September 7, 2015 | aspundir | Leave a comment श्री नवनाथ वन्दनाष्टकम् वन्दे श्री आदिनाथं शिव गुरु मुदयाख्योमया युक्तमादौ । ब्राह्मण सत्यनाथं तदनु दनुकुलध्वंसि सन्तोषनाथम् ।। शेषं वन्दे अचलाख्यं गणपतिमथ तं कन्थड़ि सिद्धि युक्तं । चन्द्रं चौरंगीनाथं हरिहर वपुषो मीन गोरक्षनाथौ ।। १ ।। य आदिनाथो भगवाननादि र्ज्ञानांबुधिः स्वात्मरति महात्मा । श्री देशीकेन्द्रः करुणाम्बुराशीर्नाना स्वरुपेश्चरतीह लोकेल ।। २ ।। अहो नमः श्री युतपाद पदमं मत्स्येन्द्र-नाथस्य मनोज्ञमूतेः । साकल्य भावं प्रविहाय यंत्र चक्रे निवासे कमला च गीश्च ।। ३ ।। गोरक्ष रुपेण चरन्तमीशं गोरक्षणायावनि मण्डलस्थम् । गोरक्ष शैलस्य गुहान्तरस्थं गोरक्ष नाथं प्रणमामि नित्यम् ।। ४ ।। गोरक्षबालं गुरु शिष्य पालं शेषाहिमालं शशिखण्डभालम् । कालस्य कालं जितजन्मजालं वन्दे जटालं जगदब्जनालम् ।। ५ ।। सिंहाशैलगुहां सरोवरमिभा हंसा यथा मानसं । चन्द्रं कैरविणीकुलं कुवलयं भृंगा धनं चातकाः ।। भोगीन्द्रा मलयं धनं गतधनाः पद्मकारा भास्करं । स्वातिं शुक्तिकुलं जलम् झषकुलं मेघं मयूरा यथा ।। ६ ।। सारंगा मृदुरागमुज्जवलं शिखं दीपं पतंगा यथा । व्यापनाः शरणं खगाः फलतरुं बाला यथा मातरम् ।। कस्तूरर्यों हिमशैलवासमबलाः कांतं चकोरा विंधु । गोरक्ष प्रतिवासरं तव पदं ध्यायन्ति योगीश्वराः ।। ७ ।। गोरक्षस्य कला व्यपाकृतखला योगांग धौतोज्जवला । व्तक्ताव्यक्त बला मनोरथ फला शाश्वज्जगन्मंगला ।। कारुण्याब्धिजला विवेक विमला सौजन्य मुक्तच्छला । ज्योत्सनावद्धवला प्रसूतकमला कैवल्य मैलास्तु वः ।। ८ ।। सततं नवनाथ वन्दनां नवकद्वार युते अत्र मंदिरे । नवशक्ति युताः प्रकुर्वतां, नवनाथाः शिवमावहन्तु वः ।। ९ ।। Related