॥ गुह्यकाली ध्यानम् ॥

गुह्यकाली १० मुखी, ८० मुखी एवं शतमुखी है, जिनमें दशमुखी का ही विशेष महत्व है अन्य स्वरूप तो कारण भेद से प्राप्त हुये हैं ।
प्रकृतिः सा परिज्ञेया कालीनां जगदम्बिका । अन्या विकृतयः प्रोक्ता कार्यकारण भेदतः ॥

॥ दशमुख्या गुह्यकाली ध्यानम् ॥

एवमष्टदलाम्भोजोपविष्टां गुह्यकालिकाम् ।
ध्यायेन्नीलोत्पल श्यामामिन्द्रनील समद्युतिम् ॥ १ ॥
घनाघनतनुद्योतां स्निग्धदूर्वादलद्युतिम् ।
ज्ञानरश्मि घटाटोप ज्योतिर्मण्डल मध्यगाम् ॥ २ ॥
दशवक्त्रां गुह्यकालीं सप्तविंशतिलोचनम् ।
द्विद्विनेत्रयुतां वक्त्रे वाम-दक्षिण-सम्मुखे ॥ ३ ॥
सप्तस्वन्येषु वक्त्रेषु त्रित्रिलोचन संयुताम् ।
उर्ध्ववक्त्रं (दीपिकाख्यं) चण्डयोगेश्वरीति हि ॥ ४ ॥
तस्याधः केशरिमुखं श्वेतवर्णं विभीषणम् ।
तस्याधः फेरुवक्त्रं च कृष्णं त्रैलोक्यडामरम् ॥ ५ ॥
वानरास्यं ततो वामे रक्तवर्णं महोल्वणम् ।
ऋक्षवक्त्रं भवेद्दक्षे धूम्रवर्णं भयङ्करम् ॥ ६ ॥
नरास्यं तदधो ज्ञेयं किर्म्मीराभं मदोत्कटम् ।
गारुडास्यं ततो वामे पिङ्गवर्णं सुचञ्चुकम् ॥ ७ ॥
दक्षिणे मकरास्यं च हरिताभं प्रकीर्तितम् ।
गजास्य वामतः प्रोक्तं गौरवर्णं स्रवन्मदम् ॥ ८ ॥
हयास्यं दक्षिणे काल्याः श्यामवर्णं विचिन्तयेत् ।
महादंष्ट्राकरालानि दारुणस्वनवन्ति च ॥ ९ ॥
अट्टाट्टहासयुक्तानि स्रवद्रक्तानि सर्वदा ।
लेलिहान विनिष्कान्त ललजिह्वान्वितानि च ॥ १० ॥
अहर्निशं कम्पमानान्यास्यानि दधतीं शिवाम् ।
भीमनिर्ह्रादिनीं भीमां भ्रूमङ्गकुटिलाननाम् ॥ ११ ॥
पिङ्गलोर्ध्व जटाजूटां चन्द्रार्धकृतशेखराम् ।
नानारत्न विनिर्माण सुमुण्डस्वर्ण कुण्डलाम् ॥ १२ ॥
स्रवद्रक्त नृमुण्ड स्रक् कृत नक्षत्रमालिकाम् ।
आकण्ठ गुल्फ लम्बिन्यालंकृतां मुण्डमालया ॥ १३ ॥
श्वेतास्थि गुलिकाहार ग्रैवेयक महोज्ज्वलाम् ।
शर्वादीर्घाङ्गुली पङ्क्ति मण्डितोरः स्थलस्थिराम् ॥ १४ ॥
कठोरपीवरोत्तुङ्ग वक्षोज युगलान्वितम् ।
महामारकतग्राववेदिश्रोणि परिष्कृताम् ॥ १५ ॥
विशालजघना भोगामतिक्षीण कटिस्थलाम् ।
अन्त्रनद्धार्भक शिरोबलत् किंकिणि मण्डिताम् ॥ १६ ॥
चतुः पञ्चाशता दोष्णा भूषितां जगदंबिकाम् ।
रत्न मालां कपालं च चर्मपाशं तथैव च ॥ १७ ॥
शक्तिं खट्वाङ्गमुण्डे च भुशुण्डीं धनुरेव च ।
चक्रं घण्टां ततो बालप्रेत शैलगतः परम् ॥ १८ ॥
नरकङ्कालनकुलौ सर्पमुन्दादवंशिकाम् ।
मुद्गरं वह्निकुण्डं च डमरुं परिघं तथा ॥ १९ ॥
भिन्दिपालं च मुसलं पट्टिशं प्रास एव च ।
शतघ्नीं च शिवापोतं वामहस्तेषु बिभ्रतीम् ॥ २० ॥
अथ दशभुजे रत्नमालां कर्त्रीमसिं तथा ।
तर्जनीमंकुशं दण्डं रत्नकुम्भं त्रिशूलकम् ॥ २१ ॥
पञ्च पशुपतान् बाणान् शोषकोन्मादमूर्छकान् ।
संहारकान् मृत्युकरानेवं नामप्रधारिणः ॥ २२ ॥
कुन्तं च पारिजातं च छुरिकां तोमरं तथा ।
पुष्पमालां डिण्डिमं च गृधं चैव कमण्डलुम् ॥ २३ ॥
मासखण्डं स्रुवं बीजपूरं सूचीं तथैव च ।
परशुं च गदां यष्टिं मुष्टिं कुणपलालनम् ॥ २४ ॥
धारयन्तीं महारौद्रीं जगत्संहारकारिणीम् ।
जपापुष्पाभनागेन्द्रकृत नूपुरयुग्मकाम् ॥ २५ ॥
पीतभोगीन्द्र विहित सर्वहस्तैक कङ्कणाम् ।
पाटलोरग निर्माण लसदङ्गदशोभितम् ॥ २६ ॥
धूसराहिकृतस्फीत. कटिसूत्रावलम्बिनाम् ।
सुपाण्डुरभुजङ्गेन्द्रकृत यज्ञोपवीतिनीम् ॥ २७ ॥
पिशङ्गाशी विषाभोगकृतहार महोज्ज्वलाम् ।
कल्माषपवनाहारकृत ताटङ्कशोभितम् ॥ २८ ॥
श्वेतदर्वी करानद्ध जटामुकुट मण्डिताम् ।
वैयाघ्रचर्मवसनां दीपिचर्मत्तरीयकाम् ॥ २९ ॥
किङ्किणीजालशोभाढ्यां वीरघण्टानिनादिनाम् ।
नूपुराराववलितां घर्घरारावभीषणाम् ॥ ३० ॥
कटकाङ्गद केयूरनरास्थिकृत शोभनाम् ।
रक्तपद्ममयीमाला पादपद्मावलम्बिताम् ॥ ३१ ॥
काञ्चीकह्लारक प्रेङ्खत् कटीमध्य विराजिताम् ।
ब्रह्मसूत्रोज्ज्वलत् कण्ठयोगपट्टोत्तरीयकाम् ॥ ३२ ॥
सौम्योग्रभूषणैर्युक्तां नागाष्टकविराजिताम् ।
रत्नकुण्डलकर्णश्रीं पञ्चकालानले स्थिताम् ॥ ३३ ॥
पद्मोपरि स्थितां देवीं नृत्यमानां सदोदिताम् ।
पद्मासनसुखासीनां सर्वदेवाधिदेवताम् ॥ ३४ ॥
मुक्तहुङ्कारजिह्वाग्रं चालयन्तीं विचिन्तयेत् ।
त्रिकोटिशक्ति चामुण्डा नवकोटिभिरन्विताम् ॥ ३५ ॥
महायोगिनि कोटीनामष्टादशभिरुर्ज्जिताम् ।
चरन्तीं च हसन्ती च डाकिनीषष्टिकोटिभिः ॥ ३६ ॥
भैरव्यशीतिकोटीभिः परिवारैश्च वेष्टिताम् ।
कोटिकालानल ज्ज्वालान्यक्कारोद्यत् कलेवराम् ॥ ३७ ॥
महाप्रलय कोट्यर्क विद्युदर्बुद सन्निभाम् ।
दुर्निरीक्ष्यां , महाभीमां सेन्द्रैरपि सुरासुरैः ॥ ३८ ॥
शत्रुपक्षक्षयकरीं दैत्यदानव सूदिनीम् ।
निर्विकारां निराभासां कूटस्थां चिविलासिनीम् ॥ ३९ ॥

॥ शतशीर्षाया गुह्यकाली ध्यानम् ॥

ध्यानमस्या विधेहि त्वं कथ्यमानमतः परम् ।
शतवक्त्रा गुह्यकालीर्दार्दण्डायुतमण्डिता ॥ १ ॥
सिंहेभबाजिशरभकपि फेरुगरुत्मताम् ।
ऋक्षोष्ट्रखरवक्त्राणां प्रस्तारोऽधः क्रमात् प्रिये ॥ २ ॥
शतत्रयेण नेत्राणां शोभितानां सदैव हि ।
आगुल्फलम्बिविस्रस्तजटोपरि विराजिताम् ॥ ३ ॥
शिव विष्णु शिरोन्यक्त प्रत्यालीढ पदक्रमाम् ।
वाम पञ्चसहस्राणि बाहूनां विभ्रतीं शिवाम् ॥ ४ ॥
तावन्त्येव हि चापानां धारयन्तीं कराम्बुजैः ।
दक्षे च पञ्चसाहस्रे शरास्त्राणि च विभ्रतीम् ॥ ५ ॥
व्याघ्रचर्मपरीधानां चन्द्रार्धकृतशेखराम् ।
अष्टोत्तर सहस्राभिर्मुण्डमालाभिरन्विताम् ॥ ६ ॥
लेलिहान महाभीम, ललज्जिह्वाकरालिनीम् ।
भृकुट्यरालवदनां त्र्यक्षां सर्वानने अपि ॥ ७ ॥
शार्दूलत्वक् परीधानां विश्वविस्तारिताननाम् ।
गलन्नृमुण्डहाराढ्यां नादापूरित पुष्कराम् ॥ ८ ॥
ज्वलद्भुतवहाकार विस्त्रस्तकच सञ्चयाम् ।
नरास्थिकृत सर्वाङ्गभूषणां जगदम्बिकाम् ॥ ९ ॥
कोटि कोटि महाघोर भैरवी योगिनी युताम् ।
शतवक्त्रां गुह्यकालीं गलद्रुधिरचर्चिताम् ॥ १० ॥
सिंहासना सृग्ध्वजासनाद्यैः पूर्ववद्युताम् ।
एवं रूपां गुह्यकालीं ध्यायेन्निश्चलमानसः ॥ ११ ॥

॥ द्वितीयोपासकोपासितायाः ध्यानम् ॥

विराड्ध्यानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ९ ॥
ब्रह्माण्डाद् बहिरुर्ध्वं हि महत्तत्त्वमहड्कृति ।
रूपाणि पञ्च तन्मात्राः पुरुषः प्रकृतिर्नव ॥ १० ॥
महापाताल पादान्तलम्बां तस्याः जटां स्मरेत् ।
ब्रह्माण्डोर्ध्वकपालं हि शिरस्तस्याः विभावयेत् ॥ ११ ॥
देवीलोकं ललाटं च षट्त्रिंशल्लक्ष योजनम् ।
मेरुः सीमान्तदण्डोस्याः ग्रहरत्न समाकुलाः ॥ १२ ॥
अजवीथी नागवीथी भ्रुवावस्याः प्रकीर्तिते ।
शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १३ ॥
रोहितं तिलकं ध्यायेन्नासां मन्दाकिनी तथा ।
चक्षुषी चन्द्रसूर्यों च पक्ष्माणि किरणास्तथा ॥ १३ ॥
गण्डौ स्यातां तपोलोकसत्यलोकौ यथाक्रमम् ।
जनलोकमहर्लोको कपोलौ परिकीर्तितौ ॥ १४ ॥
स्यातां हिमाद्रिकैलासौ तस्या देव्यास्तु कुण्डले ।
स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ १५ ॥
दिक्पतीनां ग्रहाणां च लोकाश्चाधो रदावली ।
गन्धर्वसिद्धसाध्यनां पितृकिन्नररक्षसाम् ॥ १६ ॥
पिशाचयक्षाप्सरसां मरीचेः पायिनां तथा ।
विद्याधराणामाज्योष्मपानां सोमैकपायिनाम् ॥ १७ ॥
सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।
मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १८ ॥
ब्रह्मलोको गलः प्रोक्तो नभो वक्षःस्थलं तथा ।
हारो नक्षत्रमाला स्यात् वाहवो दिक्विदिक्चयाः ॥ १९ ॥
तत्तल्लोकफलं चास्त्रं पृष्ठं द्यौः परिकीर्तिता ।
तथान्तरीक्षमुदरं गिरयोन्त्राणि सर्वशः ॥ २० ॥
जठरः सिन्धवः प्रोक्ता वायवः प्राणरूपिणः ।
वनस्पतय औषध्यो लोमानि परिचक्षते ॥ २१ ॥
विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवी पाद उच्यते ॥ २२ ॥
तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादांगुल्यः प्रकीर्तिताः ॥ २३ ॥
वेदाः वाचः स्यन्दमाना नद्यो नाड्योमिता मताः ।
कलाकाष्ठामुहूर्ताश्च ऋतवोऽयनमेव च ॥ २४ ॥
पक्षा मासास्तथा चाब्दाश्चत्वारोपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च जङ्घोरु कटिवंक्षणाः ॥ २५ ॥
प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्यू जिह्वात्रयमिदं स्मृतम् ॥ २६ ॥
आब्रह्मस्तम्बपर्यन्तं मन्त्रमस्याः प्रचक्षते ।
प्रलयो भोजनकालस्तृप्तिस्तेन च नाल्पिका ॥ २७ ॥
ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः ।
विराड्रूपस्य ते ध्यानमिति संक्षेपतोर्पितम् ॥ २८ ॥

One comment on “गुह्यकाली ध्यानम्

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.