October 6, 2015 | aspundir | Leave a comment बगला पञ्जर न्यास स्तोत्र (दिग्-रक्षण प्रयोग) बगला पूर्वतो रक्षेद् आग्नेय्यां च गदाधरी । पीताम्बरा दक्षिणे च स्तम्भिनी चैव नैऋते ।। १ ।। जिह्वाकीलिन्यतो रक्षेत् पश्चिमे सर्वदा हि माम् । वायव्ये च मदोन्मत्ता कौवेर्यां च त्रिशूलिनी ।। २ ।। ब्रह्मास्त्रदेवता पातु ऐशान्यां सततं मम । संरक्षेन् मां तु सततं पाताले स्तब्धमातृका ।। ३ ।। ऊर्ध्वं रक्षेन् महादेवी जिह्वा-स्तम्भन-कारिणी । एवं दश दिशो रक्षेद् बगला सर्व-सिद्धिदा ।। ४ ।। एवं न्यास-विधिं कृत्वा यत् किञ्चिज्जपमाचरेत् । तस्याः संस्मरेणादेव शत्रूणां स्तम्भनं भवेत् ।। ५ ।। ।। श्री बगला-पञ्जर-न्यास-स्तोत्रम् ।। Related