॥ पाण्डवाः कृत कात्यायनी स्तुति ॥

॥ पाण्डवा ऊचुः ॥
कात्यायनि त्रिदशवन्दितपादपो,
विश्वोद्भवस्थितिलयैकनिदानरूपे ।
देवि प्रचण्डदलिनि त्रिपुरारिपनि,
दुर्गे प्रसीद जगतां परमार्तिहन्त्रि ॥
त्वं दुष्टदैत्यविनिपातकरी सदैव,
दुष्टप्रमोहनकरी किल दुःखहन्त्री ।
त्वां यो भजेदिह जगन्मयि तं कदापि,
नो बाधते भवसु दुःखमचिन्त्यरूपे ॥


त्वामेव विश्वजननीं प्रणिपत्य विश्वं,
ब्रह्मा सृजत्यवति विष्णुरहोत्ति शम्भुः ।
काले च तान्सृजसि पासि विहंसि मात
स्त्वल्लीलयैव नहि तेऽस्ति जनैर्विनाश: ॥
त्वं यैः स्मृता समरमूर्धनि दुःखहन्त्रि
तेषां तनूनहि विशन्ति विपक्षबाणाः ।
तेषां शरास्तु परगावनिमग्नपुङ्खाः
प्राणान्ग्रसन्ति दनुजेन्द्रनिपातकत्रि ॥
यस्त्वन्मनुं जपति घोररणे सुदुर्गे,
पश्यन्ति कालसदृशं किल तं विपक्षाः ।
त्वं यस्य वै जयकरी खलु तस्य वक्त्राद्
ब्रह्माक्षरात्मकमनुस्तव निःसरेच्च ॥
त्वामाश्रयन्ति परमेश्वरि ये भयेषु तेषां
भयं नहि भवेदिह वा परत्र ।
तेभ्यो भयादिह सुदूरत एव दुष्टास्त्रस्ताः
पलायनपराश्च दिशो द्रवन्ति ॥
पूर्वे सुरासुररणे सुरनायकस्त्वां,
सम्प्रार्थयन्नसुरवृन्दमुपाजघान ।
रामोऽपि राक्षसकुलं निजघान
तद्वत्त्वत्सेवनादृत इहास्ति जयो न चैव ॥
तत्त्वां भजामि जयदां जगदेकवन्द्यां
विश्वाश्रयां हरिविरञ्चिसुसेव्यपादाम् ।
त्वं नो विधेहि विजयं त्वदनुग्रहेण
शत्रून्निपात्य समरे विजयं लभामः ॥

 

 

Content Protection by DMCA.com

Leave a Reply

Your email address will not be published.

This site uses Akismet to reduce spam. Learn how your comment data is processed.