु शत्रु मारय मारय स्वाहा’ ।
इति मंत्रः ।
अंगारकदिने चैव निंदितासु तिथिष्वपि ।
पूजितं खड्गमादाय निशीथे बलिमाहरेत् ॥ १७ ॥
प्रहारशोणितं चास्य दद्याद्देव्यै यथाविधि ।
अच्छेद्याभेदकायः स्याद्रिपूणां नात्र संशयः ॥ १८ ॥
॥ इति कात्यायनीमहाकल्पः ॥

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.