July 12, 2019 | Leave a comment ॥ अथ विश्वमङ्गल गुह्यकाली कवचम् ॥ विनियोगः- ॐ अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य संवर्तऋषिरनुष्टप्छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली देवता, फ्रें बीजं, ख्फ्रें शक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि पूर्वकात्मरक्षणे जपे विनियोगः । ॐ फ्रें पातु शिरः सिद्धिकराली कालिका मम । ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदावतु ॥ १ ॥ श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा । हूं स्त्रीं कर्णौं वज्रकापालिनी मे कालिकाऽवतु ॥ २ ॥ ऐं क्रौं हनू कालसंकर्षणा मे पातु कालिका । क्रीं क्रौं ध्रुवावुग्रचण्डा कालिका मे सदावतु ॥ ३ ॥ हां क्षौं नेत्रे सिद्धिलक्ष्मीरवतु प्रत्यहं मम । हूं ह्रौं नासां चण्डकापालिनी मे सर्वदावतु ॥ ४ ॥ आं ईं ओष्ठाधरौ पातु सदा समयकुब्जिका । ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥ ५ ॥ जूं सः सदा में रसनां पातु श्रीजयभैरवी । स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥ ६ ॥ ब्लूं ब्लौं कण्ठं रक्षतु मे सर्वदा तुम्बुरेश्वरी । क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥ ७ ॥ फ्रां फ्रौं भुजौ वज्रचण्डेश्वरी रक्षतु मे सदा । स्त्रें स्त्रौं वक्षःस्थलं जयझङ्केश्वरी मम ॥ ८ ॥ फिं फां करौ रक्षतु मे शिवदूती च सर्वदा । छ्रैं छ्रौं मे जठरं पातु फेत्कारी घोरराविणी ॥ ९ ॥ स्त्रैं स्त्रौं गुह्येश्वरि नाभिं मम रक्षतु सर्वदा । क्षु क्षौं पार्श्वो सदापातु बाभुवी घोररूपिणी ॥ १० ॥ ग्रूं ग्रौं कुलेश्वरी पातु मम पृष्ठं च सर्वदा । क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥ ११ ॥ हैं हौं मे रक्षतादूरू सर्वदा चण्डखेचरी । स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥ १२ ॥ त्रीं थ्रीं जङ्घायुगं पातु तामसी सर्वदा मम । ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥ १३ ॥ ड्रीं ठ्रीं वागीश्वरी सर्वान् सन्धीन् देहस्य मेऽवतु । ख्रें ख्रौं शराराधातून्मे कामाख्या सर्वदावतु ॥ १४ ॥ ब्रीं ब्रूं कात्यायनी पातु दशवायूंस्तनूद्भवान् । ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥ १५ ॥ ऐं औं अनूक्तं यत्स्थानं शरीरेऽन्तर्बहिश्च मे । तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥ १६ ॥ फ्रें छ्रीं ह्रीं स्त्रीं हूं शरीरसकलं सर्वदा मम । गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥ १७ ॥ ॥ फल-श्रुति ॥ इति ते कवचं प्रोक्तं नाम्ना च विश्वमङ्गलम् । सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥ १८ ॥ इदं पठित्वा त्वं देहं भस्मनैवावगुण्ठ्य च । तत्तत्स्थानेषु विन्यस्य वद्धवादः कवचं दृढम् ॥ १९ ॥ दशवारान् मनुः जप्त्वा यंत्र कुत्रापि गच्छतु । समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥ २० ॥ श्मशाने प्रेतभूताढ्यकान्तारे दस्युसङ्कुले । राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥ २१ ॥ तस्य भीतिर्न कुत्रापि चरतः पृथिवीमिमाम् । न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥ २२ ॥ नाग्न्युत्पातो नैव भूतप्रेतजः संकटस्तथा । विद्युद्वर्षोंपलभयं न कदापि प्रबाधते ॥ २३ ॥ न दुर्भिक्षभयं चास्य न च मारिभयं तथा । कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥ २४ ॥ सहस्रं जपतश्चास्य पुरश्चरणमुच्यते । तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥ २५ ॥ वश्यकार्यो मोहने च मारणोच्चाटने तथा । स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥ २६ ॥ दुर्गभंगे तथा युद्धे परचक्र निवारणे । एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥ २७ ॥ भूतावेशं नाशयति विवादे जयति द्विषः । संकटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥ २८ ॥ यदीच्छेत् महतीं लक्ष्मीं तनयानायुरेव च । विद्यां कान्तिं तथौन्नत्यं यश आरोग्यमेव ॥ २९ ॥ भोगान् सौख्यं विघ्नहानिमनालस्यं महोदयम् । अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥ ३० ॥ कवचेनामुना सर्वं संसाधयति साधकः । यद् यद् ध्यायति चित्तेन सिद्धं तत्तत्पुरः स्थितम् ॥ ३१ ॥ दुर्धटं घटयत्येतत् कवचं विश्वमङ्गलम् । विश्वस्य मङ्गलं यस्मादतो वै विश्वमङ्गलम् ॥ ३२ ॥ सान्निध्यकारकं गुह्यकाल्या एतत् प्रकीर्तितम् । भुक्तवा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥ ३३ ॥ ॥ इति विश्वमङ्गल महावज्र कवचम् ॥ Related