May 27, 2019 | aspundir | 1 Comment ॥ त्रिपुरसुन्दर्यादूती वशिनीकृत राधा स्तुतिः ॥ राधा ने त्रिपुर सुन्दरी की उपासना की कि हे मां मेरी सहायता करो तथा त्रिपुरसुन्दरी ने अपनी वशिन्यादि दूतियों को सहायता करने को कहा तब वशिन्यादि ने राधा की प्रशंसा व स्तुति की । यथा — जय जय राधे कृतनतराधे जगदभिवन्द्ये सुरवरवन्द्ये । धृतबहुरूपे स्मरमखरूपे सरसिजवक्त्रे सुमदिरनेत्रे ॥ जय धृतहारे त्रिभुवनसारे विगतविकारे मधुरविचारे । विकलितसाम्येऽखिलजनकाम्ये रसमयि सौम्ये प्रतिहतवान्ये (म्ये) ॥ जय जय कान्ते जगति सुशान्ते सुखमयि दान्ते करहिलतान्ते । सहृदयमान्ये गुणगणधान्ये युवजनगण्ये धृतलावण्ये । कुशलवदान्ये कृतरसवन्ये वृन्दारण्येश्वरि सुरकन्ये ॥ जय जय सकल सकलसीमन्तिनि सीमन्तप्रान्तसमुद्योतमानमणिदिन मणिद्युतिदीपितचरणसरसीरुह विलुठत् सुरासुरनरोरगदानव गन्धर्वाप्सरोयक्षरक्षोलक्ष कोटिकोटि हाटकस्फुटमुकुटकोटिपरिसङ्घट्टन- कोलाहलकलकली विकलीकृतो कुण्डप्रचण्डब्रह्माण्डव्यूहचमत्कार चकितलोकशोकसङ्घातघातनदक्षे ॥ जय जय शम्बरवारणकलाकलापसमलङ्कृत वरकलेवरकान्ति विनिन्दितविद्योतमानबाहुमान विद्युतिसन्ततिसन्ततसन्तप्तकाञ्चनसञ्चित- विमल विशाल कमल मालाप्राघुणकीकृतसमुन्मदमत्तमतङ्ग राजो जृम्भमानकुम्भ समारम्भो त्तुङ्ग-पीन-पयोधर-धराधर तटनिकट-प्रकटित-मुक्तामुक्तहारजह्रदुहितृसख्ये ॥ जय जय चिकुर निकुरम्बसम्बलमाल-नवमालिका मालिकाधिरोह माणरोलम्बगण झङ्कार सञ्चारितपूर्णशशधर निरुद्धप्रबुद्धसैहिकेय संशोभाप्रभावे ॥ जय जय जननि जननिकरवरप्रदानकरणसमयसमयिता लीलान्दोलविलोलप्रकटकटाक्षमोक्षानुसन्धान विधानदक्षस्मेरसुधासारासारस्न्नापितकातर नरसतृष्ण तृष्णस्मारितस्मर विभवे ॥ जय-जय नभोमण्डलमण्डनाय मानप्रचण्डचण्डकिरणकिरणावधीरण धीरसीमन्तसिन्दूरपूरणपाटलच्छटापटल -परिपाटी पाटितसूचीसूच्यमानसंसार सागरप्रचुरसन्तप्तविदूरीकारकारितपदार्थ सञ्चार विजनचातुरीक चराचरलोकसमस्ते ॥ जय जय प्रणतिसन्ततिसन्तताभुज्यमानभुजाग्रावलम्बारम्भसंवलमान प्रकटजटापटलीसमालीढमूर्धाभि रुद्धेर्द्धिरनिबद्ध कर पुटाञ्जलिभिः सुचतुरचतुराननचतुराननी प्रणीयमानवेदनिर्वेदवचनरचनोपायने नयमिभिरपिशमितषडमित्रचरित्रैश्चिरकमिते नमिते नमितेऽस्तु नमस्ते ॥ जय जय दामिनी मायिनी मातःपरमपि वरमिहयामोनातः । कलय दृगन्तं सकलकलाढ्ये जीवतु कृष्णो विगलितजाड्ये ॥ जय जय जय जय रसमयि राधे प्रणतजनानां प्रतिहतबाधे । यदि कुरुषे करुणापरुणाक्षि कलयति जीवं जीवनसाक्षि ॥ या कन्दर्यकलाकलापकुशला लोकत्रयी, मोहनी, या नित्याममरा वराय नितरां सम्प्रार्थयते चिरम् । मुह्यन्ति स्ममुनीश्वरा अपि यया यस्यै नमस्कुर्वते, यस्या साधुहृतो विदन्ति चरितं यस्या न वेदाः कदा ॥ यस्यां भक्तिधृतो मनोऽपि न मनाक् कुर्वन्ति नाकेषु, न: मोक्षे शक्रपदे पदे हिमतनो: कौबेरके सौरके । ब्राहो वर्त्मनि सर्वभौममुखजे वाष्टासुसिद्धिष्वसौ, शश्वद् विश्वजनीन-कर्मणि पुनः राधा प्रसन्नास्तु सा ॥ एवं स्तुतामहादेवी तो आह्लानन्दरूपिणी । अपाङ्ग रङ्ग भङ्ग्यारिङ्गयन्य वर्जितम् ॥ ॥ श्रीराधा उवाच ॥ शृणुध्वं शक्तयः सर्वास्तथ्यं पथ्यं हितं वचः । न मत्तोऽप्यधिका काचित् प्रकृतिः पुरुषोऽपि कः ॥ अहमेव परंब्रह्म पुरुषः श्यामविग्रहः । अहं सा परमा शक्तिः श्रीमत्रिपुरसुन्दरी ॥ अहं तद्ब्रह्म परमं सूक्ष्मं ज्यातिर्निरञ्जनम् । अहमानन्दरुपाऽस्मि कृष्णोऽसौ रसविग्रहः ॥ प्रेमस्वरूपा सा देवी महात्रिपुरसुन्दरी । विना प्रेमरसो नास्ति न चानन्दो रस विना ॥ प्रेमानन्दो रसश्चैव एक एव न संशयः । तस्माद् यन्त्रविधाने न नौषधैर्मणिभिर्न माम् ॥ अपि कृष्णो वशयितुं न शक्तः किमुतापरे । शक्तिहीनस्य नानन्दो न प्रेमरस एव वा ॥ अहं तु परमा शक्तिः श्रीकृष्णहृदयस्थिता । सख्यो नाहं पराधीना स्वतंत्रा सर्वदाऽस्म्यहम् ॥ ॥ इति कृष्णयामल तन्त्रे एकोविंशोऽध्याये वशिनी कृत राधास्तुति ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply