January 30, 2019 | aspundir | 1 Comment ॥ शरभहृदय स्तोत्रम् ॥ किसी भी देवता का हृदय मित्र के समान कार्य करता है, शतनाम अंगरक्षक के समान एवं सहस्रनाम सेना के समान रखा करता है अत: इनका अलग-अलग महत्व है । भूमिका के अनुसार समुन्द्र मंथन के समय विष्णु ने शरभ हृदय की २१ आवृति ३ मास तक की तब शरभराज प्रकट ने होकर निेर्विघ्नता पूर्वक अमृत पान करने का आशीर्वाद दिया। शिव ने विष्णु को यह हदयस्तोत्र बताया। पुरा नारायणः श्रीमान् क्षीराब्धौ मंथने कृते । तस्य प्रारम्भ समये हृदयं शरभस्य च ॥ प्रातः काले पठेन्नित्यं विंशदावर्तिकं मुदा । एवं मासत्रयं कृत्वा प्रादुर्भवति शालुवः ॥ ततश्च दण्डबद्भूमिं प्रणम्य च पुनः पुनः । तमुत्थाय महातेजा मुर्ध्नि चाघ्राय शालुव । संतुष्ट प्रत्युवाचैनं निर्विर्घ्नामृतं भवेत् ॥ विनियोगः- अस्य श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषिः जगती छन्दः, शरभराज देवता, खां बीजं, महादेव शक्तिः, स्वाहा कीलकं इष्टार्थे जपे विनियोगः । ऋष्यादिन्यासः- श्री शरभहदय स्तोत्र मंत्रस्य कालाग्नि रुद्र ऋषये नमः शिरसि । जगती छन्दसे नमः मुखे । शरभराज देवताय नमः हृदि । खां बीजाय नमः गुह्ये । महादेव शक्तये नमः पादयो । स्वाहा कीलकाय नमः नाभौ । इष्टार्थे जपे विनियोगाय नमः सर्वाङ्गे । इसके बाद मूल मंत्र के न्यास ध्यान करें । ॥ स्तोत्रम् ॥ प्रथमं पक्षिराज च द्वितीयं शरभं तथा । तृतीयं शालुवं प्रोक्तं चतुर्थं लोकनायकम् ॥ १ ॥ पंचमं रेणुकानाथं षष्ठं कालाग्नि रुद्रकम् । सप्तमं नरसिंहघ्नं अष्टमं विश्वलोचनम् ॥ २ ॥ श्रीं ह्रीं क्लीं नवमं चैव हुं हुं हुं दशमं तथा । क्लीं श्रीं क्लीं एकादशं च द्वादशं सर्वमंत्रवित् ॥ ३ ॥ त्रयोदशं तु यन्त्रेशं चतुर्दशं महाबलम् । पचदशं पापनाशं षोडशाञ्च करालकम् ॥ ४ ॥ सप्तदशं महारौद्रं भीममष्टादशं तथा । एकोनविंशं साम्बं च विंशकं शंकरं तथा ॥ ५ ॥ विंशोत्तरेक सर्वेशं द्वाविंशं पार्वतीपतिः । हूं हूं हूं च त्रयोविंशं चतुर्दिशमनन्तकम् ॥ ६ ॥ पञ्चाविंशं वृषारूढ़ं षड्विंशं विश्वलोचनम् । त्रिलोचनं सप्तविंशं अष्टाविशं खगेन्द्रकम् ॥ ७ ॥ पं पं पं नवविंशं च त्रिंशद्भुजग-भूषणम् । लं लं लमेक त्रिंशञ्च द्वात्रिंशं पञ्चवक्त्रकम ॥ ८ ॥ त्रयस्त्रिशञ्च नन्दञ्च चतुस्त्रिंशमतः परम् । भं भं भं भं पञ्चत्रिंशं षट्त्रिंशं शत्रु-नाशनम् ॥ ९ ॥ सप्तत्रिंशं स्वयंभूञ्च विश्वेशमष्ट त्रिंशकम् । शूलपाणिं नवत्रिंशं चत्वारिंशत् कलाधरम् ॥ १० ॥ एक चत्वारिंशत् सं सं सं द्विचत्वारिंश हासकम् । एतं यशस्यमायुष्यं मन्त्रं सर्वार्थदायकम् ॥ ११ ॥ अनेक रत्न लम्बानि जटामुकुट धारिणम् । अनेक रत्न संयुक्तं सुवर्णञ्चित मौलिनम् ॥ १२ ॥ तक्षकादि महानाग कुण्डलद्वय शोभितम् । कालीं लिखित दुर्गां च पक्षद्वय विराजितम् ॥ १३ ॥ दशायुधधरं दीप्तं दशबाहुं त्रिलोचनम् । त्रिपञ्चनयनं पञ्चवक्त्रतुण्डधरं प्रभुम् ॥ १४ ॥ नीलकण्ठामराभोग सर्थहारोपशोभितम् । विशालाक्षं च विश्वेशं विश्वमोहनमव्ययम् ॥ १५ ॥ त्रिपुरारिं त्रिशूलादिं धारिणं मृगधारिणम् । करालभृकुटिं भीमं शंखतुल्य कपोलकम् ॥ १६ ॥ व्याध्रचर्माम्बरधरं वाडवाग्नि स्थितोदरम् । मृत्यु व्याधिस्थितोरुं च वज्र जानुप्रदेशकम् ॥ १७ ॥ पादपङ्कज युग्मञ्च तीक्ष्णवज्र नखाग्रकम् । रणन्नूपुर मञ्जीर झणत्किंकिणि कूजितम् ॥ १८ ॥ वज्रतुण्डं महादीप्तं कालकालं कृपानिधिम् । एवं ध्यात्वा च हृदयं त्रिंशदावृत्तिकं क्रमात् ॥ १९ ॥ नित्यं जप्त्वा शालुवेशं हृदयं सर्वकामदम् । सर्वपुण्यफलं श्रेष्ठं सर्वशत्रुविनाशनम् ॥ २० ॥ सर्वरोगहरं दिव्य भजतां पापनाशनम् । इहैव सकालान् भोगानन्ते शिवपद ब्रजेत ॥ २१ ॥ इत्युक्त्वान्ते तदा देवः शरभपक्षिराजसौ । ततोनारायण ध्यात्वा दृष्टवा रूपञ्च विस्मित ॥ २२ ॥ एतत्ते सुभ्रु कथित हृदयं शरभस्य च । पठतां शृण्वताश्चैव सर्वमंत्रादिसिद्धिम् ॥ २३ ॥ ॥ इति महाशैवतन्त्रे अति रहस्ये आकाशभैरव कल्पे प्रत्क्षसिद्धिप्रदे शरभशालुव पक्षिराज हृदय संपूर्णम् ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe
very good post and nice website, good information ameya jaywant narvekar Neelam jaywant narvekar jaywant mangesh narvekar Reply