॥ कालिकोपनिषत् ॥
ॐ अथैनं ब्रह्मरन्ध्र ब्रह्मरूपिणीमाप्नोति ।
सुभगां त्रिगुणितां मुक्तासुभगां कामरेफेन्दिरासमस्तरूपिणीमेतानि त्रिगुणितानि तदतु कूर्चबीजं व्योमषष्ठस्वरां बिन्दुमेलनरूपां तद्द्वयं मायाद्वयं दक्षिणे कालिके चेत्यभिमुखगतां तदनु बीजसप्तकमुच्चार्य बृहद्भानुजायामुच्चरेत् ।
स तु शिवमयो भवेत् ।
सर्वसिद्धीश्वरो भवेत् ।
गतिस्तस्यास्तीति ।
नान्यस्य गतिरस्तीति ।
स तु वागीश्वरः । स तु नारीश्वरः ।
स तु देवेश्वरः । स तु सर्वेश्वरः ।


अभिनवजलदसंकाशा घनस्तनी कुटिलदंष्ट्रा शवासना कालिका ध्येया ।
त्रिकोणं पञ्चकोणं नवकोणं पद्मम् ।
तस्मिन् देवीं सर्वाङ्गेऽभ्यर्थ्य तदिदं सर्वाङ्गम् ओं काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी विप्रचित्ता उग्रा उग्रप्रभा दीप्ता नीला घना बलाका मात्रा मुद्राऽमिता चैव पञ्चदशकोणगाः ।
ब्राह्मी नारायणी माहेश्वरी कौमारी अपराजिता वाराही नारसिंहिका चेत्यष्टपत्रगाः ।
षोडशस्वरभेदेन प्रथमेन मन्त्रविभागः ।
तन्मूलेनावाहनम्, तेनैव पूजनम् ।
य एवं मन्त्रराजं नियमेन वा लक्षमावर्तयति स पाप्मानं हन्ति ।
स ब्रह्मत्वं भजति । स अमृतत्वं भजति । स आयुरारोग्यैश्वर्यं भजति ।
सदा पञ्चमकारेण पूजयेत् । सदा गुरुभक्तो भवेत् । सदा देवभक्तो भवेत् ।
धर्मिष्ठतां पुष्टिमहतवाचं विप्रा लभन्ते । मन्त्रजापिनो ह्यात्मा विद्याप्रपूरितो भवति ।
स जीवन्मुक्तो भवति । स सर्वशास्त्रं जानाति ।
स सर्वपुण्यकारी भवति । स सर्वयज्ञयाजी भवति ।
राजानो दासतां यान्ति । जप्त्वा स सर्वमेतं मन्त्रराजं स्वयं शिव एवाहमित्यणिमादिविभूतीनामीश्वरः कालिकां लभेत् ।
आवयोः पात्रभूतः सन् सुकृती त्यक्तकल्मषः ।
जीवन्मुक्तः स विज्ञेयो यस्मै लब्धा हि दक्षिणा ॥

दशांशं होमयेत्तदनु तर्पयेत् । अथ हैके यज्ञान् कामानद्वैतज्ञानादीननिरुद्धसरस्वतीति ।
अथ हैषः कालिका मनुजायी यः सदा शुद्धात्मा ज्ञानवैराग्ययुक्तः शाम्भवीदीक्षासु रक्तः शाक्तासु ।
यदि वा ब्रह्मचारी रात्रौ नग्नः सर्वदा मधुनाऽशक्तो मनसा जपपूजानियमवान् ।
योषितुप्रियकरो भगोदकेन तर्पणं तेनैव पूजनं कुर्यात् ।
सर्वदा कालिकारूपमात्मानं विभावयेत् ।
स सर्वदा योषिदासको भवेत् । स सर्वहत्यां तरति तेन मधुदानेन ।
अथ पञ्चमकारेण सर्वमायादिविद्यां पशुधनधान्यं सर्वेशत्वं च कवित्वं च ।
नान्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय धर्माधर्माय तत्सर्वं भूतं भव्यं यत् किञ्चिद् दृश्यमानं स्थावरजङ्गमं तत्सर्वं कालिकातन्त्रे ओत प्रोतं वेद ।
य एवं मनुजापी स पाप्मानं तरति । स भ्रूणहत्यां तरति ।
सोऽगम्यागमनं तरति । स सर्वसुखमाप्नोति ।
स सर्वंजानाति । स सर्वसन्यासी भवति ।
स विरक्तो भवति । स सर्ववेदाध्यायी भवति ।
स सर्वमन्त्रजापी भवति । स सर्वशास्त्रवेत्ता भवति ।
स सर्वज्ञानकारी भवति । स आवयो मित्रभूतो भवति ।
इत्याह भगवान् शिवः । निर्विकल्पेन मनसा स वन्द्यो भवति । अथ हैनाम्,
मूलाधारे स्मरेद्दिव्यं त्रिकोणं तेजसां निधिम् ।
शिखा आनीय तस्याग्नेरथ तूर्ध्वं व्यवस्थिता ॥
नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥
तस्या शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥
स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमा ।
इति कुण्डलिनीं ध्यात्वा सर्वपापैः प्रमुच्यते ॥

महापातकेभ्यः पूतो भूत्वा सर्वमन्त्रसिद्धिं कृत्वा भैरवो भवेत् ।
महाकालभैरवोऽस्य ऋषिः । अनुष्टुप्छन्दः (उष्णिक्छन्दः) । कालिका देवता। ह्रीं बीजं ह्रूं शक्तिः क्रीं कीलकं अनिरुद्धसरस्वती देवता । कवित्वे पाण्डित्यार्थे (धर्मार्थकाममोक्षार्थे) जपे विनियोगः ।
इत्येवमृषिच्छन्दो दैवतं ज्ञात्वा मन्त्रसाफल्यमश्नुते । अथर्वविद्यां प्रथममेकं द्वयं त्रयं वा नामद्वयसम्पुटितं कृत्वा योजयेत् । गतिस्तस्यास्तीति । ॐ सत्यम् । ॐ तत्सत् ।

अथ हैनं गुरुं परितोष्यैनं मन्त्रराजं गृह्णीयात् । मन्त्रराजं गुरुस्तमपि शिष्याय सत्कुलीनाय विद्याभक्ताय सुवेषां स्त्रियं स्पृष्ट्वा स्वयं निशायां निरुपद्रवः परिपूज्य एकाकी शिवगेहे लक्षं तदर्धं वा जपित्वा दद्यात् । ॐ ॐ ॐ सत्यं सत्यं सत्यम् । नान्यप्रकारेण सिद्धिर्भवति । अथाह वै कालिकामनोस्तारामनोस्त्रिपुरामनोः सर्वदुर्गामनोर्वा स्वरूपसिद्धिरेवमिति शिवम् ।
॥ इत्याथर्वणे सौभाग्यकाण्डे कालिकोपनिषत् समाप्त ॥

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.