November 24, 2018 | Leave a comment || गोरक्षनाथाष्टकम् || (हंसचित्रम्) योगीन्द्राप्त-हितोपदेश-विशदा देशार्थ-तत्वं शिरो। ज्ञानं कर्म च दक्षिणोत्तर-गता, वक्षोभ्यपक्षा-वसौ। आत्मा योगवरः स्वरूप-विषया पुच्छे प्रतिष्ठा-चितो । माया यस्य जगत्वयं विजयते हंसः स नाथो विभुः ॥ 1॥ द्वैतं दक्षिणपक्ष एष विहितोऽद्वैतं विविच्योत्तरः पक्षो योग-शिरो विशेष-परमा द्वैतं तदात्मा महान् । पुच्छं केवल-भाव एक विदुषां, हृत्पद्मनीड मह, न्माया यस्य जगत्त्रय विजयते, हंसः स नाथोविभु ॥ 2 ॥ ऐन्द्री दिक्षभपूर्व-रूपमतुलं, पुच्छं प्रतीची दिशो-, दीती-याम्यदिशा-वतीव विपुलौ दक्षौ हि पक्षौ हितो। ऽआत्मेवापदिश दिशासु तरले, सूर्यन्दुबिम्बे दृशौ, माया यस्य जगत्त्रयं विजयते हंसः स नाथो विभु: ॥ 3 ॥ श्रृत्यन्ते कथितं शिरो महदिदं, पक्षोऽयमत्रोत्तरः, सोयऽ दक्षिण-पक्ष एव विपुलः, स्थूलोऽयमात्माचलः। स्वच्छं पुच्छमिवेदमेव भुवन, नीडं सरूपाभिधं, माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुनाथ ॥ 4 ॥ प्राणों दक्षिण-पक्ष एष वितती, दानो भवत्युत्तरः, पक्षो व्यान-शिरो विशाल-हृदयं, मध्यं समानोऽपरः । वायुः पुच्छमतुच्छमेव भजतां, नीडं निकायो जडं, माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभु: ॥ 5। भव्यं सत्मृतं च पक्ष-युगलं, वाणी शिर: प्राणिना, मात्माऽशेषविशेषदोषरहितः श्रद्धेव पुच्छं फलम् । सर्व तुच्छ-मनु-प्रविश्य सहसाऽ, तुच्छं पुरा व्याकृतं, माया यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुः ॥ 6 ॥ पश्चैतद्यजुरेव सांगमखिलं, नित्य शिरो निर्मल-, मृक्सामात्मक-वेद-युग्ममतुलं, पक्ष-द्वयं पक्षिण: । आत्मादेशपरा ऋगेव सफला, ऽथर्वैव पुच्छं परा, माया यस्य जगत्त्रयं विजयते, हंस: स नाथो विभुः ॥ 7 ॥ श्रुत्या जन्यमिंद प्रियं शितशिरो, मोद-प्रमोदावहं, पक्षायुत्तर-दक्षिणावसु-भृद्रा, नन्दोऽयमात्मातुलः । पुच्छं ब्रह्म तदादि-वाक्य-गतया वृत्त्योपलक्ष्यात्म, तन्यामा यस्य जगत्त्रयं विजयते, हंसः स नाथो विभुः ॥ 8 ॥ मानेन मानेन समाश्रितानां, मानं समानं मम नाथ ! भूयात् । मानेन मानेन समाश्रितानां, मान समान मम नाथ ! भूयात् ॥ 9 ॥ स्वस्ति श्री श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुराम् ॥ इति श्रीराजस्थानशेखरी भूतयोधपुराधिराज सिंहदेव विरचित तैत्तिरीयोपनिषदनुसारं ॥ Related