॥ श्री जगन्मङ्गल काली कवचम् अथवा श्यामाकवचम् ॥

॥ भैरव्युवाच ॥

कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।
इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥ १ ॥

त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ।
त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् ॥ २ ॥


॥ भैरव उवाच ॥
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे ।
श्रीजगन्मङ्गलं नाम कवचं मन्त्रविग्रहम् ॥ ३ ॥

पठित्वा धारयित्वा वा त्रैलोक्यं मोहयेत्क्षणात् ।
नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ ४ ॥

योगेशं क्षोभमनयद्यद्धृत्वा योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूद्वहः(रघूत्तमः) ।
वर-दृप्तान्(तृप्तो) जघानैव रावणादिनिशाचरान् ॥ ५ ॥

यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः ।
धनाधिपः कुबेरोपि सुरेशोऽभूच्छचीपतिः ॥ ६ ॥

एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये ।
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥ ७ ॥

छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता ।
जगतां मोहने दुष्टनिग्रहे(
विजये) भुक्तिमुक्तिषु ॥ ८ ॥

योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः ।
॥ मूल-पाठ ॥
शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥ ९ ॥

क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी ।
हुं हुं पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम ॥ १०॥

दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी ।
क्रीं क्रीं रसनां पातु हुं हुं पातु कपोलकम् ॥ ११ ॥

वदनं सकलं ह्रीँ ह्रीँ स्वाहास्वरूपिणी ।
द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥ १२ ॥

खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ।
क्रीं क्रीं हुं त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥ १३ ॥

ऐं हूं ॐ ऐं स्तनद्वन्द्वं ह्रीं फट्स्वाहा ककुत्स्थलम् ।
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥ १४ ॥

क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षडक्षरी मम ।
ॐ ह्रीं क्रीं मे स्वाहा पातु कालिका जानुनी मम ॥ १५ ॥

कालीहृन्नाम विद्येयं चतुर्वर्गफलप्रदा ।
क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकाऽवतु ॥ १६ ॥

क्रीं स्वाहा पातु पृष्ठं तु कालिका सा दशाक्षरी ।
ह्रीं ह्रीं दक्षिणे कालिके ह्रीं हूं पातु कटिद्वयम् ॥ १७ ॥

काली दशाक्षरी विद्या स्वाहा पातुरुयुग्मकम् ।
क्रीं ह्रूं ह्रीं सा गुल्फं दक्षिणे कालिकाऽवतु ॥ १८ ॥

क्रीं ह्रूं ह्रीं स्वाहा पातु चतुर्द्दशाक्षरी मम ।
खड्गमुण्डधरा काली वरदाभयधारिणी ॥ १९ ॥

विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु ।
काली कपालिनी कुल्ला(कुल्या) कुरुकुल्ला विरोधिनी ॥ २० ॥

विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ।
नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥ २१ ॥

एताः सर्वाः खड्गधरा मुण्डमालाविभूषिताः ।
रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥ २२ ॥

माहेश्वरी च चामुण्डा कौमारी चापराजिता ।
वाराही नारसिंही च सर्वाश्चामितभूषणाः ॥ २३ ॥

रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा ।
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ २४ ॥


॥ फल-श्रुति ॥

श्रीजगन्मङ्गलन्नाम महामन्त्रौघविग्रहम् ।
त्रैलोक्याकर्षकं ब्रह्म कवचं मन्मुखोदितम् ॥ २५ ॥

गुरुपूजां विधायाथ गृह्णयात् कवचं ततः ।
कवचं त्रिः सकृद्वापि यावज्जीवं च वा पुनः ॥ २६ ॥

एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् ।
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ॥ २७ ॥

महाकविर्भवेन्मासत् सर्वसिद्धीश्वरो भवेत् ।
पुष्पाञ्जलीन्कालिकायै मूलेनैव पठत् सकृत् ॥ २८ ॥

शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।
भूर्ज्जे विलिखितञ्चैतत् स्वर्णस्थं धारयेद्यदि ॥ २९ ॥

शिखायां दक्षबाहौ कण्ठे वा धारयेद्यदि ।
त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥ ३० ॥

पुत्रबान् धनवान् श्रीमान् नानाविद्यानिधिर्भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥ ३१ ॥

नाशमायान्ति या नारी वन्ध्या वा मृतपुत्रिणी ।
कण्ठे वा वाम बाहौ वा कवचस्य च धारणात् ॥ ३२ ॥

बह्वपत्या जीववत्सा भवत्येव न संशयः ।
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ ३३ ॥

शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् ।
स्पर्धामुद्भूय कमला वाग्देवी तन्मन्दिरे वसेत् ॥ ३४ ॥

पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ।
इदं कवचमज्ञात्वा यो भजेत् कालिदक्षिणाम् ॥ ३५ ॥

शतलक्षं प्रजप्ता हि तस्य विद्या न सिध्यति ।
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ३६॥

॥ इति भैरवतन्त्रे भैरव-भैरवीसंवादे काल्याः कवचं सम्पूर्णम् ॥

 

 

 

Content Protection by DMCA.com

Leave a Reply

Your email address will not be published.

This site uses Akismet to reduce spam. Learn how your comment data is processed.