May 27, 2019 | aspundir | Leave a comment ॥ अथ भुवनेश्वरीकृत राधास्तुतिः॥ राधा ने भुवनेश्वरी को स्मरण कर वृन्दावन को गोलोकमय बनाने को कहा तब भुवनेश्वरी ने राधा की महिमा वर्णन करते हुए प्रशंसापूर्वक कहा कि राधा आप त्रिभुवन की स्वयं लक्ष्मी हो । उसका यथा वर्णन — ॥ ब्राह्मणी उवाच ॥ ततः किमभवत् पश्चाद् देवगन्धर्व कथ्यताम् । पुनीहि मे श्रुतिपुटौ नानादोषकुलाकुलौ ॥ ॥ ब्राह्मण उवाच ॥ ततः पूर्वस्मृतिं प्राप्य वृन्दया प्रतिबोधिता । परमानन्दहृदया प्रसन्नवदनेक्षणा ॥ आत्मानं चिन्तयामास परब्रह्मस्वरूपिणी । ततस्तस्याः स्मृतिर्जाता यथा जाता स्वदेहतः ॥ योगमाया महादेवी प्रकृति भुवनेश्वरी । चिन्तयन्ती च तां देवीं समाह्वयदमन्दधीः ॥ ॥ श्री राधिकोवाच ॥ हे देव्यत्र समागच्छ मदङ्गप्रभवा ह्यसि । साहाय्यं कुरु देवेशि त्वर्यतां माऽविलम्ब्यताम् ॥ ॥ ब्राह्मण उवाच ॥ इत्थं सा चिन्तिता देवी महामाया महेश्वरी । त्वरिता कृपयाविष्टा राधिकादर्शनं गता । सम्भ्रमाक्रान्तहृदया तुष्टाव हृदयेश्वरी ॥ ॥ भुवनेश्वरी उवाच ॥ त्रिभुवन जयलक्ष्मीं त्वां नमस्ये वराङ्गे, विमलकमलनेत्रे देहि दृष्टिं शुभां मे ॥ यदखिलकृतसेवः श्रीयुतः कृष्णदेव-स्त्वयि, धृतरतिरास्ते किं पुनर्वर्णनीयम् ॥ उद्यद्भास्करकोटिकान्तिमरुणक्षौमाञ्चलत्कुण्डलां, नानालङ्करणोज्ज्वलामपि शरद्राकासुधात्विङ्मुखीम् ॥ दृष्ट्वा त्वां मदिरालसामलमसौ कृष्याः स्वयं मोहितो, मुग्धाऽहं कमलेक्षणे किमपरे ब्रह्मेशशक्रादयः ॥ देवि त्वचरणारविन्दयुगलं ध्यायन्ति ये के, जनास्तेषामम्बुज-पत्रलोचन भवेत्तापत्रयोन्मूलनम् । ईशेयं त्वमपीक्षसेऽमृतदशा स स्यात् सदाराधितः, सर्वेषांतदुदाहृतर्विजयते विष्णुर्महांस्त्वत्कला ॥ कान्त्या चम्पककम्पकारिवपुषः पुष्णन्ति तृप्ति परां, रूपेणापि निरूपिते प्रियतमप्रेष्ठेऽत्र रूपे तव । ये तेभ्यस्त्वमतीव चारुचरिते श्रीराजराजेश्वरी, सारूप्यं दिशसि प्रकाशितदिशे नित्यं भवत्यै ममः ॥ अन:सन्तमसप्रकाशनकरी सन्तापसंहारिणी यैस्ते श्रीनखचन्द्रिका चरणयोर्राधे समाराध्यते । तन्निस्यन्ददमन्दसान्द्रकसुधासारेण सारेण तैः संस्नातैः परितापिता अपि परे सन्तर्पिता: सन्ततम् ॥ राधे त्वन्महिमानमानमगमत् कस्ते समस्तेश्वरि, स्तव्यं नव्यमवातनोतु सुतनो तनुस्तनिष्टां तनुम् । यद् वैधाश्चतुराननोऽपि गिरिशः पञ्चाननो वह्निभूः षडवक्त्रःफणिराट् सहस्त्रवदनोऽजस्र परिश्राम्यति ॥ रूपं किं तव वर्णयाम जगतां शोभाप्रभावोद्भवे यस्याः, श्रीमुखचन्द्रिकासु नियतं कृष्णश्चकोरायते । यस्याः पादपयोरुहं सुर शिरोरत्नालिभिः सङ्गमं, सम्प्राप्याधिकमादृतं घनघनं सूते मधूनां श्रियम् ॥ न जाने महेशानि देवस्वरूपे जगन्मोह मोहस्फुरच्चारुरूपे । चरित्रं पवित्रं यतः सूरयोऽपिव्यमूह्यन्त सन्तो मयि त्वंप्रसीद तवैव प्रभावं हरिर्वा विरिञ्चिः शिवो नाशकन् वक्तुमिष्टस्वरूपे । परे के वराका वराङ्गि प्रसीद प्रसीदाद्य मातः परं तुष्टिमातः ॥ श्रीकृष्णस्य रसामृताब्धिलहरीनिर्माणलक्ष्मीर्विधे- र्वैदग्ध्यस्य विरामभूः रतिपतेरुच्चैः पताका रणे । भूषा श्रीर्जगतां गतिर्गतिमतां शश्वन्मता सत्तमै, गौरीकाञ्चनकाञ्चिकारुतकरी राधा समाराध्यते ॥ अपि त्वत्पदाम्भोजयुग्मं सुशीतं, स भेजेऽरुणस्नापितेऽस्मिन्नभेन । विधुः किं विधुद्वेषि दण्डक्षताङ्गो, द्विपञ्चाकृतिः शम्भुदृग्दाहभीत्या ॥ तवास्यश्रियं लिप्सु पाथोजमप्सु, प्रकामं तपत्यर्यमा सेवनेन । सुधांशुः समुदे निमज्योऽभिन्नमज्य कृशोऽद्यापि पक्षव्रते शून्यवासी ॥ त्वमम्बासि सञ्चारिणी शम्बरारेः, स्वरूपेण लावण्यवश्याभिषिक्ता । प्रसीदस्यये चेत् किमस्त्यप्यलभ्यं त्रिलोकीषु लोकस्य शोकापनोदे ॥ ॥ इति कृष्णयामल तन्त्रे षड्विंशोऽध्याये भुवनेश्वरी कृत राधास्तुति ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe