October 3, 2015 | Leave a comment त्रैलोक्यमंगल श्रीकृष्ण कवचम् कुञ्चिताधरपुटेन पूरयन् वंशिकाप्रचलदंगुलीततिः । मोहयन्सुरभिवामलोचनाः पातु कोऽपि नवनीरदच्छविः ॥ ॥ गणेशाय नमः ॥ ॥ नारद उवाच ॥ भगवन्सर्वधर्मज्ञ कवचं यत्प्रकाशितम् । त्रैलोक्यमंगलं नाम कृपया कथय प्रभो ॥ १ ॥ ॥ सनत्कुमार उवाच ॥ श्रृणु वक्ष्यामि विपेन्द्र कवचं परमाद्भुतम् । नारायणेन कथितं कृपया ब्रह्मणे पुरा ॥ २ ॥ ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि वै । अतिगुह्यतरं तत्त्वं ब्रह्ममंत्रौघविग्रहम् ॥ ३ ॥ यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते ध्रुवम् । यद्धृत्वा पठनात्पाति महालक्ष्मीर्जगत्रयम् ॥ ४ ॥ पठनाद्धारणाच्छंभुः संहर्ता सर्वमंत्रवित् । त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥ ५ ॥ वरदृप्तान् जघानैव पठनाद्धारणाद्यतः । एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥ ६ ॥ इदं कवचमत्यंतगुप्तं कुत्रापि नो वदेत् । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ७ ॥ शठाय परशिष्याय दत्त्वा मृत्युमवप्नुयात् । त्रैलोक्यमंगस्यास्य कवचस्य प्रजापतिः ॥ ८ ॥ ऋषिश्छंदश्च गायत्री देवो नारायणः स्वयम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ९ ॥ ॥ मूल-पाठ ॥ प्रणवो मे शिरः पातु नमो नारायणाय च । भालं मे नेत्रयुगलमष्टार्णो भुक्तिमुक्तिदः ॥ १० ॥ क्लीं पायाच्छ्रत्रियुग्मं चैकाक्षरः सर्वमोहनः । क्लीं कृष्णाय सदा घ्राणं गोविंदायेति जिह्विकाम् ॥ ११ ॥ गोपीजनपदवल्लभाय स्वाहाननं मम । अष्टादशाक्षरो मंत्रः कण्ठं पातु दशाक्षरः ॥ १२ ॥ गोपीजनपदवल्लभाय स्वाहा भुजद्वयम् । क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः स्कंधौ दशाक्षरः ॥ १३ ॥ क्लीं कृष्णः क्लीं करौ पायात् क्लीं कृष्णो मां गतोऽवतु । ह्रदयं भुवनेशानः क्लीं कृष्णः क्लीं स्तनौ मम ॥ १४ ॥ गोपालायाग्निजायान्तं कुक्षियुग्मं सदाऽवतु । क्लीं कृष्णाय सदा पातु पार्श्वयुग्ममनुत्तमः ॥ १५ ॥ कृष्णगोविंदकौ पातां स्मराद्यौ डेयुतौ मनुः । अष्टाक्षरः पातु नाभिं कृष्णेति द्वयक्षरोऽवतु ॥ १६ ॥ पृष्ठं क्लीं कृष्णकं गल्लं क्लीं कृष्णाय द्विठान्तकः । सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्णठद्वयम् ॥ १७ ॥ ऊरू सप्ताक्षरः पायात्रयोदशाक्षरोऽवतु । श्री ह्रीं क्लीं पदतो गोपीजनवल्लभपदं ततः ॥ १८ ॥ भाय स्वाहेति पायुं वै क्लीं ह्रीं श्रीं स दशार्णकः । जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ॥ १९ ॥ त्रयोदशाक्षरः पातु ज्म्घे चक्राद्युदायुधः । अष्टादशाक्षरः ह्रीं श्रीं पूर्वको विंशदर्णकः ॥ २० ॥ सर्वांगं मे सदा पातु द्वारकानायको बली । नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥ २१ ॥ ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु । श्रीं ह्रीं क्लीं च दशार्णस्तु ह्रीं क्लीं श्रीं षोडशार्णकः ॥ २२ ॥ गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु । ह्रीं श्रीं दशाक्षरो मंत्रो दक्षिणे मां सदाऽवतु ॥ २३ ॥ तारो नमो भगवते रुक्मिणीवल्लभाय च । स्वाहेति षोडशार्णोऽयं नैऋत्यां दिशि रक्षतु ॥ २४ ॥ क्लीं ह्रषीकेशाय पदं नमो मां वारुणेऽवतु । अष्तादशार्णः कामान्तो वायव्ये मां सदाऽवतु ॥ २५ ॥ श्रीं मायाकामकृष्णाय गोविंदाय द्विठो मनुः ॥ द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥ २६ ॥ वाग्भयं कामकृष्णायं ह्रीं गोविंदाय तत्परम् । श्रीं गोपीजनवल्लभान्ताय स्वाहा करौ ततः ॥ २७ ॥ द्वाविंशत्यक्षरो मंत्रो मामैशान्ये सदाऽवतु । कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥ २८ ॥ नमामि देवकीपुत्रं नृत्यराजानमच्युतम् । द्वात्रिंशदक्षरो मंत्रोऽप्यधो मां सर्वदाऽवतु ॥ २९ ॥ कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनङ्गः प्रचोदयादेषां मां पातु चोर्ध्वतः ॥ ३० ॥ ॥ फल-श्रुति ॥ इति ते कथितं विप्र ब्रह्म मंत्रौघविग्रहम् । त्रैलोक्यमंगलं नाम कवचं ब्रह्मरूपकम् ॥ ३१ ॥ ब्रह्मणा कथितं पूर्वं नारायणमुखाच्छ्रतम् । तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥ ३२ ॥ गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः । सकृद् द्विस्त्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥ ३३ ॥ मंत्रेषु सकलेष्वेव देशिको नात्र संशयः । शतमष्टोत्तरं चास्य पुरश्चर्यविधिः स्मृतः ॥ ३४ ॥ हवनादिन्दशांशेन कृत्वा तत्साधयेद् ध्रुवम् । यदि स्यात्सिद्धकवचो विष्णुरेव भवेत्स्वयम् ॥ ३५ ॥ मंत्रसिद्धिर्भवेत्तस्य पुरुश्चर्याविधानतः । स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत्ततः ॥ ३६ ॥ पुष्पांजल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् । दशवर्षसहस्त्राणी पूजायाः फलमाप्नुयात् ॥ ३७ ॥ भूर्जे विलिख्यांगुलिकां स्वर्णस्थां धारयेद्यदि । कंठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ ३८ ॥ अश्वमेधसहस्त्राणि वाजपेयशतानि च । महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ॥ ३९ ॥ कलां नार्हन्ति तान्येव सकृदुच्चारणात्ततः । कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥ ४० ॥ त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् । इदं कवचमज्ञात्व यजेद्यः पुरुशोत्तमम् । शतलक्षं प्रजप्तोऽपि न मंत्रस्तस्य सिध्यति ॥ ४१ ॥ ॥ श्रीनारदपंचरात्रे ज्ञानामृतसारे त्रैलोक्यमंगलकवचं ॥ Related