January 30, 2019 | aspundir | Leave a comment ॥ अथ शरभेशाष्टक स्तोत्रम् ॥ कुण्डलिनी शक्ति का ध्यान करते हुये स्तोत्र का 3 बार पाठ करे । तडित्कोटि प्रतीकाशां विषतन्तु तनीयसीं । इति कुण्डलिनी ध्यात्वा ॥ विनियोगः – अस्य श्री शरभेष्टाक मंत्रस्य कालाग्निरुद्र ऋषिः, जगती छंदः, भगवान श्री शरभेश्वरो देवता, खं बीजं, स्वाहा शक्तिः, चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगः । ऋष्यादिन्यासः – कालाग्निरुद्राय ऋषये नमः शिरसि । जगती छन्दसे नमः मुखे । भगवते श्री शरभेश्वराय देवातयै नमः हृदये । खं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः । विनियोगाय नमः सर्वाङ्गे । मूलमंत्र से षङ्गन्यास करे एवं ध्यान करें । ॥ ध्यानम् ॥ ज्वलन कुटिलकेशं सूर्यचन्द्राग्नि नेत्रम्, निशित कर नरखागैधूर्म होमादि देहम् । शरभमथ मुनीन्द्रैः स्तूयमानं सिताङ्गम् प्रणतभय-विनाशं भावये पक्षिराजम् ॥ ॥ स्तोत्रम् ॥ ॐ देवाधिदेवाय जगन्मयाय शिवायनालिक निभाननाय । शर्वाय भीमाय (भीमय) शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १ ॥ हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय । मृडाय रुद्राय त्रिलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ २ ॥ शीताँशुचूडाय दिगम्बराय सृष्टि-स्थिती-ध्वंसन-कारणाय । जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥ कङ्लककण्ठाय भवान्तकाय कपालशूलात्ढ्य कपालशूलात्त कराम्बुजाय । भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥ शमादि षट्काय यमान्तकाय यमादि योगाष्टक सिद्धिदाय । उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥ घृणादि पाशाष्टक वर्जिताय लेखि कृतास्मिन् पथिपुङ्गवाय खिलीकृतास्मत्पथिपूर्वगाय । गुणादिहिनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥ कलादि कालाय वेदामृत कन्दलाय कल्याण कौतुहल कारणाय । स्थूलाय सूक्ष्माय सूरुपकाय स्वरुपगाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥ पञ्चाननायखिलभासनाय पंचाननायनिलभास्कराय पञ्चाशदर्णाय पञ्चाशदावर्णाद्य पराक्षराय । पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ८ ॥ नीलकण्ठाय रुद्राय शिवाय शशिमौलिने । भवाय भवनाशाय पक्षिराजाय ते नमः ॥ ९ ॥ परात्पराय घोराय शम्भवे परमात्मने । शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ १० ॥ गंगाधराय साम्बाय परमानन्द तेजसे । सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ ११ ॥ वरदाय वरांगाय (च गङगाय) वामदेवाय शूलिने । गिरीशाय गिरीशाय गिरिजापतये नमः ॥ १२ ॥ कनक जठरकोद्यद्रक्त पानोन्मेदन प्रथित निखिल पीड़ा नारसिंहेन जाता । शरभ हर शिवेश त्राहि नः सर्वपापा दनिशमिह कृपालो शालुवेश प्रभोत्वम् ॥ १३ ॥ शरभेश शर्वाधिक शान्तमूर्ते कृतापराधान मरानपायान् । विनीत विश्व द्विविधायतेन नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १४ ॥ दंष्ट्राननोग्रः शरभः सपक्षश्चतुर्भुजश्चाष्ट-भुजश्चर्तुर्विधः । कोटीर गङ्गेन्दुधरो नृसिंहक्षोभाय ह्यास्मद्रिपुहास्तु शम्भुः ॥ १५ ॥ हुंकारी शरभेश्वरोष्टचरणः पक्षीचतुर्बाहुकः पादाकृष्ट निंसह विग्रहधर कालाग्नि कोटिद्युतिः । विश्वक्षोभहरः सहेतिरनिशं ब्रह्मेन्द्र मुख्यैस्तुतो गङ्गाचन्द्रधरः पुरत्रय हर सद्यो रिपुघ्नोस्तुमः ॥ १६ ॥ मृगङ्गलाङ्गल सुचञ्चुपक्षो दंष्ट्राभिरष्टांघ्रि भुजा सहस्रः । त्रिनेत्र गङ्गेन्दुधरः प्रभाढ्य पायाद पायाच्छरभेश्वरो नः ॥ १७ ॥ नृसिंहमृत्युग्रमदिव्यतेजः प्रकाशिनं दानवभङ्गदक्षम् । प्रशान्तमन्तंविदधाति योऽमेसोऽव्यादपायाच्छरभेश्वरोन ॥ १८ ॥ योऽभूत् सहस्रांशु शतप्रकाशः सपक्ष सिंहाकृतिरष्टपादाः । नृसिंह संक्षोभशमात्तरूपः पायादपायाच्छरभेश्वरो नः ॥ १९ ॥ त्वां मन्युमन्तं प्रवदन्ति वेदाः त्वां शांतिमन्तम् मुनयो गृणन्ति दृष्टेनृसिंहे जगदीश्वरेते सर्वापराधंशरभः क्षमस्व ॥ २० ॥ करचरणकृतं वा कायजं कर्मजं वा श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व, शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ २१ ॥ रुद्रः शङ्कर ईश्वरः पुरहरः स्थाणुः कपर्दी शिवो वागीशो वृषभध्वज स्मरहरी भक्ति प्रियस्त्र्यम्बकः । भूतेशो जगदीशश्वरश्च शरभो मृत्युंजय श्रीपतिरस्मान्काल गलोऽवतात् पशुपतिः शंभुः पिनाकीः हरः ॥ २२ ॥ योऽ स्मान्पाहि भगवन्त प्रसीद च पुनः पुनः । इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः ॥ २३ ॥ यतो नृसिंह हरसे हर इत्युच्यसे बुधैः । यतो विभर्ति सकलं विभज्यतनुमष्टधा ॥ २४ ॥ सुरात्राह्लाद्रयामास वरदानै-रभीप्सितैः । प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ २५ ॥ मयिरुद्रे महादेवे भजध्वं भक्ति पूरिताः । ममांशोऽयं नृसिंहोऽपि मयि भक्ततमोऽस्त्विह ॥ २६ ॥ इयं स्तवं पठेद्यस्तु शरभेष्टाकं नरः । तस्य नश्यन्ति पापानि रिपश्चसुरोत्तमाः ॥ २७ ॥ नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च । अशेष ग्रह भूतानि कृत्रिमाणि च ज्वराणि च ॥ २८ ॥ सर्व चौरादि शार्दूल गजपोत्रिमखाणि च । अन्यानि व वनस्थानि नास्ति भीतिर्न संशयः ॥ २९ ॥ इक्त्युक्तवान्तर्दधे देवा देवान्सर्व शालुवः । ततस्ते स्वस्वधामानि गताश्चाह्लाद पूर्वकम् ॥ ३० ॥ एतच्छारभं स्तोत्रं मंत्रंभूतं जपेन्नरः । सर्वान्कामान वाप्नोति शिवलोकञ्च गच्छति ॥ ३१ ॥ ॥ इति शरभार्चन पद्धति प्रयोगान्तरे शरभाष्टक स्तोत्रं ॥ Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe