August 29, 2015 | Leave a comment श्रीमहा-मृत्युञ्जय-कवच ।।पूर्व-पीठिका-श्रीभैरव उवाच।। श्रृणुष्व परमेशानि ! कवचं मन्मुखोदितम् । महा-मृत्युञ्जयस्यास्य, न देवं परमाद्भुतम् ।।१ यं धृत्वा यं पठित्वा च, श्रुत्वा च कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा, सुखितोऽस्मि महेश्वरि ! ।।२ तदेव वर्णयिष्यामि, तव प्रीत्या वरानने । तथापि परमं तत्त्वं, न दातव्यं दुरात्मने ।।३ विनियोगः- ॐ अस्य श्रीमहा-मृत्युञ्जय-कवचस्य श्रीभैरव ऋषिः, गायत्र्यं छन्दः, श्रीमहा-मृत्युञ्जयो महा-रुद्रो देवता, ॐ बीजं, जुं शक्तिः, सः कीलकं, चतुर्वर्ग-साधने मृत्युञ्जय-कवच-पाठे विनियोगः । ऋष्यादि-न्यासः- श्रीभैरव ऋषये नमः शिरसि, गायत्र्यं छन्दसे नमः मुखे, श्रीमहा-मृत्युञ्जयो महा-रुद्रो देवतायै नमः हृदि, ॐ बीजाय नमः गुह्ये, जुं शक्तये नमः नाभौ, सः कीलकाय नमः पादयोः, चतुर्वर्ग-साधने मृत्युञ्जय-कवच-पाठे विनियोगाय नमः सर्वांगे । ध्यानः- चन्द्र-मण्डल-मध्यस्थं, रुद्र भाले विचिन्त्य तम् । तत्रस्थं चिन्तयेत् साध्यं, मृत्युं प्राप्तोऽपि जीवति ।। मानस-पूजन कर कवच-पाठ करे । यथा- ।।मूल कवच-पाठ।। ॐ जूंसः हौं शिरः पातु, देवो मृत्युञ्जयो मम । ॐ श्रीं शिवो ललाटं मे, ॐ हौं भ्रुवौ सदाशिवः ।।१ नीलकण्ठोऽवतान्नेत्रे, कपर्दी मेऽवताच्छ्रुती । त्रिलोचनोऽवताद् गण्डौ, नासां मे त्रिपुरान्तकः ।।२ मुखं पीयुष-घटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशानो, मुखं बटुक-भैरवः ।।३ कन्धरां काल-मथनो, गलं गण-प्रियोऽवतु । स्कन्धौ स्कन्द-पिता पातु, हस्तौ मे गिरिशोऽवतु ।।४ नखान् मे गिरिजानाथः, पायादंगुलि-संयुतान् । स्तनौ तारा-पतिः पातु, वक्षः पशुपतिर्मम ।।५ कुक्षिं कुबेर-वरदः, पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं, शूलौ पृष्ठं ममावतु ।।६ शिश्नं मे शंकरः पातु, गुह्यं गुह्यक-वल्लभः । कटिं कालान्तकः पायादूरु मेऽन्धक-घातकः ।।७ जागरुकोऽवताज्जानू, जंघे मे काल-भैरवः । गुल्फौ पायाज्जटाधारी, पादौ मृत्युञ्जयोऽवतु ।।८ पादादि-मूर्ध-पर्यन्तम-घोरः, पातु मे सदा । शिरसः पाद-पर्यन्तं, सद्योजातो ममाऽवतु ।।९ रक्षा-हीनं नाम-हीनं, वपुः पात्वमृतेश्वरः । पूर्वे बल-विकरणो, दक्षिणे काल-शासनः ।।१० पश्चिमे पार्वती-नाथो, ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्नि-लोचनः ।।११ नैर्ऋत्यां शम्भुरव्यान्मां, वायव्यां वायु-वाहनः । उर्ध्वे बल-प्रमथनः, पाताले परमेश्वरः ।।१२ दश-दिक्षु सदा पातु, महामृत्युञ्जयश्च माम् । रणे राज-कुले द्यूते, विषमे प्राण-संशये ।।१३ पायाद् ॐ जूं महा-रुद्रो, देव-देवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा, मध्याह्ने भैरवोऽवतु ।।१४ सायं बल-प्रमथनो, निशायां नित्य-चेतनः । अर्ध-रात्रे महादेवो, निशान्ते मां मनोन्मनः । सर्वदा सर्वतः पातु, ॐ जूंसः ह्रौं मृत्युञ्जयः ।।१५ ।।फल-श्रुति।। इतीदं कवचं पुण्यं, त्रिषु लोकेषु दुर्लभम् । सर्व-मन्त्र-मयं गुह्यं सर्व-तन्त्रेषु गोपितम् । पुण्यं पुण्य-प्रदं दिव्यं, देव-देवाधि-दैवतम् ।।१ य इदं च पठेन्मन्त्री, कवचं वार्चयेत ततः । तस्य हस्ते महादेवि ! त्र्यम्बकस्याष्ट सिद्धयः ।।२ रणे धृत्वा चरेद्युद्धं, हत्वा शत्रूञ्जयं लभेत् । जयं कृत्वा गृहं देवि ! सम्प्राप्स्यति सुखी पुनः ।।३ महा-भये महा-रोगे, महामारी-भये तथा । दुर्भिक्षे शत्रु-संहारे, पठेत् कवचमादरात् ।।४ सर्व तत् प्रशमं याति, मृत्युञ्जय-प्रसादतः । धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्व-सम्पदः ।।५ प्राप्नोति साधकः सद्यो, देवि ! सत्यं न संशयः । इतीदं कवचं पुण्यं, महामृत्युञ्जयस्य तु । गोप्यं सिद्धि-प्रदं गुह्यं, गोपनीयं स्व-योनि-वत् ।।६ ।।श्रीरुद्र-यामले तन्त्रे देवीरहस्ये मृत्युञ्जय-पञ्चांगे श्रीमृत्युञ्जय-कवचं।। Related