॥ अथ मंजुघोष प्रयोगः ॥

मंजुघोष का प्रयोग शिव प्रयोगों में विद्या प्राप्ति हेतु विशेष माना जाता है । इस . विषय में शिव कहते है –
श्रुणु देवि ! महामंत्रं साधकानां सुखावहम् ।
यज्ज्ञात्वा जड़धीः प्रायो वाचस्पति समो भवेत् ॥
जपेत् सिद्धिप्रदं सद्यो वैष्णवं सात्विकात्मकम् ।
शैवसिद्धिप्रदं सद्यस्तामसं समुदाहृतम् ॥

अर्थात् इसकी सात्विक उपासना पद्धति भी है और मुण्डसाधन आदि विधान भी है ।

एकाक्षर मन्त्र – ह्रीं

त्र्यक्षर – (१) क्रों ह्रीं श्रीं (२) ह्रीं श्रीं क्लीं

षडक्षर- (मंत्रकोष)
मंत्रोद्धार – मातृकादि समुद्धृत्य (अ) वह्नि बीज समुद्धरेत (रं )वामांशं कूर्च संज्ञं च ततोऽनेन समुद्धरेत मीनेशं च ततः कर्याद वामनेत्र संयुक्तं ।
मंत्र – ‘अ र व च ल धीं’
अन्यत्र- (भैरव सर्वस्वे ) विष्ण्वग्नि पाशी शशियुक्च धीश्च षडवर्णमन्त्रो जगतां प्रदिष्टः ।
(टीका) विष्णुः- अकार। अग्नि-रकार। पाशीवकारः
शशी-सकार: तेन-युक्तश्चकार:-धीश्च-धी: इतिस्वरूपम्। (परन्तु शशी का संबोधन लकार हो तो मंत्र सही बैठता है।)

अथ मंत्र:- ‘अ र व च ल धी:’

विनियोग :- ॐ अस्य मंत्रस्य वृहदारण्यक ऋषिः, विराट छंदः, श्रीमंजुघोष देवता वाक्सिद्धि हेतवे, सर्वाभिष्ट सिद्धिये जपे विनियोगः ।

अङ्गन्यास – एक एक अक्षर से अङ्गन्यास करें ।

षडक्षर मंत्रस्य ध्यानम्
संपूर्णमण्डल तुषारमरीचिमध्य बालं
विलंबिचिकुरं वर-खङ्गहस्तम् ।
उद्यामकङ्कणवहं परपुष्पकाढ्य नग्नं
यजेत् क्षतजपदादलायताक्षम् ॥

सप्ताक्षर –
मंत्रोद्धार –
रविविन्दु समायुक्तो जान्तो वान्तोऽग्नि शांतियुक् ।
क्षकारः पृथिवी चाग्निर्विन्दुः शांतिश्च उद्धतः ॥
भैरव सर्वस्व में टीका में रवि का अर्थ मकार माना है । वैसे मकार ईश्वर हेतु होता है । मंत्रकोष के अन्य टीकाकार ने भी शंका की है परन्तु यह नहीं लिखा कि रवि का अर्थ क्या होना चाहिये ।
जान्तो -ज का अंतिम ‘झ’ । वान्तो-वकार अंतिम ‘ल’ । यद्यपि यह व का पूर्वाक्षर है । शान्तिरीकारः । पृथिवी- लकारः ।।

अथ सप्ताक्षर मंत्र – मं झ ल री क्ष ल रीं ।

विनियोग :- अस्य मंत्रस्य कण्व ऋषिः, विराट छंदः वटुक देवता, सर्वाभीष्ट सिद्धये जपे विनियोगः ।

अङ्गन्यास :- प्रथम दो अक्षरों से प्रथम न्यास करे फिर एक एक अक्षर से एक एक न्यास करे । परन्तु (टीका में लिखा है – षड्दीर्घभाजा युक्ते न कुर्यादङ्गानि साधकः)

सप्ताक्षर मंत्रस्य ध्यानम्
शिशुतर वरक्लांतिक्लांत-नीलाम्बुदाभं
विकचसरसिजाभ्यां पुस्तकं कर्पकं च ।
स्मित- सुविशदवक्त्रं पञ्चचूडं त्रिनेत्रं
कुमतिदहन दक्षं मञ्जुघोषं नमामि ॥

यंत्रपूजनम्
(१) त्रिकोण के मध्य बिन्दु मंजुघोष का ध्यानपूर्वक आवाहन करे ।
(२) षट्कोण में – हृदयाय नमः, शिरसे स्वाहा, शिखायै वषट्, कवचाय हुँ, नेत्रत्रयाय वौषट, अस्त्राय फट् से छ: अंगो का पूजन करें । देव के वामांग में उसकी शक्ति की पूजा करे । (आदावङ्गानि संपूज्य पश्चाच्छक्तीरिमा यजेत्)
(३) अष्टदलेषु – (पूर्वादिक्रमेण) – योगायै नमः, सत्यायै नमः, विमलायै नमः ज्ञानायै नमः, बुद्ध्यै नमः, स्मृत्यै नमः, मेधायै नमः, प्रज्ञायै नमः, (पत्रेषु सर्वान् मुद्रापुस्तक धारिणी:)
(४) भूपरे – भूपूर में इन्द्रादि लोकपालों का तथा उनके बाहर उनके अस्त्रों का पूजन करें ।

इस यंत्र के अर्चन के जल को पीने से, अथवा यंत्र का थाली में गंधादि से लिखकर उसका प्रक्षालन पीवे तो वाक्सिद्धि होवे ।
एक हजार बार जप कर जल अभिमंत्रित कर नित्य पीवे तो महाकविर्भवेन्मंत्री मासेन तु न संशयः ।

प्रतिपालन विषय मे कहा है –
आचरेत् कुत्सिताचार भक्षयेद् वामबाहुना ।
प्रदीपोच्छिष्टतैलेन विलियेद्गात्रमन्वहम् ॥
परिधानं सदा कुर्यात् केवलं रात्रिवाससा ॥
निशि निशि बलिभस्मै युक्तमन्तं प्रदद्याद्धृदय
मनुगलान्ते मंत्र जापं वितन्वन् ।
भवति नृपतिपूज्यो योषितां प्रीतिपात्रं,
भवतिखुल कवीनामग्रणीः’ पण्डितश्च ॥
सर्ववेदागमादीनां व्याख्याता जायतेऽचिरात् ।
काव्यार्थी कुरुते काव्यं धनार्थी प्राप्नुयद्धनम् ॥

॥ मुण्डसाधनम् ॥
गोमुण्डे गिरिपृष्ठे च यत्नेनापि च गोमये ।
यन्त्रे मंत्रं लिखित्वादौ पश्चामंत्रं लिखेत् पुनः ॥
ध्यान मात्रं विधायादौ भावयित्वा चिरं सुधीः ।
निर्जनस्थान मासाद्य जपेन्मन्त्रमधोमुखः ॥
पौर्णमासी समारभ्य कुन्दस्य कुसुमैः शतैः ।
अष्टाधिकैश्च संपूज्य जपेन्मत्रं चतुः पथै ॥
त्रिमुण्डारोहणं कृत्वा निशीथे मुक्त कुन्तलः ।
षण्मासमात्रं जपति यदिमन्त्री विधानवित ॥
बृहस्पति समोवक्ता नात्र कार्या विचारिणा ।
कुक्कुरस्य च मुण्डैकं मुण्डं क्रोष्टर्वृषस्य च ॥
त्रिमुण्डमेतद् विख्यातं साधकानां सुखावहम् ।
आसनं चैव गोमुण्डे वामे कुक्कुरमुण्डकम् ।
दक्षिणे च शिवामुण्ड कृत्वा पूजा समाचरेत् ॥
अर्धचन्द्राकृतिः पश्चात् वामे चन्द्राकृति स्फुटम् ।
तत्रं मंत्रं लिखेत् पूजा कुन्दस्य कुसुमेन च ॥
सव्येनपाणिकमलेन जपादि पूजा शृङ्गारशीलनविधिः खलु दक्षिणेन ।
राकासुधाकर मरीचितुषारहार गौरं चतुष्पथतटेवृषमस्तकस्थम् ॥
सचिन्त्य कुक्कुर शिवाशिर साधिरूढः कुन्देन साधकतमो जयति प्रकामम् ।
गोचर्मरक्तरचितं रसकोणमात्रं चक्रं तपोऽपि नवकुंकुमरोचनाभिः ॥
निर्माय सव्यविधिनाः विजने श्मशाने संपूजयेद् वनभवैश्व नवैः पलाशैः ।

इसके बाद ध्यान मंत्र से आवाहन कर पूजन करें ।

अरिष्ट गेहे निशि तैलमेवमादाय यत्ना कर पल्लवेन् ।
तेनांजितं कांचन पुष्यमेव निवेद्य तस्मै रजति प्रकामम् ॥
अशोकशाखोटतरोश्च मूले विलिप्य पादौ वदनामृतेन ।
त्रिमुण्डमात्रस्थित एवं रात्रौ जपेयथाशक्ति च पौर्णमास्याम् ॥
लकुचविटपिमूले मुंडमात्रैकरूढो हिमकर करगौरं चिंतयित्वा निशीथे ।
यदि जपति जड़ात्मा लक्षमेनं त्रिपक्षं भवति जगति साक्षात्गीर्पतिर्न्नात्र चित्रम् ॥
भुक्तवान्नमेव कदलीतरुपुष्प जालैः मुण्डत्रये विरचितासन सन्निविष्ट: ।
राकाविधूदयमुपेत्य करोजितपूजां यः सोपि सूर्य इव वाक्पतिरीश्वरः स्यात् ॥
जिह्वां विसृज्य निजपाणि सरोरुहाभ्यां वाणाप्रसूनशतकैः परिपूज्य गोष्ठी ।
यौ वै जपेदनुदिनं रसलक्षमात्र मीशं जयेत् किमुत वाक्पतिमेकवक्त्रम् ॥
वाणा पोतागेंठी, स्थित्वा निशीथ समयेरजकस्यकाष्ठे खङ्गान्वितो यजति कत्यपि पौर्णमास्याम् ।
संपूर्णमासमथवा तरसापि तस्य वक्त्राद् विनिस्सरति गीरमृतायमाना ॥
या दन्तधावन कृतैश्च करञ्जकाष्ठैस्तस्यापि गी: पतिवचो नियतंसुलभ्यम् ।
तिलतैलेन मतिमान् कुन्दकैरवपुष्यकैः यत्नतो जुहुयान्मंत्री सर्वसिद्धिमुपा लभेत् ।
मंजिष्ठतोयसुर सासितभानुपुष्पैः स्वीयाङ्ग शोणितयुतः समकुष्ठकैश्च ।
कृत्वा ललाटफलके तिलकं जपस्थो विद्याववोधविषयेन च गीः पतिः स्यात् ॥
(टीका- तीय राव इति ख्यातम् । सितभानुः = श्वेतार्कः । कुष्ठं-कूठं )
॥ इति भैरव सर्वस्वे मंजुघोष प्रयोगः ॥
 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.