January 8, 2019 | aspundir | 1 Comment ॥ प्रत्यंगिरा स्तोत्रम् ॥ ॥ ॐ नमः श्री कालसंकर्षिण्यै ॥ ॥ भगवान शिव उवाच ॥ एँ ख्फ्रें नमोऽस्तु ते महामाये देहातीते निरञ्जने । प्रत्यंगिरा जगद्धात्रि राजलक्ष्मी नमोऽस्तु ते ॥ वर्ण देहा महागौरी साधकेच्छा प्रवर्तते । पददेहामहास्फार परासिद्धि समुत्थिता ॥ तत्त्वदेहास्थिता देवि साधकान् ग्रहा स्मृता । महाकुण्डलिनी प्रोक्ता सहस्रदलस्य च भेदिनी ॥ इडापिंगल मध्यस्था वायु भूता खगामिनी । मृणाल तनतुरुपिण्या सुषुम्ना मध्य-चारिणी ॥ नादा के नादसंस्थाना नादातीता निरञ्जनी । स्थूल वृहति सम्पूज्ये अचिन्त्याचिन्त्यविग्रहे ॥ परापर परे शान्ते ब्रह्मलीने परे शिवे । अचिन्त्य रुपचरिते अचिन्त्यर्थफलप्रदे ॥ एकाकिनी विश्वमाता करवीर निवासिनी । महास्फारप्रदा नित्या महामेलापकारिणी ॥ विन्दुमध्यलया देवी कुटिलर्द्धति चन्द्रिके । द्वादशान्तालया देवी षोडशाधारवासिनी ॥ कार्यकारणसम्भिन्ने चैतन्या नाडि मध्यगा । शक्तिमूले महाचक्रे नवधा संव्यवस्थिता ॥ अशरीरा परा देवी शरीरे प्राणरूपिणी । सुधाद्रवसमाकारा ॐकार परविग्रहा ॥ विद्युल्लता निभा देवी भावाभावविवर्जिता । खान्तपद्मस्थिता नित्या परेशी शान्तविग्रहा ॥ सत्त्वरुपा रजोरुपा तमोरुपात्रयात्मिका । त्वमेव देवी सर्वेषां भूतानां प्राणदायिनी ॥ त्वमेव सृज्यते विश्वं लीलया बहुधा स्थिता । मालिनी परमादेवी श्मशान पदवन्धनी ॥ हन्नाभिभेदिनी सर्वचक्र विचक्र सुन्दरी । विन्दुद्वारनिरोधेन दिव्यव्याप्ता नमोऽस्तु ते ॥ सूर्यकोटिप्रतीकाशे चन्द्रकोट्यातिनिर्मले । कन्दर्पकोटिरावश्ये कोकटिब्रह्माण्डविग्रहे ॥ निराकारे निराभासे निर्लपे निरवग्रहे । सकलाख्य महामाये वरदे सुर पूजिते ॥ फकार फकार वह्निस्थ एकारान्तरे सुन्दरि । मकारानतर्वर्गेषु पञ्चपिण्डात्मके शिवे ॥ सर्पवत्कुण्डलाकार नादशक्ति परतमे । विन्दुमध्ये स्थिता देवी जालन्धरा व्यवस्थिता ॥ तूर्यवैतुर्यपीठे तु पूर्णपीठ व्यवस्थिते । कामस्थे च कलातीते कामाख्या च भगोद्भवे ॥ ब्रह्मग्रन्थिकलाटोप मध्यश्रोत्रप्रवाहिनी । शिवसर्वगते सूक्ष्मे नित्यानन्द महोत्सवे ॥ मन्त्रनायिकि मन्त्रज्ञे चिच्य कोणान्तवासिनी । पञ्चपीठलयानित्या मेरुनायकि सुर्वरी ॥ खेचरी भूचरी चैव शक्तित्रय प्रवाहिनी । कालाग्निसमुद्भूत कालकालान्तकालिनी ॥ कालिकाक्रमसंबन्धि कालिद्वादशमण्डला । त्रैलोक्यदहनी देवी साच मूर्तित्रयोदशी ॥ सृष्टिस्थिति-संहार अनाख्याख्य महाक्रमे । भासा श्री गुह्यकाली च निर्वाणेशी-निशेश्वरी ॥ इंकारिणी भैरवी च स्वर्णकोटेवरी शिवा । राजराजेश्वरी चण्डा अघोरेशी निशेश्वरी ॥ सुन्दरी त्रिपुरा उग्रतारा पूर्णेश्वरी जया । क्रममण्डलमध्यस्था क्रमेशी कुङ्डीकाम्बिका ॥ ज्येष्ठबालप्रभेदेन कुजाख्या उग्रचण्डिका । ब्राह्मी रौद्री व कौमारी वैष्णवी दीर्घनासिका ॥ वज्रिणी चर्चिका लक्ष्मी पूजयेद्विव्यमातरा । असिताङ्गोरुरुचण्ड क्रोधीशोन्मत्त संज्ञकम् ॥ कपाली भीषणाख्या च संहारश्चाष्टमस्तथा । भक्तानां साधकानां च सिद्धिलक्ष्मी प्रदायिनी ॥ प्रत्यंगिरा सिद्धिलक्ष्मीर्भैरवेन प्रकाशिता । भक्तानां साधकानां लक्ष्मीसिद्धि प्रयाच्छति ॥ साधको द्वेष्टकानां च सर्वकर्माणि भञ्जनी । विपरीतकरी देवी प्रत्यंगिरा नमोऽस्तु ते ॥ कालादिग्रसते सर्वं ग्रहभूतादिडाकिनीम् । साधकं रक्षते देवी कालसंकर्षणीन्नमः ॥ शिवं प्रयच्छते देवी रक्षते लीलया जगत् । प्रत्यंगिरा नमस्यामि चिन्तितानि सिद्धिदाम् ॥ राजयलाभप्रदां देवीं राज्येशीं भक्तवत्सलाम् । प्रत्यंगिरां नमस्यामि अचिन्तितानि सिद्धय ॥ सर्वशत्रुप्रमर्दनीं दुरिता क्लेशनाशिनीम् । प्रत्यंगिरा नमस्यामि सिद्धिलक्ष्मीं जयप्रदाम् ॥ आपदार्णवतारन्तीं परं निर्वाणदायिनीम् । प्रत्यंगिरां नमस्यामि चण्डकापालिनीं शिवाम् ॥ राज्यदां धनदां लक्ष्मीं ग्रहदोषविनाशिनीम् । प्रत्यंगिरां महालक्ष्मीं चण्डकालीं नमाम्यहम् ॥ दुष्टशप्रमर्दनीं दुष्टग्रहविनाशिनीम् । प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीजयप्रदाम् ॥ कलिदुःस्वप्नशमनीं महोत्पातविनाशिनीम् । प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीजयप्रदाम् ॥ अचिन्तितार्थदां धात्रीं चिन्तितार्थंफलप्रदा । प्रत्यंगिरां नमस्यामि अचिन्तितार्थसिद्धये ॥ राज्योपसर्गसमनीं महापद्रविनाशिनीम् । प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीजयप्रदाम् ॥ राजमातां राजलक्ष्मीं राजेष्टफलदायिनीम् । प्रत्यंगिरां नमस्यामि सिद्धिलक्ष्मीजयप्रदाम् ॥ सिद्धि महाविद्या महासिद्धि प्रदायिका । पठेद्धा पाठयेद्वापि स्तोत्रं प्रत्यंगिराभिदम् ॥ पठनाच्छग्रसैन्यानां स्तम्भयेत् भञ्जयेत् क्षणात् । अचिन्तितानि सर्वाणि पठनात् सिद्धिमाप्नुयात् ॥ महादोषप्रशमनं महाव्याधिविनाशनम् । सिंहव्याघ्रग्रहभयं सर्वशत्रु विनाशनम् ॥ ग्रहपीडा जलाग्नीनां नाशनं देवि शान्तिदम् । पूजाकाल महास्तोत्र ये पठियन्ति साधकाः ॥ तेषां सिदिं न दूरस्ति देव्याः संतुष्टिदायकम् । यन्नास्ति तन्न सिद्धि स्यात् कौलिके कुलसाधके ॥ यं यं चिन्तयते कामं तं तं सिद्धयति नान्यथा । सत्यं सत्यं महादेवि कौलिके तत् समान हि ॥ अर्द्धरात्रे समुत्थाय दीपप्रज्वालिते निशि । पठ्यते स्तोत्रमेततत्तु सर्वचिन्तित सिद्धिदम् ॥ पुरश्चर्या विनेनैव स्तोत्रमात्रेण सिद्धयते । मण्डले प्रतिमाग्रे वा मण्डलागे पठेद्यदि ॥ इदं स्तवं प्रोक्तं अचिन्तितार्थसिद्धिदम् । नान्य देवरतानान्तु न देयन्तु कदाचन ॥ दातव्यं भक्तियुक्ताय कुलदीक्षा रताय च । अन्यथा पुतनां यान्ति इत्याज्ञा परमेश्वरि ॥ See Also :- श्री प्रत्यंगिरा स्तोत्र श्री बगला प्रत्यंगिरा कवचम् विपरीत-प्रत्यंगिरा महा-विद्या स्तोत्र श्री महा-विपरीत-प्रत्यंगिरा स्तोत्र बगलामुखी तन्त्रम् कालीदास कृत प्रत्यङ्गिरा मालामन्त्र Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply