Print Friendly, PDF & Email

॥ अथ शताक्षरी मृत्युञ्जय प्रयोगः ॥

विनियोगः – ॐ अस्य श्री शताक्षरी गायत्रीमन्त्रस्य विश्वामित्र मरीचि कश्यप वसिष्ठ ऋषयो गायत्री त्रिष्टप् अनुष्टप्छन्दासि सवितृ जातवेदस्त्र्यम्बका देवता गायत्र्यक्षराणि बीजानि अनुष्टबक्षराणि शक्तयस्त्रिष्टुबक्षराणि कीलकानि ममारिष्टशान्तये जपे विनियोगः ।

ऋष्यादिन्यास – विश्वामित्र मरीचि कश्यप वसिष्ठ ऋषियो नमः शिरसि । गायत्रीत्रिष्टुबनुष्टप छन्दोभ्यो नमः मुखे ।सवितृ जातवेदस्त्रम्बकदेवेभ्यो हृदये । गायत्र्यक्षरेभ्यो बीजेभ्यो नमः गुह्ये । अनुष्टुबक्षरेभ्यो शक्तिभ्यो नमः पादयोः । त्रिष्टुबक्षरेभ्यः कीलकेभ्यो नमः नाभौ विनियोगाय नमः सर्वाङ्गे ।

करन्यास – ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, अंगुष्ठाभ्यां नमः । ॐ धियो यो नः प्रचोदयात्, तर्जनीभ्यां नमः । ॐ जातवेदसे सुनवाम सोममराभतीयतो निदहाति वेदः, मध्यमाभ्यां नमः । ॐ स नः पर्षदति दुर्गाणि विश्वनावेव सिन्धुं दुरितात्यग्निः, अनामिकाभ्यां नमः । ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम् । कनिष्ठिकाभ्यां नमः । ॐ उर्वारुकमिव बन्धनान् मृोमुक्षीय मामृतात्, करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यास – ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, हृदयाय नमः । ॐ धियो यो नः प्रचोदयात् , शिरसे स्वाहा । ॐ ‘जातवेदसे सुनवाम सोममराभतीयतो निदहाति वेदः, शिखायै वषट् । ॐ स नः पर्षदति दुर्गाणि विश्वनावेत सिन्धुं दुरितात्यग्निः, कवचाय हुँ । ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनम्, नेत्रत्रयाय वौषट् । ॐ उर्वारुकमिव बन्धनान् मृोमुक्षीय मामृतात्, अस्त्राय फट् ।

॥ ध्यानम् ॥
स्मर्तव्या ऽखिलालोकवर्ति सततं यज्जङ्गमस्थावरं
व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिर्यतः सिद्धयति ।
यद्वास्यात् प्रणवत्रिभेदगहनं श्रुत्वा च यद्गीयते ।
तद्वस्तु स्थितिसिद्धयेस्तु वरदं ज्योतिस्त्रयोत्यं महः ॥

॥ संपूर्णमूलमन्त्र ॥
“ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
ॐ जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदहि दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बंधनान् मृत्योर्मुक्षीय माऽमृतात् ॥”

इस मन्त्र के पांच प्रकार है –
१. गायत्रीत्र्यम्बक जातवेद – पापशांति हेतु ।
२. त्र्यम्बक, जातवेद, गायत्री ।
३. त्र्यम्बकगायत्री एवं जातवेद – दोनों ही आयुष्यवृद्धि हेतु ।
४. जातवेद, त्र्यम्बक और गायत्री
५. जातवेद गायत्री और त्र्यम्बक – दोनों ही शत्रुनाश हेतु जप करें ।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.