॥ खंजनदर्शन तथा शुभाशुभ फलानि ॥

दशमी को अपराह्न समय खंजन पक्षी का दर्शन हो तो उसे नमस्कार करे । प्रार्थना करें –


वासुदेव स्वरूपेण सर्वकामफलप्रद ।
पृथिव्यामवतीर्णोऽसि खञ्जरीट नमोस्तुते ॥
खञ्जनाय नमस्तुभ्यं सर्वाभीष्ट प्रदाय च ।
नीलकण्ठाय भद्राय भद्ररूपाय ते नमः ॥
भद्र त्वं देहि मे भद्रमाशां पूरय पूरक ।
स्वस्तिकोऽसि कुरु खञ्जरीट नमोऽस्तुते ॥
नारायण स्वरूपाथ संवत्सर सुखप्रद ।
नीलकण्ठ महादेव खञ्जरीट नमोऽस्तु ते ॥
देवदानव यक्षाणां नराणां पुष्टिवर्धनम् ।
दर्शनं तव भद्रस्य विष्णुरूप नमोस्तुते ॥

॥ शुभाऽशुभफलम् ॥
जल प्रासाद शिखरे पर्वते च जलान्ति के ।
दृष्टे शुभं भवेत् कीर्तिगोष्ठेषु धनवर्द्धनम् ॥
अब्जेषु नृपतिर्भूयान् तथा देवालयेषु च।
तड़ागतीरे धनवान श्मशाने मरणं भवेत् ॥
कृष्णग्रीवो नीलकण्ठ श्वेतकण्ठो जनार्दनः ।
पीते तु पार्वती देवी धुन्वत् पक्षे तु वीक्षणम् ॥
व्याधिर्भवति देवेशि स्थिरे संपत्तिकारकं ।
भक्तं भुञ्जन् भवेद् रोगी श्रियं दृष्ट्वा च वासवः ॥
सुमानः कीर्तनादेव आयुषस्तु क्षयो भवेत् ।
तस्मात्तु खंजनं नाम कीर्तयेदविचारयन् ॥

 

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.