॥ महामृत्युञ्जयकवचम् ॥

विनियोगः:- ॐ अस्य श्रीमहामृत्युञ्जय कवचस्य श्रीभैरवऋषिः गायत्री छन्दः श्रीमृत्युञ्जय रुद्रो देवता ॐ बीजं जूं शक्तिः सः कीलकं हौमिति तत्त्वं श्री चतुर्वर्गफल साधनाय पाठे विनियोगः ।

ऋष्यादिन्यास: – श्रीभैरव ऋषये नमः (शिरसि ), गायत्रीछन्दसे नमः (मुखे ), श्रीमृत्युञ्जयरुद्र देवतायै नमः ( हृदये), ॐ बीजाय नमः ( गुह्ये ), जूं शक्तये नमः ( पादयोः ), सः कीलकाय नमः (नाभौ ), हौं तत्त्वाय नमः (हदि ), विनियोगाय नमः ( सर्वाङ्गे )।


कर षडङ्गादिन्यासः – ‘ॐ हौं जूं सः’ इस मंत्र से कर एवं हृदयादि षड़ङ्गन्यास करे ।

ध्यानम्
चन्द्रमण्डल मध्यस्थे रुद्रमाले विचित्रिते ।
तत्रस्थं चिन्तयेत् साध्यं मृत्यु प्राप्तोऽपि जीवति ॥ १ ॥

॥ स्तोत्रम् ॥
ॐ जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम ।
श्रीशिवो वै ललाटं च ॐ हौं भुवौ सदाशिवः ॥ २ ॥
नीलकण्ठोऽवतान्नेत्रे कपर्द्दी मेवताच्छ्रुती ।
त्रिलोवनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ ३ ॥
मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः ।
हनुं मे हाटकेशानो मुखं बटुकभैरवः ॥ ४ ॥
कन्धरां कालमथनो गलं गणप्रियोऽवतु ।
स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ ५ ॥
नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् ।
स्तनौ तारापतिः पातुः वक्षः पशुपतिर्मम ॥ ६ ॥
कुक्षि कुबेरवरदः पार्श्वौ में मारशासनः ।
शर्वः पातु तथा नाभिं शूली पृष्ठं ‘ममावतु ॥ ७ ॥
शिश्न मे शङ्करः पातु गुह्यं गुह्यकवल्लभः ।
कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ ८ ॥
जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः ।
गुल्फौ पायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु ॥ ९ ॥
पादादिमूर्धपर्यन्तं सद्योजातो ममावतु ।
रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः ॥ १० ॥
पूर्वं बलविकरणो दक्षिणे कालशासनः ।
पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः ॥ ११ ॥
ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ।
नैर्ऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ॥ १२ ॥
ऊर्ध्वे बलप्रमथनः पाताले परमेश्वरः ।
दश दिक्षु सदा महामृत्युञ्जयश्च माम् ॥ १३ ॥
रणे राजकुले द्युते विषये प्राणसंशये ।
पायादों जूं महारुद्रो देवदेवो दशाक्षरः ॥ १४ ॥
प्रभाते पातु मां ब्रह्मा मध्याह्न भैरवोऽवतु ।
सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ॥ १५ ॥
अर्द्धरात्रे महादेवो निशान्ते मां महोदयः ।
सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः ॥ १६ ॥

॥ फलश्रुति ॥

इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ।
सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् ॥ १७ ॥
पुण्यं पुण्यप्रदं दिव्यं देवेदेवाधिदैवतम् ।
य इदं च पठेन्मन्त्रं कवचं वाचयेत्ततः ॥ १८ ॥
तस्य हस्ते महादेवि ! त्र्यम्बकस्याष्टसिद्धयः ।
रणे धृत्वा चरेद् युद्धं हत्वा शत्रून् जयं लभेत् ॥ १९ ॥
जयं कृत्वा गृहं देवि ! स प्राप्स्यति सुखं पुनः ।
महाभये महारोगे महामारी भये तथा ॥ २० ॥
दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ।

॥ इति महामृत्युञ्जय कवचम् ॥

See Also :- महा-मृत्युञ्जय कवच

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.