October 11, 2015 | aspundir | Leave a comment रुद्र-यामलोक्त श्रीदुर्गा-पञ्जर-स्तवम् विनियोगः- अस्य श्रीदुर्गा-पञ्जर-स्तोत्रस्य श्रीमहा-मार्तण्ड-भैरवः ऋषिः, त्रिष्टुप् छन्दः, श्रीपराऽम्बिका दुर्गा देवता, दुं बीजं, स्वाहा शक्तिः, क्लीं कीलकं, सर्वार्थ-साधने पाठे विनियोगः। ध्यान्- हेम-प्रख्यामिन्दु-खण्डात्त-मौलिं, शंखाभीष्टाभीति-हस्तां त्रिनेत्राम्। हेमाब्जस्थां पीत-वस्त्रां प्रसन्नां, देवीं दुर्गां दिव्य-रुपां नमामि ।। ।। श्रीमार्कण्डेय उवाच ।। ॐ दुर्गे ! दुर्ग-प्रदेशेषु, दुर्वार-रिपु-मर्दिनी । मर्दयित्री रिपु श्रीणां, दुर्गे ! रक्ष नमोऽस्तु ते ।।१ पथि देवालये दुर्गे, अरण्ये पर्वते जले । सर्वत्रोपगते दुर्गे ! दुर्गे ! रक्ष नमोऽस्तु ते ।।२ दुःस्वप्न-दर्शने घोरे, घोरे निष्पन्न-बन्धने । महोत्पाते च नरके, दुर्गे ! रक्ष नमोऽस्तु ते ।।३ व्याघ्रोरग-वराहाग्नि, निर्ह्रादि-जन संकटे । ब्रह्म-विष्णु-स्तुते, दुर्गे ! रक्ष नमोऽस्तु ते ।।४ खेचरा मातरः सर्वे, भुचराश्चाति-रोहिताः । एते समाश्रितास्तां त्वं, दुर्गे ! रक्ष नमोऽस्तु ते ।।५ कंसासुर-पुरे घोरे, कृष्ण-रक्षण-कारिणी । रक्ष-रक्षा सदा दुर्गे ! दुर्गे ! रक्ष नमोऽस्तु ते ।।६ अनिरुद्धस्य रुद्धस्य, दुर्गे ! वाण-पुरे पुरा । वरदे ! त्वं महा-घोरे, दुर्गे ! रक्ष नमोऽस्तु ते ।।७ देव-द्वारे नदी-तीरे, राज-द्वारे च संकटे । पर्वतारोहणे दुर्गे ! दुर्गे ! रक्ष नमोऽस्तु ते ।।८ दुर्गा-पञ्जरमेतत्तु, भुक्ति-मुक्ति-प्रदायकः । पठतस्तारयेद् दुर्गा, नात्र कार्या विचारणा ।।९ रुद्र-ज्वाला महा-देवि, क्षमा च अखिलेश्वरी । अनन्ता विजया नित्या, मातस्तमपराजिता ।।१० Related