October 12, 2015 | Leave a comment ।। मूल सप्तशती ।। ।। ॐ श्रीदेव्युवाच ।। गर्ज गर्ज क्षणं मूढ ! मधु यावत् पिबाम्यहम् । मया त्वयि हतेऽत्रैव, गर्जिष्यन्त्याशु देवताः ।।१ व्रियतां त्रिदशाः सर्वे, यदस्मत्तोऽभिवाञ्छितम् ।।२ ।।ॐ ऋषिरुवाच ।। साऽब्रवीत तान् सुरान् सुभ्रूर्भद्भिः स्तूयते का ? शरीर-कोशतश्चास्याः, समुद्-भूताऽब्रवीच्छिवा ।।३ स्तोत्रं ममैतत् क्रियते, शुम्भ-दैत्य-निराकृतैः । देवैः समस्तैः समरे, निशुम्भेन पराजितैः ।।४ शरीर-कोशाद् यत् तस्याः, पार्वत्याः निःसृताऽम्बिका । कौशिकीति समस्तेषु, ततो लोकेषु गीयते ।।५ तस्यां विनिर्गतायां तु, कृष्णाऽभूत् साऽपि पार्वती । कालिकेति समाख्याता, हिमाचल-कृताश्रया ।।६ ।। ॐ श्रीदेव्युवाच ।। सत्य-मुक्तं त्वया नात्र, मिथ्या किञ्चिद् त्वयोदितम् । त्रैलोक्याधिपतिः शुम्भो, निशुम्भश्चापि तादृशः ।।७ किन्त्वत्र यत् प्रतिज्ञातं, मिथ्या तत् क्रियते कथम् । श्रूयतामल्प-बुद्धित्वात्, प्रतिज्ञा या कृता पुरा ।।८ यो मां जयति संग्रामे, यो मे दर्प व्यपोहति । यो मे प्रति-बलो लोके, स मे भर्त्ता भविष्यति ।।९ तदाऽऽगच्छतु शुम्भोऽत्र, निशुम्भो वा महाऽसुरः । मां जित्वा किं चिरेणात्र, पाणिं गृह्णातु मे लघु ।।१० एवमेतद् बली शुम्भो, निशुम्भश्चाति-वीर्य-वान् । किं करोमि प्रतिज्ञा मे, यदनालोचिता पुरा ।।११ स त्वं गच्छ मयोक्तं ते, यदेतत् सर्वमादृतः । तदाचक्ष्वाऽसुरेन्द्राय, स च युक्तं करोतु तत् ।।१२ दैत्येश्वरेण प्रहितो, बल-वान् बल-सम्वृतः । बलान्नयसि मामेवं, ततः किं ते करोम्यहम् ।।१३ ।। ॐ ऋषिरुवाच ।। उवाच कालीं कल्याणी, ललितं चण्डिका वचः ।।१४ यस्माच्चण्डं च मुण्डं च, गृहित्वा त्वमुपागता । चामुण्डेति ततो लोके, ख्याता देवि ! भविष्यसि ।।१५ सा चाह धूम्र-जटिलमीशानमपराजिता । दुतं ! त्वं गच्छ भगवन् ! पार्श्वं शुम्भ-निशुम्भयो ।।१६ ब्रूहि शुम्भं निशुम्भं च, दानवावति-गर्वितौ । ये चान्ये दानवास्तत्र, युद्धाय समुपस्थिताः ।।१७ त्रैलोक्यमिन्द्रो लभतां, देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं, यदि जीवितुमिच्छथ ।।१८ बलावलेपादथ चेद्, भवन्तो युद्ध-कांक्षिणः । तदागच्छत तृप्यन्तु, मच्छिवाः पिशितेन वः ।।१९ यतो नियुक्तो दौत्येन, तया देव्या शिवः स्वयम् । शिव-दूतीति लोकेऽस्मिन् ततः ससा ख्यातिमागता ।।२० तान् विषण्णान् सुरान् दृष्ट्वा, चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे !, विस्तीर्ण वदनं कुरु ।।२१ मच्छस्त्र-पात-सम्भूतान्, सक्त-विन्दून् महाऽसुरान् । रक्त-विन्दोः प्रतीच्छ त्वं, वक्त्रेणानेन वेगिना ।।२२ भक्षयन्ती चर रणे, तदुत्पन्नान् महाऽसुरान् । एवमेष क्षयं दैत्यः, क्षीण-रक्तो गमिष्यति ।।२३ भक्ष्यमाणास्त्वया चोग्रा, न चोत्पत्स्यन्ति चापरे ।।२४ ।। ॐ देव्युवाच ।। एकैवाहं जगत्यत्र, द्वितीया का ममापरा ? इश्यैता दुष्ट ! मय्येव, विशन्त्यो मद्-विभूतयः ।।२५ अहं विभूत्या बहुभिरिह रुपैर्यदा स्थिता । तत्-संहृतं मयैकैव, तिष्ठाम्याजौ स्थिरो भव ।।२६ वरदाऽहं सुर-गणाः ! वरं यं मनसेच्छथ । तं वृणुध्वं प्रयच्छामि, जगतामुप-कारकम् ।।२७ वैवस्वतेऽन्तरे प्राप्ते, अष्टा-विंशतिमे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महाऽसुरौ ।।२८ नन्द-गोप-गृहे जाता, यशोदा-गर्भ-सम्भवा । ततस्तौ नाशयिष्यामि, विन्ध्याचल-निवासिनी ।।२९ पुनरप्यति-रौद्रेण, रुपेण पृथिवी-तले । अवतीर्य हनिष्यामि, वैप्रचित्तांश्च दानवान् ।।३० भक्षयन्त्याश्च तानुग्रान, वैप्रचित्तान् महाऽसुरान् । रक्ता दन्ता भविष्यन्ति, दाडिमी-कुसुमोपमाः ।।३१ ततो मां देवताः स्वर्गे, मर्त्य-लोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति, सततं रक्त-दन्तिकाम् ।।३२ भूयश्च शत-वार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ, सम्भविष्याम्ययोनोजा ।।३३ ततः शतेन नेत्राणां, निरीक्षिष्यामि यन्मुनीम् । कीर्त्तयिष्यन्ति मनुजाः, शताक्षीमिति मां ततः ।।३४ ततोऽहमखिलं लोकमात्म-देह-समुद्-भवैः । भरिष्यामि सुराः शाकैरावृष्टेः प्राण-धारकैः ।।३५ शाकम्भरीति विख्यातिं, तदा यास्याम्यहं भुवि । तत्रैव च वधिष्यामि, दुर्गमाख्यं महाऽसुरम् ।।३६ दुर्गा देवीति विख्यातं, तन्मे नाम भविष्यति । पुनश्चाहं यदा भीमं, रुपं कृत्वा हिमाचले ।।३७ रक्षांसि भक्षयिष्यामि, मुनीनां त्राण-कारणात् । तदा मां मुनयः सर्वे, स्तोष्यन्त्यानम्र-मूर्तयः ।।३८ भीमा-देवीति विख्यातं, तन्मे नाम भविष्यति । यदाऽरुणाख्यस्त्रैलोक्ये, महा-बाधां करिष्यति ।।३९ तदाऽहं भ्रामरं रुपं, कृत्वाऽसंख्येय-षट्-पदम् । त्रैलोक्यस्य हितार्थाय, वधिष्यामि महाऽसुरम् ।।४० भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।।४१ इत्थं यदा यदा बाधा, दानवोत्था भविष्यति । तदा तदाऽवतीर्याऽहं, करिष्याम्परि-संक्षयम् ।।४२ एभिः स्तवैश्च मां नित्यं, स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां, शमयिष्याम्यसंशयम् ।।४३ मधु-कैटभ-नाशं च, महिषासुर-घातनम् । कीर्त्तयिष्यन्ति ये तद्-वद्, वधं शुम्भ-निशुम्भयोः ।।४४ अष्टम्यां च चतुर्दश्यां, नवम्यां चैक-चेतसः । श्रोष्यन्ति चैव ये भक्त्या, मम माहात्म्यमुत्तमम् ।।४५ न तेषां दुष्कृतं किञ्चिद्, दुष्कृतोत्था न चापदः । भविष्यति न दारिद्रयं, न चैवेष्ट-वियोजनम् ।।४६ शत्रुतो न भयं तस्य, दस्युतो वा न राजतः । न शस्त्रानल-तोयौघात्, कदाचित् सम्भविष्यति ।।४७ तस्मान्ममैतन्माहात्म्यं, पठितव्यं समाहितैः । श्रौतव्यं च सदा भक्त्या, परं स्वस्त्ययनं हि तत् ।।४८ उपसर्गानशेषास्तुं, महा-मारी-समुद्-भवान् । तथा त्रिविधमुत्पातं, माहात्म्यं शमयेन्मम ।।४९ यत्रैतत् पठ्यते सम्यङ्, नित्यमायतने मम । सदा न तद् विमोक्ष्यामि, सान्निध्यं तत्र मे स्थितम् ।।५० बलि-प्रदाने पूजायामग्नि-कार्ये महोत्सवे । सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ।।५१ जानताऽजानता वापि, बलि-पूजां तथा कृताम् । प्रतीच्छिष्याम्यहं प्रीत्या, वह्नि-होमं तथा कृतम् ।।५२ शरत्-काले महा-पूजा, क्रियते या न वार्षिकी । तस्यां ममैतन्माहात्म्यं, श्रुत्वा भक्ति-समन्वितः ।।५३ सर्व-बाधा-विनिर्मुक्तो, धन-धान्य-समन्वितः । मनुष्यो मत्-प्रसादेन, भविष्यति न संशयः ।।५४ श्रुत्वा ममैतन्माहात्म्यं, तथा चोत्पत्तयः शुभाः । पराक्रमं च युद्धेषु, जायते निर्भयः पुमान् ।।५५ रिपवः संक्षयं यान्ति, कल्याणं चोप-पद्मते । नन्दते च कुलं पुंसां, माहात्म्यं श्रृण्वताम् ।।५६ शान्ति-कर्मणि सर्वत्र, तथा दुःस्वप्न-दर्शने । ग्रह-पीडासु चोग्ासु, माहात्म्यं श्रृणुयान्मम ।।५७ उप-सर्गाः शमं यान्ति, ग्रह-पीडाश्च दारुणाः । दुःश्वप्नं च नृभिर्दृष्टं, सु-स्वप्नमुप-जायते ।।५८ बाल-ग्रहानि-भूतानां, बालानां शान्ति-कारकम् । सङ्घात-भेदे च नृणां, मैत्री-करणमुत्तमम् ।।५९ दुर्वृत्तानामशेषाणां, बल-हानि-करं परम् । रक्षो-भूत-पिशाचानां, पठनादेव नाशनम् ।।६० सर्वं ममैतन्माहात्म्यं, मम सन्निधि-कारकम् । पशु-पुष्पार्ध्य-धूपैश्च, गन्ध-दीपैस्तथोतमैः ।।६१ विप्राणां भौजनर्होमैः, प्रोक्षणीयैरहर्निशम् । अन्यैश्च विविधैर्भोगैः, प्रदानैर्वत्सरेण या ।।६२ प्रीतिर्मे क्रियते साऽस्मिन्, सकृत् सुचरिते श्रुते । श्रुतं हरति पापानि, तथाऽऽरोग्यं प्रयच्छति ।।६३ रक्षां करोति भूतेभ्यो, जन्मनां कीर्तनं मम । युद्धेषु चरितं यन्मे, दुष्ट-दैत्य-निबर्हणम् ।।६४ तस्मिञ्च्छ्रुते वैरि-कृतं, भयं पुंसां न जायते । युष्माभिः स्तुतयो याश्च, याश्च ब्रह्मर्षिभिः कृताः ।।६५ ब्रह्मणा च कृतास्तास्तु, प्रयच्छन्ति शुभां मतिम् । अरण्ये प्रान्तरे वापि, दावाग्नि-परि-वारितः ।।६६ दस्युभिर्वा वृतः शून्ये, गृहीतो वापि शत्रुभिः । सिंह-व्याघ्रानुयातो वा, वने वा वन-हस्तिभिः ।।६७ राज्ञा क्रुद्धेन चाज्ञप्तो, वध्यो बन्ध-गतोऽपि वा । आधूर्णितो वा वातेन, स्थितः पोते महार्णवे ।।६८ पतत्सु चापि शस्त्रेषु, सङ्ग्रामे भृश-दारुणे । सर्वाबाधासु घोरासु, वेदनाभ्यर्दितोऽपि वा ।।६९ स्मरन् ममैतच्चरितं, नरो मुच्येत सङ्कटात् ।।७० मम प्रभावात् सिंहाद्या, दस्यवो वैरिणस्तथा । दूरादेव पलायन्ते, स्मरतश्चरितं मम ।।७१ यत् प्राथ्यर्ते त्वया भूप ! त्वया च कुलनन्दन ! मतस्तत् प्राप्यतां सर्वं, परितुष्टा ददामि तत् ।।७२ स्वल्पैरहोभिर्नृपते ! स्वराज्यं प्राप्स्यते भवान् । हत्वा रिपूनस्खलितं, तव तत्र भविष्यति ।।७३ मृतश्च भूयः सम्प्राप्य, जन्म देवाद् विवस्तः । सावर्णिको मनुर्नाम, भवान् भुवि भविष्यति ।।७४ वैश्यवर्य ! त्वया यश्च, वरोऽस्मत्तोऽभि-वाञ्छितः । तं प्रयच्छामि संसिद्ध्यै, तव ज्ञानं भविष्यति ।।७५ ।। ॐ ऋषिरुवाच ।। मूल-दुर्गामिमां नित्यं, पठेद् यः सु-समाहितः । इह-लोके सुखं भुक्त्वा, देवी-सान्निध्यमाप्नुयात् ।।७६ ।। क्षमा-प्रार्थना ।। आवाहनं न जानामि, न जानामि विसर्जनम् । पूजां चैव न जानामि, क्षम्यतां परमेश्वरि ! मन्त्र-हीनं, क्रिया-हीनं, भक्ति-हीनं सुरेश्वरि ! यत्-पूजितम् मया देवि ! परिपूर्णं तदस्तु मे । अज्ञानाद्विस्मृतेर्भ्रान्त्या, यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां, देवि प्रसीद परमेश्वरि ! कामेश्वरि ! जगन्मातः ! सच्चिदानन्द-विग्रहे ! गृहाणार्चामिमां प्रीत्या, प्रसीद परमेश्वरि ! ।। पाठ-समर्पण ।। ॐ गुह्याति-गुह्य-गोप्त्री त्वं, गृहाणास्मत् कृतं जपम् । सिद्धिर्मे भवतु देवि ! त्वत्-प्रसादान्महेश्वरि ! ।। Related