January 8, 2019 | aspundir | 1 Comment ॥ पवमानसूक्त ॥ अथर्ववेद की नौ शाखाएँ कही गयी हैं, जिनमें शौनकीय तथा पैप्पलाद शाखा मुख्य हैं । शौनकीय शाखा की संहिता तो उपलब्ध है, किंतु पैप्पलादसंहिता प्रायः उपलब्ध नहीं होती । इसी पप्पलादसंहिता में २१ मन्त्रात्मक एक सूक्त पठित है, जो ‘पवमानसूक्त’ कहलाता है । वेद में पवमान शब्द अनेक अर्थों में प्रयुक्त हुआ है। ऋग्वेद को पावमानी ऋचाएँ अत्यन्त प्रसिद्ध हैं, जो प्रायः अभिषेक आदिके समय पठित होती हैं। ऋग्वेद में इस शब्द को प्रयोग सोम के लिये हुआ है, जो स्वतः छलनी के मध्य से छनकर शुद्ध होता है । अन्यत्र कहीं इसका वायु अर्थ में तो कहीं अग्नि अर्थ में प्रयोग हुआ है । पवमान का शाब्दिक अर्थ है शुद्ध होनेवाला या शुद्ध करनेवाला । अतः पवमानपरक मन्त्र पवित्र करनेवाले हैं । पैप्पलादीय इस पवमानसूक्त में पवमान सोम से पवित्र करने की प्रार्थना की गयी है – सहस्राक्षं शतधारमृषिभिः पावनं कृतम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १ ॥ जो सहस्रों नेत्रवाला, सैकड़ों धाराओं में बहनेवाला तथा ऋषियोंसे पवित्र किया गया है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १ ॥ येन पूतमन्तरिक्षं यस्मिन्वायुरधिश्रितः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २ ॥ जिससे अन्तरिक्ष पवित्र हुआ है, वायु जिसमें अधिष्ठित है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ २ ॥ येन पूते द्यावापृथिवी आपः पूता अथो स्वः । तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ३ ॥ जिससे द्युलोक और पृथिवी, जल और स्वर्ग पवित्र किये गये हैं, उन सहस्त्रधार सोमसे पवमान मुझे पवित्र करे ॥ ३ ॥ येन पूते अहोरात्रे दिशः पूता उत येन प्रदिशः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ४ ॥ जिससे रात और दिन, दिशा-प्रदिशाएँ पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ४ ॥ येन पूतौ सूर्याचन्द्रमसौ नक्षत्राणि भूतकृतः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ५ ॥ जिससे सूर्य और चन्द्रमा, नक्षत्र और भौतिक सृष्टि रचनेवाले पदार्थ पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ५ ॥ येन पूता वेदिरग्नयः परिधयः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ६ ॥ जिससे वेदी, अग्नियाँ और परिधि पवित्र की गयी हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ६ ॥ येन पूतं बर्हिराज्यमथो हविर्येन पूतो यज्ञो वषट्कारो हुताहुतिः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ७ ॥ जिससे कुशा, आज्य, हवि, यज्ञ और वषट्कार तथा हवन की हुई आहुति पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ७ ॥ येन पूतौ व्रीहियवौ याभ्यां यज्ञो अधिनिर्मितः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ८ ॥ जिसके द्वारा व्रीहि और जौ (अर्थात् प्राणापान) पवित्र हुए हैं, जिससे यज्ञका निर्माण हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ८ ॥ येन पूता अश्वा गावो अथो पूता अजावयः । तेना सहस्त्रधारेण पवमानः पुनातु माम् ॥ ९ ॥ जिससे अश्व, गौ, अजा, अवि [और पुरुषसंज्ञक] प्राण पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ९ ॥ येन पूता ऋचः सामानि यजुर्जाह्मणं सह येन पूतम् । तेना सहस्रधारेण पवमानः पुनातु माम्॥ १० ॥ जिसके द्वारा ऋचाएँ, साम, यजु और ब्राह्मण पवित्र हुए हैं, उस सहस्रधारके द्वारा पवमान मुझे पवित्र करे ॥ १० ॥ येन पूता अथर्वाङ्गिरसो देवताः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ ११ ॥ जिससे अथर्वाङ्गिरस और देवता पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ ११ ॥ येन पूता ऋतवो येनार्तवा येभ्यः संवत्सरो अधिनिर्मितः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १२ ॥ जिससे ऋतु तथा ऋतुओं में उत्पन्न होनेवाले रस पवित्र हुए हैं, एवं जिससे संवत्सरका निर्माण हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १२ ॥ येन पूता वनस्पतयो वानस्पत्या ओषधयो वीरुधः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १३ ॥ जिससे वनस्पतियाँ, पुष्पसे फल देनेवाले वृक्ष, ओषधियाँ और लताएँ पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १३ ॥ येन पूता गन्धर्वाप्सरसः सर्पपुण्यजनाः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १४ ॥ जिससे गन्धर्व और अप्सराएँ, सर्प और यक्ष पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १४ ॥ येन पूताः पर्वता हिमवन्तो वैश्वानराः परिभुवः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १५ ॥ जिससे हिममण्डित पर्वत, वैश्वानर अग्नियाँ और परिधि पवित्र हुई हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १५ ॥ येन पूता नद्यः सिन्धवः समुद्राः सह येन पूताः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १६ ॥ जिससे नदियाँ, सिंधु आदि महानद और सागर पवित्र हुए हैं, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १६ ॥ येन पूता विश्वेदेवाः परमेष्ठी प्रजापतिः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १७ ॥ जिससे विश्वेदेव और परमेष्ठी प्रजापति पवित्र हुए हैं, उसे सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १७ ॥ येन पूतः प्रजापतिर्लोकं विश्वं भूतं स्वराजभार । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १८ ॥ जिससे पवित्र होकर प्रजापतिने समस्त लोकको, भूतोंको और स्वर्गको धारण किया है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ १८ ॥ येन पूतः स्तनयित्नुरपामुत्सः प्रजापतिः । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ १९ ॥ जिससे विद्युत् और जलोंके आश्रय प्रजापालक मेघ पवित्र हुए हैं, उस सहस्रधार सौमसे पवमान मुझे पवित्र करे ॥ १९ ॥ येन पूतमृतं सत्यं तपो दीक्षां पूतयते । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २० ॥ जिससे ऋत और सत्य पवित्र हुए हैं, जो तप और दीक्षाको पवित्र करता है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ २० ॥ येन पूतमिदं सर्वं यद्भूतं यच्च भाव्यम् । तेना सहस्रधारेण पवमानः पुनातु माम् ॥ २१ ॥ जिससे जो कुछ भूत और भविष्य है, सभी पवित्र हुआ है, उस सहस्रधार सोमसे पवमान मुझे पवित्र करे ॥ २१ ॥ ( अथर्ववेद पैप्पलाद) पवमान सोमसूक्त ऋग्वेद – मंडल ९ सूक्त १ (पवमान सोमसूक्त) ऋषि – मधुच्छंदस् वैश्वामित्र : देवता – पवमान सोम : छंद – गायत्री स्वादिष्ठया मदिष्ठया पवस्व सोम धारया इन्द्राय पातवे सुतः ॥ १ ॥ रक्षः हा विश्व चर्षणिः अभि योनिं अयः हतं द्रुणा सध स्थं आ असदत् ॥ २ ॥ वरिवः धातमः भव मंहिष्ठः वृत्रहन् तमः पर्षि राधः मघोनाम् ॥ ३ ॥ अभि अर्ष महानां देवानां वीतिं अन्धसा अभि वाजं उत श्रवः ॥ ४ ॥ त्वां अच्च चरामसि तत् इत् अर्थं दिवे दिवे इन्दो इति त्वे इति नः आशसः ॥ ५ ॥ पुनाति ते परि स्रुतं सोमं सूर्यस्य दुहिता वारेण शश्वता तना ॥ ६ ॥ तं ईं अण्वीः स मर्ये आ गृभ्णन्ति योषणः दश स्वसारः पार्ये दिवि ॥ ७ ॥ तं ईं हिन्वन्ति अग्रुवः धमन्ति बाकुरं दृतिं त्रि धातु वारणं मधु ॥ ८ ॥ अभि इमं अघ्न्याः उत श्रीणन्ति धेनवः शिशुं सोमं इन्द्राय पातवे ॥ ९ ॥ अस्य इत् इन्द्रः मदेषु आ विश्वा वृत्राणि जिघ्नते शूरः मघा च मंहते ॥ १० ॥ ऋग्वेद – मंडल ९ सूक्त २ (पवमान सोमसूक्त) ऋषि – मेध्यातिथि काण्व : देवता – पवमान सोम : छंद – गायत्री पवस्व देव वीः अति पवित्रं सोम रंह्या इन्द्रं इन्दो इति वृषा आ विश ॥ १ ॥ आ वच्यस्व महि प्सरः वृषा इन्दो इति द्युम्नवत् तमः आ योनिं धर्णसिः सदः ॥ २ ॥ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः अपः वसिष्ट सु क्रतुः ॥ ३ ॥ महान्तं त्वा महीः अनु आपः अर्षन्ति सिन्धवः यत् गोभिः वासयिष्यसे ॥ ४ ॥ समुद्रः अप् सु ममृजे विष्टम्भः धरुणः दिवः सोमः पवित्रे अस्म युः ॥ ५ ॥ अचिक्रदत् वृषा हरिः महान् मित्रः न दर्शतः सं सूर्येण रोचते ॥ ६ ॥ गिरः ते इन्दो इति ओजसा मर्मृज्यन्ते अपस्युवः याभिः मदाय शुम्भसे ॥ ७ ॥ तं त्वा मदाय घृष्वये ओं इति लोक कृत्नुं ईमहे तव प्र शस्तयः महीः ॥ ८ ॥ अस्मभ्यं इन्दो इति इन्द्र युः मध्वः पवस्व धारया पर्जन्यः वृष्टिमान् इव ॥ ९ ॥ गो साः इन्दो इति नृ साः असि अश्व साः वाज साः उत आत्मा यजस्य पूर्व्यः ॥ १० ॥ ऋग्वेद – मंडल ९ सूक्त ३ (पवमान सोमसूक्त) ऋषि – शुनःशेप आजीगर्ति : देवता – पवमान सोम : छंद – गायत्री एषः देवः अमर्त्यः पर्णवीः इव दीयति अभि द्रोणानि आसदम् ॥ १ ॥ एषः देवः विपा कृतः अति ह्वरांसि धावति पवमानः अदाभ्यः ॥ २ ॥ एषः देवः विपन्यु भिः पवमानः ऋतयु भिः हरिः वाजाय मृज्यते ॥ ३ ॥ एषः विश्वानि वार्या शूरः यन् इव सत्व भिः पवमानः सिसासति ॥ ४ ॥ एषः देवः रथर्यति पवमानः दशस्यति आविः कृणोति वग्वनुम् ॥ ५ ॥ एषः विप्रैः अभि स्तुतः अपः देवः वि गाहते दधत् रत्नानि दाशुषे ॥ ६ ॥ एषः दिवं वि धावति तिरः रजांसि धारया पवमानः कनिक्रदत् ॥ ७ ॥ एषः दिवं वि आ असरत् तिरः रजांसि अस्पृतः पवमानः सु अध्वरः ॥ ८ ॥ एषः प्रत्नेन जन्मना देवः देवेभ्यः सुतः हरिः पवित्रे अषर्ति ॥ ९ ॥ एषः ओं इति स्यः पुरु व्रतः जजानः जनयन् इषः धारया पवते सुतः ॥ १० ॥ ऋग्वेद – मंडल ९ सूक्त ४ (पवमान सोमसूक्त) ऋषि – हिरण्यस्तूप अंगिरस : देवता – पवमान सोम : छंद – गायत्री सना च सोम जेषि च पवमान महि श्रवः अथ नः वस्यसः कृधि ॥ १ ॥ सना ज्योतिः सना स्वः विश्वा च सोम सौभगा अथ नः वस्यसः कृधि ॥ २ ॥ सना दक्षं उत क्रतुं अप सोम मृधः जहि अथ नः वस्यसः कृधि ॥ ३ ॥ पवीतारः पुनीतन सोमं इन्द्राय पातवे अथ नः वस्यसः कृधि ॥ ४ ॥ त्वं सूर्ये नः आ भज तव क्रत्वा तव ऊति भिः अथ नः वस्यसः कृधि ॥ ५ ॥ तव क्रत्वा तव ऊति भिः ज्योक् पश्येम सूर्यं अथ नः वस्यसः कृधि ॥ ६ ॥ अभि अर्ष सु आयुध सोम द्वि बर्हसं रयिं अथ नः वस्यसः कृधि ॥ ७ ॥ अभि अर्ष अनपच्युतः रयिं समत् सु ससहिः अथ नः वस्यसः कृधि ॥ ८ ॥ त्वां यजैः अवीवृधन् पवमान वि धर्मणि अथ नः वस्यसः कृधि ॥ ९ ॥ रयिं नः चित्रं अश्विनं इन्दो इति विश्व आयुं आ भर अथ नः वस्यसः कृधि ॥ १० ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe