June 30, 2019 | aspundir | Leave a comment ॥ अथ गुह्यकाली दैनिककर्म सन्ध्या मन्त्राः ॥ १. दन्तधावन मन्त्रः — आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च । ब्रह्मप्रज्ञां च मेघां च तन्नो धेहि वनस्पते ॥ क्लीं फट् । २. मुखप्रक्षालनार्थ जलदानमन्त्रः — ॐ जूं सः । ३. आचमन मन्त्रः — ऐं अमृताय हूं फट् । ४. शिरोमार्जनार्थं गृहीतजलाभिमन्त्रण मन्त्रः — ग्लूं वरुणाय वषट् । ५. शिरोमार्जन मन्त्रः — ॐ चित्कलायै नमः ह्रीं अमृतायै नमः फ्रें गुह्यकाल्यै नमः । ६. गुरुध्यानम् — अनन्तरं वक्ष्यमाणस्य गुरुमनोः निर्देशः – ॐ परम गुरवे नमः । ७. गुरोर्नमस्कारमन्त्रः — अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । च क्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ८. देव्या आज्ञाग्रहणमन्त्रः — देवि श्रीगुह्यकालि त्वं देह्यनुज्ञां महेश्वरि । प्रयतिष्ये निदेशात्ते योगक्षेमार्थसिद्धये ॥ ९. मन्त्रस्नान प्रयोगः — (क) ॐ अस्य गुह्यकाली पूजाङ्गस्नानस्य कात्यायनऋषिः प्रतिष्ठाच्छन्दः वारुणी गुह्यकाली देवता मन्त्रस्नाने विनियोगः । (ख) गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ (ग) गुह्यकालीं देवीं तर्पयामि नमोऽस्तु । १०. तान्त्रिकतिलकधारण मन्त्रस्य (ऋष्यादिनिर्देशः) — विनियोगः- तिलकधारणमन्त्रस्य कालाग्निरुद्र संवर्तनिचिकेतस ऋषयः, पंक्तिश्छन्दः, पञ्चमहाभूतानि देवता, फली बीजं, हूं शक्तिः, क्रों कीलकं महापातकसंभूत पापनाशे विनियोगः । ११. चन्दन भूमि पर ड़ालें — ॐ ईं ज्ञानाय नमः । ॐ ईं इच्छायै नमः । ॐ ईं क्रियायै नमः । ॐ ईं शक्त्यै नमः । ॐ ईं कामाय नमः । १२. तिलक धारण — ह्रीं क्लीं हूं सर्वजनमोहिनि सर्ववश्यङ्करि मां रक्ष रक्ष फट् स्वाहा । १३. भस्मधारण — फ्रें गुह्यकाल्यै नमः । साधक नित्यकर्म सन्ध्या करें । सूर्य के अघमर्षण एवं अर्घ्यादि अर्पण करें । १४. अघमर्षण — क्ष्रौं चण्डघण्टायै फट् । १५. अर्घ्यदान — ऐं खफ्रें ह्स्फ्रें ह्स्ख्फ्रें श्रीगुह्यकालि एष ते अर्घः स्वाहा ।’ १६. पुनः उपस्थापनमनेन मन्त्रेण — ॐ ऐं ह्रीं श्रीं क्लीं स्त्रीं फ्रें ख्फ्रें ह्स्फ्रें ह्स्ख्फ्रें ह्स्ख्फ्रैं क्षह्रम्लव्य्रऊं गुह्यकालीं भगवतीमुपतिष्ठे । क्रौं क्ष्रौं फ्रौं स्फ्रौं क्रों स्हौः ग्लौं क्ष्र्ह्रीं ज्र्क्रीं क्ष्र्ह्रूं स्ह्लौं क्षस्हम्लव्य्रऊं फट् नमः स्वाहा । १७. देव्या द्वादशाञ्जलिदान मन्त्राः — ॐ चण्डायै नमः, ॐ कराल्यै नमः, ॐ भ्रामर्यै नमः ॐ ललितायै नमः, ॐ ज्वालिन्यै नमः, ॐ अघोरायै नमः, ॐ शूलिन्यै नमः, ॐ जयमङ्गलायै नमः, ॐ कुरुकुल्लायै नमः, ॐ फेत्कारिण्यै नमः, ॐ कालसङ्कर्षिण्यै नमः, ॐ गुह्यकाल्यै नमः । १८. पुनः अङ्गन्यास करे — तद्यथा – ॐ ऐं हृदयाय नमः, ॐ ह्रीं शिरसे स्वाहा, ॐ श्रीं शिखायै वषट्, ॐ हूं कवचाय हूं, ॐ स्त्रीं नेत्रत्रयाय वौषट्, ॐ फ्रें अस्त्राय फट् । १९. क्षणं देव्याः ध्यानं विधाय दशधा तत्तन्मन्त्राधिष्ठात्र्याः गायत्रिमन्त्रजपः कार्यः । एतस्य पञ्चाशद्वारं शतवारं वा जपं कर्तुमहंति कश्चित् । जपं समर्थ्य स्तुत्वा नत्वा विसर्जयेत् । २०. पुष्पाक्षतचन्दनानि आदाय सूर्यायार्घ दद्यात् । अर्घदानमन्त्रस्तु — ह्रां ह्रीं सः सूर्यभट्टारकाय एष ते अर्घः स्वाहा । २१. पुनः मूलमन्त्रस्य ऋष्यादिकं षडङ्गकं च विधायाष्टोत्तरशतवारं मूलमन्त्रस्य जपं कुर्यात् । २२. जले यन्त्रं विलिख्य देवी ध्यात्वा आवाह्य जलमयैरुपचारैः सम्पूज्य मार्तण्डमण्डले तां विचिन्तयन् मूलमन्त्रमुच्चारयेत् पुनः गुह्यकालीमहं तर्पयामि नमः । इति मन्त्रेण पञ्चविंशतिवारं तर्पणं कुर्यात् पुनः मूलमन्त्रमुच्चार्य सूर्यं पश्यन् पुष्पादिसप्रन्वितं सलिलाञ्जलि मादाय — ऐं ऐं ऐं ह्रीं फ्रें हूं स्त्रीं ख्फ्रें स्हौः ह्स्ख्फ्रीं हस्ख्फ्रूं क्ष्रस्त्रै उद्यदादित्यवर्तिन्यै शिवचैतन्यमय्यै प्रकाशशक्ति सहित मार्तण्ड भैरवाधिष्ठात्र्यै श्रीगुह्यकाली देव्यै नमः स्वाहा इति । मन्त्रेण तं प्रक्षिप्य विसर्जनं कुर्यात् इति सन्ध्याविधिः । २३. द्वारपूजा करके पूजा गृह में प्रवेश करें । वस्तुओं का शोधन कर पूजोपचार करें । गुह्यकाल्याः पूजासम्भार वस्तूनामुपचाराणां विनियोगः २४. विनियोग — ॐ अस्य श्री गुह्यकाली संभारवस्तुनः जमदग्निऋषिः, प्रतिष्ठाच्छन्दः, उत्तानाङ्गिरा देवता, रं बीजं, हूं शक्तिः, ह्रीं कीलकं, पूजासंभार सामग्री शोधने विनियोगः । २५. भूमिशुद्धि मन्त्रः — ह्रीं श्रीं छ्रीं फ्रें ऐं रक्ष रक्ष हूं फट् स्वाहा । २६. भूम्यभिन्त्रण मन्त्रः — ॐ क्लीं श्रीं वाराहि पवित्रा भव भूमे हूं फट् स्वाहा । २७. स्वा आसनशुद्धि मन्त्रः — ॐ ऐं ह्रीं फ्रें श्रीं स्त्रीं कामपीठाय कामसंभवाय कामाईते हूं फट् नमः । २८. पूजायाः सर्वोपकरणानां शुद्धि मन्त्रः — आं ऐं ॐ क्लीं ह्रीं श्रीं हूं फ्रें ग्लूं क्ष्रों पवित्रोदकाय फट् फट् नमः । २९. कायवाक् चित्तशोधन मन्त्रः — ॐ ऐं आं ईं ह्रीं ग्लूं श्रीं हूं सौः क्षौं स्हौः फ्रें ख्फ्रें कायं वाचं चित्तं मे शोधयाशे षवृजिनान्यपनय स्वाहा । ३०. सकल साधारणासन शुद्धि मन्त्रः — ॐ हौं फ्रें ख्फ्रें फ्रों ब्लौं अशेषमासनं पावय फट् स्वाहा । पाद्यार्घाचमनीयस्त्रानीयानां शुद्धिः जलशुद्धि प्रयुक्ता । ३१. जलशुद्धि मन्त्रः — ॐ वरुणदेवताय जलाय हूं फट् । ३२. अर्घदान मन्त्रः — एषोऽर्धः ॐ गुह्यकाल्यै स्वाहा । ३३. आचमनीयदान मन्त्रः — इदमाचमनीयं ॐ गुह्यकाल्यै स्वधा । ३४. मधुपर्कशोधनमन्त्रः — ऐं आं ह्रीं फ्रें फ्रीं फ्रूं क्षौं स्हौः सौः ह्रूं क्रें ह्स्ख्फ्रें पावय पावय हूं फट् स्वाहा । ३५. मधुपर्क दान मन्त्रः — एष मधुपर्कः ॐ गुह्यकाल्यै स्वधा । ३६. वस्त्रशुद्धि मन्त्रः — ह्रीं श्रीं क्लीं स्त्रीं फ्रें ख्फ्रें क्लूं ब्लूं ब्लौं र्क्ष्रीं क्ष्र्ह्रीं ज्र्क्रीं मोहिनि वशिनि वस्त्रं पवित्रय फट् नमः स्वाहा । ३७. भूषण शुद्धि मन्त्रः — आं क्रों क्षौं क्रौं ग्लूं ब्लूं ज्वल ज्वल प्रज्वल प्रज्वल फट् स्वाहा । ३८. चन्दन शुद्धि मन्त्रः — ह्रीं गन्धर्वदैवताय चन्दनानुलेपनाय हूं फट् । ३९. पुष्प शुद्धि मन्त्रः — ॐ ह्रीं श्रीं हौं फ्रें लक्ष्मीदेवताय पुष्पाय पुष्पस्रजे पत्राय पत्रस्रजे जलजाय स्थलजाय सगन्धाय निर्गन्धाय नानारूपाय हूं फट् । ४०. धूपशुद्धि मन्त्रः — ऐं क्लीं श्रीं ब्लैं ब्लौं वनस्पतिदैवताय दारुनिर्यासाय अप्सरोदैवताय सत्त्वाङ्गसंभवाय हूं फट् । ४१. दीपशुद्धि मन्त्रः — ॐ ऐं क्षौं रं वह्निदैवताय दीपाय घृताक्ताय (तैलाक्ताय वा ) हूं फट् । ४२. अञ्जन शुद्धि मन्त्रः — ऐं ॐ ह्रीं ब्रीं क्लीं श्रीं स्त्रीं फ्रें क्ष्रौं कह कह धक धक हूं फट् नमः स्वाहा । ४३. नैवेद्य शुद्धि मन्त्रः — ह्रीं श्रीं क्लीं ऐं फ्रें हूं ग्लूं क्रों नैवेद्यानि शोधय शोधय हूं फट् नमः स्वाहा । ४४. पुनराचमनीय शुद्धिस्तु मन्त्रः — उक्ताचमनीय शुद्धिमत्रेणैव कार्या । नैवेद्यानन्तरं देयमित्येतस्य विनिश्चयः ॥ ४५. सिन्दूरशोधन मन्त्रः — ऐं क्लीं श्रीं स्त्रीं फ्रें ओं शचीदैवताय सिन्दूराय हूं फट् स्वाहा । ४६. अलक्तक शुद्धि मन्त्रः — अं अलक्तकाय फट् । ४७. ताम्बूल शुद्धि मन्त्रः — ॐ ऐं ह्रीं श्रीं स्त्रीं क्लीं ग्लूं हौं विद्याधरदैवताय रागहेतुकाय ताम्बूलाय हूं फट् । ४८. पादुका शुद्धि मन्त्रः — ॐ ग्लौं पादुकाभ्यां सोमदैवताभ्यां हूं फट् स्वाहा । ४९. छत्र शुद्धि मन्त्रः — ॐ ऐं आं ह्रीं श्रीं क्लीं स्त्रीं हूं फ्रों फ्रौं फ्रें ब्लूं ख्फ्रें स्हौं छत्राय इन्द्रदेवताय वरुणाधिदैवताय शोधय शोधय पावय पावय हूं फट् स्वाहा । ५०. चामर शुद्धि मन्त्रः — ऐं ह्रीं श्रीं क्लीं फ्रें ख्फ्रें क्रों क्ष्ख्रूं ख्फ्रक्षूं सुरभिदैवताय चामराय हूं फट् फट् फट् नमः स्वाहा । ५१. व्यजन शुद्धि मन्त्रः — ॐ श्रीं क्लीं ईं क्रीं क्षूं ख्फ्रक्षैं ह्रौं ह्रां वायुदैवताय व्यजनाय हूं फट् स्वाहा । ५२. माला शुद्धि मन्त्रः — ॐ ऐं ह्रीं श्रीं क्लीं स्त्रीं फ्रें क्लूं फ्रें स्हौंः सौः क्ष्रौं स्रजं पावय पावय हूं फट् स्वाहा । ५३. मद्यस्य तदनुकल्पस्य च शुद्धि मन्त्रः — ॐ ऐं आं ह्रीं क्लीं श्रीं हूं क्रों फ्रें फ्रैं छ्रीं स्हौं सौः (अमा) ब्लूं क्षौं ख्फ्रें ह्स्फ्रें (व्यय) ह्स्ख्फ्रें क्ष्र्ह्रीं ज्र्क्रीं क्ष्र्ह्रूं क्षह्रम्लव्य्रऊं डाकिनी दैवताय सुराबलये निर्ऋतिदैवताय मांसबलयेशुद्धिं देहि देहि दोषं नुद नुद ओं औं हूं हूं फट् फट् स्वाहा । ५४. नैवैद्याङ्गसकल वस्तूनां शुद्धये मन्त्रः — ॐ ऐं ऐं ऐं ह्रीं क्लीं हूं स्त्रीं श्रीं फ्रें क्रों क्रौं क्रीं ग्लूं ग्लौं (रुचि) भ्रीं क्ष्रौं र्क्ष्रीं क्ह्लश्रीं ख्फ्रें ज्र्क्रीं क्ष्र्ह्रीं (फ्रम्रग्लऊं ब्लहतह्रस चर्मके) अथवा – ब्रक्षम्लसह्रछ्रूं स्हक्ष्लमह्रज्रूं ( इति निर्णेयम्) रम्लव्रीं कम्लव्रीं हूं फट् फट् फट् स्वाहा । ५५. कामपीठासन विधि — तत्र ऋष्यादिनिर्देशः — ॐ अस्य कामपीठोपवेशनस्य नारायण ऋषिः, प्रतिष्ठाच्छन्दः, कूर्मरूपी विष्णुः, देवता पूजार्थं कामपीठोपवेशने विनियोगः । ५६. तत्र विघ्नापसारण विधिः — ॐ क्षूं दारय दारय विघ्नं हूं फट् । इति मन्त्रेण सिद्धार्थाक्षतान् विकिरेत् । इस मन्त्र से सरसों बिखेरें । पार्ष्णिधातत्रयेण भौमान् विघ्नान् तालत्रयेण अन्तरिक्षगान् विघ्नान् दिव्येक्षणेक्षणैः दिव्यान् विघ्नानपसारयेत् । ३ बार भूमि का ताड़न करें, तथा ३ ताली बजायें । ५७. आसन शुद्धिमन्त्रस्तत्र — ॐ ऐं लं मां धारय धारय आसनं पावय पावयपवित्रे वैष्णवि हूं फट् स्वाहा । इति पठित्वा । पुनः — ॐ आधारशक्ति कमलासनाय नमः, ॐ ऐं कामपीठाय नमः, अं फट् । इति मन्त्रं पठन् तत्रोदङ्मुख उपविशेत् । पुनः — वामभागे गुरुभ्यो नमः, दक्षभागे गणेशाय नमः, सम्मुखे गुह्यकाल्यै नमः इति पठित्वा पुष्पं गृह्णीयात् तच्च कराभ्यां मर्दयित्वा उपनासं समाघ्नाय वामभागे वक्ष्यमाणं मन्त्रं पठन् तत्पुष्पं दूरेऽनवलोकयन् प्रक्षिपेत् मन्त्रस्तु “ॐ ह्रीं हूं फट् फट् फट् स्वाहा ।” ५८. भूतशुद्धिरत्र — हृदय कमलत: ज्वलद्दीपशिखाकृतिमात्मानं सुषुम्णा नाडीमार्गेण ठौं इत्युच्चरन् शिरःस्थिते सहस्रदलमध्यस्थे परमात्मनि संयोजयेत् । पुनः लिङ्गशरीरप्रकृतीनि पञ्चभूतानि तत्र तत्र विलीनानि तत्तद्रूपैर्विचिन्त्य देहभूमिं लिङ्गपीठभुवि वारिणि देहजलं हृत्तेजसि तत्तेजः मुखसंस्थे समीरणे तं वायुं भालगगने च विचिन्तयेत् । पुनः जीवात्मानं परमात्मनि संयोजयेत् । बुद्ध्यहङ्कारप्रभृतीन् सर्वान् तत्र लीनान् विभाव्यवामनासापुटेन समीरणं पूरयित्वा ‘यं’ इति धूम्र वर्णं विभावयेत् पुनः ‘यं बीजं पञ्चाशद्वारमुच्चरेत् तदुत्पन्नेन वायुना शुष्कं देहं विचिन्तयेत् पुनः दक्षनासापुटेन तं वायु रेचयेत् । सुषुम्णानाडीमार्गेण सर्वशः वायुमुत्तोल्य ‘रं’ बीजं रक्तवर्णं विभाव्य पञ्चाशद्वारमुच्चरेत् देहं तेन दग्धं विचिन्त्येत् पुनः पापात्मकं शरीरं भस्मरूपं विभाव्य वामनासापुटेन वायु रेचयेत् । पुनः वामनासापुटेन वायुमुत्तोल्य सहस्रदलमध्यगं चन्द्ररूपमर्थात् शुभ्रं निष्कलुषं परमात्मानं विचिन्त्य ‘वं’ इति बीजं पञ्चाशद्वारमुच्चरेत् तच्चन्द्रतश्च सुधायाः वृष्टिर्भवतीति परिकल्प्य तया देहमाप्लावयेत् । ततः ‘लं’ बीजमुच्चरन् शरीरशुद्धिं कुर्यात् । पुनः पुरा लीनीकृतानि पञ्चभूतानि यथास्थानं स्थापयित्वा ब्रह्मबीजं ‘ठौं’ इत्युच्चरन् अहङ्कारादितत्त्वैः सह परमात्मनः जीवात्मानं समाकृष्य हृदम्बुजे स्थापयेत् । पुनः देवीरूपमात्मानं चिन्तयेत् इयं भूतशुद्धिः महापापवृन्दं नाशयति । ५९. भूतापसारण मन्त्रः — ऐं ह्रीं क्षूं स्हौः हूं ढ्रीं सौः क्ष्रौं ख्फ्रें ह्स्ख्फ्रें पिशाचभूत वेताल रक्षसान् उत्सारय उत्सारय यावत् पूजा करोम्यहम् हूं फट् स्वाहा । इत्थं भूतशुद्धिं विधाय तत्तन्मन्त्रषडङ्गन्यासं कुर्यात् । पश्चात् प्राणायाम करे, अन्तर्मातृका एवं बहिर्मातृका न्यास करें । ॥ सामान्यतोमातृकान्यासानां द्वादश भेदाः ॥ (१) केवला प्रणवरहिता मातृका (२) शुद्धा प्रणवयुक्ता (३) कालातीता आदावन्ते च प्रणवयुक्ता (४) बिन्दुरहिता नित्या (५) बिन्दुरहिता प्रणवेनादौ युक्ता ज्ञानदा (६) बिन्दुरहिता आदावन्ते च प्रणवयुक्ता मोक्षदा (७) विपरीक्रमेण क्षकारपुरस्सरा यथोर्ध्वमुक्ता भवति यदि तदा अन्या षडधो निर्दिष्टा जायन्ते मातृकास्तासु प्रथमा स्थूला (८) सूक्ष्मा (९) स्वप्रकाशा (१०) अविग्रहा (११) निर्गुणा (१२) अमृता चैतासामूर्ध्वदर्शितेष्वङ्गेषु न्यासो भवति । मातृकापदं वर्णावलीं सङ्केतयत्यकारादि क्षकारान्ताम् । ॥ गुह्यकाल्याः षट् विशेषमातृकाः ॥ (१) आदौ ह्रीं मन्त्रं योजयित्वा सिद्धिदा सा जायते (२) अन्ते ह्रीं मन्त्रं योजयित्वा कौलिकी भवति । (३) आदौ छ्रीं मन्त्रं योजयित्वा करालिनी भवति । (४) अन्ते छ्रीं मन्त्रं योजयित्वा विरजा भवति । (५) आदौ फ्रें मन्त्रं योजयित्वा भोगदा जायते (६) अन्ते फ्रें मन्त्रं योजयित्वा विजया जायते न्यासस्तु पूर्ववत् । मातृकाऽत्रापि वर्णावली । Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe