॥ अथ शिव पञ्चावरण देवानां स्तुतिः ॥

इस स्तोत्र में रुद्र यन्त्र में वर्णित पूजा का वृहत् कर्म है जो व्यक्ति नित्य रुद्र यन्त्र का अर्चन करने में असमर्थ हैं वे यदि इस स्तोत्र का पाठ करें तो उसे यन्त्रार्चन का पूर्ण फल मिलता है ।

स्तोत्रं वक्षामि ते कृष्ण पंचावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ॥ १ ॥
जय जय जगदेकनाथ शम्भो, प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुष प्रपञ्चवाचामपि, मनसां पदवीमतीततत्त्वम् ॥ २ ॥

स्वभाव निर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्य महाशक्ते जय शुद्ध गुणार्णव ॥ ३ ॥
अनन्तकान्ति सम्पन्न जयासदृश विग्रह ।
अतक्यं महिमाधार जयानाकुलमंगल ॥ ४ ॥
निरञ्जन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृत्तिकारण ॥ ५ ॥
जयति परमैश्वर्य जयति करुणास्पद ।
जय स्वतन्त्र सर्वस्व जयासदृशवैभव ॥ ६ ॥
जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य, जयात्यन्तनिरुत्तर ॥ ७ ॥
जयाऽद्भुत जयाक्षुद्र जयाऽक्षत जयाऽव्यय ।
जयाऽमेय जयाऽमाय जयाऽभव जयाऽमल ॥ ८ ॥
महाभुज महासार महागुण महाकथ ।
महाबल महामाय महारस महारथ ॥ ९ ॥
नमः परमदेवाय नमः परमहेतवे ।
नम: शिवाय शान्ताय नमः शिवतराय ते ॥ १० ॥
त्वदधीनमिदं कृत्स्नं जगद्धि ससुराऽसुरम् ।
अतस्त्वद्विहितामाऽज्ञां क्षमतं कोऽतिवर्तितुम् ॥ ११ ॥
अयं पुनर्जनो नित्य भवदेकसमाश्रयः ।
भवानतोऽनुगृह्यस्मै प्रार्थितं सम्प्रयच्छतु ॥ १२ ॥
जयाऽम्बिके जगन्मार्तजय सर्वजगन्मयि ।
जयाऽनवधिकैश्वर्ये जयाऽनुपम विग्रहे ॥ १३ ॥
जय वाड्मनसाऽतीते जयाचिद्ध्वान्तभाजके ।
जय जन्मजराहीने जय कालोत्तरोत्तरे ॥ १४ ॥
जयाऽनेकविधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्वसुराऽराध्ये जय विश्वविजृम्भिणि ॥ १५ ॥
जयमङ्गल दिव्याङ्गे जय मङ्गल दीपिके ।
जय मङ्गल चारित्रे जय मङ्गल दायिनि ॥ १६ ॥
नमः परमकल्याण गुण संचय मूर्तये ।
त्वतः खलु समुत्पन्नं जगत्त्वय्येव लीयते ॥ १७ ॥
ज्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् ।
जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ॥ १८ ॥
पञ्चवक्त्रो दशभुजः शुद्धस्फटिक सन्निभः ।
वर्णब्रह्मकलादेहो देवः सकल निष्कल ॥ १९ ॥
शिवमूर्तिसमारूढः शान्त्यतीतः सदाशिवः ।
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ॥ २० ॥
सदाशिवाङ्गमाऽरूढ़ा शक्तिरिच्छा शिवाह्यया ।
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥ २१ ॥
शिवयोर्दयितौ पुत्रौ देवौ हेरम्ब षण्मुखौ ।
शिवाऽनुभावौ पुत्रौ देवौ हेरम्ब षण्मुखौ ॥ २२ ॥
शिवाऽनुभावौ सर्वग्धौ शिवाभ्यां नित्यसत्कृतौ ।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ॥ २३ ॥
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ।
स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥ २४ ॥
ताविमौ शिवयोः पार्श्चे नित्यमित्थं मयार्चितौ ।
तयोराज्ञां पुरस्कृत्य पार्थितं मे प्रयच्छताम् ॥ २५ ॥
शुद्धस्फटिक संकाशमीशानाख्यां सदाशिवम् ।
मृर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ॥ २६ ॥
शिवार्चरतं शान्तं शान्त्यतीतं खमास्थितम् ।
पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ २७ ॥
प्रथमावरणे पूर्वं शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं ते प्रयच्छतु ॥ २८ ॥
बालसूर्य प्रतिकाशं पुरुषाख्यं पुरातनम् ।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥ २९ ॥
शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ।
प्रथमं शिवबीजेषु कलासु च चतुश्कलम् ॥ ३० ॥
पूर्वभागे मया भक्त्या शक्त्या सहसमर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३१ ॥
अञ्जनादि प्रतीकाशमघोरं घोरविग्रहम् ।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ॥ ३२ ॥
विद्यापदं समारूढं. वह्निमण्डल मध्यगम् ।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ॥ ३३ ॥
शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३४ ॥
कुंकुमक्षोदसंकाशं वामाख्यं वरवेशधृक् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठतम् ॥ ३५ ॥
वारिमण्डलमध्यस्थं महादेवार्चने रतम् ।
तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ॥ ३६ ॥
देवस्योत्तरदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ३७ ॥
शङ्खकुन्देन्दु धवलं सद्याख्यं सौम्यलक्षणम् ।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ॥ ३८ ॥
निवृत्तिपद निष्ठं च पृथिव्यां समवस्थितम् ।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ॥ ३९ ॥
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ॥ ४० ॥
शिवस्य तु शिवायाश्च हृन्मूर्ति शिवभाविते ।
तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ॥ ४१ ॥
शिवस्य तु शिवायाश्च शिखामूर्ति शिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४२ ॥
शिवस्य च शिवायाश्च वर्मणा शिवभाविते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४३ ॥
शिवस्य च शिवायाश्च नेत्रमूर्ती शिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४४ ॥
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ॥ ४५ ॥
वामो ज्येष्ठास्तथा रुद्रः कालो विकरणस्तथा ।
बलो विकरणश्चैव बलप्रमथनः परः ॥ ४६ ॥
सर्वभूतमस्य दमन -:स्तादृशाश्चाष्टशक्तयः ।
प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात् ॥ ४७ ॥
अथानन्तश्च सूक्ष्मश्च शिवाश्चेष्कनेत्रकः ।
एकरुद्रस्त्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ॥ ४८ ॥
तथाष्टौ शक्तयस्तेषां द्वितीयावरणेबर्चिताः ।
ते में कामं प्रयच्छतु शिवयोरेव शासनात् ॥ ४९ ॥
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ।
महादेवादयश्चान्ये तथैकादशमूर्तयः ॥ ५० ॥
शक्तिभिः सहिताः सर्वे तृतीयावरणे स्थिताः ।
सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ॥ ५१ ॥
वृषराजो महातेजो महामेघसमस्वनः ।
मेरुमन्दरकैलास हिमाद्रिशिखरोपमः ॥ ५२ ॥
सिताभ्रशिखराकारककुदा परिशोभितः ।
महाभोगिन्द्रकल्पेन वालेन च विराजितः ॥ ५३ ॥
रक्तास्यशृंगाचरणो रक्तप्रायविलोचनः ।
पीवरोन्नतसर्वाङ्गः सुचारुगमनोज्ज्वलः ॥ ५४ ॥
प्रशस्तलक्षणः श्रीमान् प्रज्वलन्मणिभूषणः ।
शिवप्रियः शिवसक्तः शिवयोर्ध्वजवाहनः ॥ ५५ ॥
तथा तच्चरणन्यासपविता परविग्रह ।
गोराजपुरुषः श्रीमान् श्रीमच्छूलवरायुधः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ५६ ॥
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ।
सनारायणकैर्देवैर्नित्यमभ्यर्थ्य वन्दितः ॥ ५७ ॥
शर्वस्यान्तमुद्वारि सार्द्धं परिजनैः स्थितः ।
सर्वेश्वरसमप्रख्यः सर्वासुरविमर्दनः ॥ ५८ ॥
सर्वेशां शिवधर्माणामध्यक्षत्वेऽभिषेचितः ।
शिवप्रियः शिवसक्तः श्रीमच्छूलवरायुधः ॥ ५९ ॥
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ॥ ६० ॥
महाकालो महाबाहुर्महादेव इवापरः ।
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ॥ ६१ ॥
शिवप्रियः शिवासक्तः शिवयोरर्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ६२ ॥
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्णोः परा तनुः ।
महामोहात्मतनयो मधुमांसासर्वप्रियः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ ६३ ॥
ब्राह्मणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ॥ ६४ ॥
एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ॥ ६५ ॥
मत्तमातङ्ग वदनो गङ्गोमाशङ्करात्मजः ।
आकाश देहो दिग्बाहुः सोम सूर्याऽग्नि लोचनः ॥ ६६ ॥
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ।
शिवज्ञानमदोद्भिन्न स्त्रिदशानामविघ्नकृत् ॥ ६७ ॥
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ६८ ॥
षड्मुखः शिवसम्भूतः शक्तिवज्रधरः प्रभुः ।
अग्रेश्च तनयो देवो ह्यपर्णातनयः पुनः ॥ ६९ ॥
गङ्गायाश्च गणाम्बायाः कृत्तिकानां तथैव च ।
विशाखेन च शाखेन नैगमेयेन चावृतः ॥ ७० ॥
इन्द्रजिच्चेन्द्र सेनानीस्तारकासुर जित्तथा ।
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ॥ ७१ ॥
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ।
कुमारः सुकुमाराणां रूपोदाहरणं महत् ॥ ७२ ॥
शिवप्रियः शिवासक्तः शिवपादार्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ॥ ७३ ॥
ज्येष्ठा वरिष्ठ वरदा शिवयोर्यजने रता ।
तयोराज्ञां पुरस्कृत्य सा में दिशतु कांक्षितम् ॥ ७४ ॥
त्रैलोक्य वन्दिता साक्षादुल्काकारा गणाम्बिकाः ।
जगत्सृष्टि विवृद्धर्थ ब्रह्मणाभ्यार्थिता शिवात् ॥ ७५ ॥
शिवाया प्रविभक्ताया भ्रुवोरन्तर निस्सृता ।
दाक्षायणी सती मेना तथा हैमवती ह्युमा ॥ ७६ ॥
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ।
अपर्णायाश्च जननीपाटलायास्तथैव च ॥ ७७ ॥
शिवाऽर्चनरता नित्यं रुद्राणी रुद्रवल्लभा ।
सत्कृत्य शिवयोराज्ञां सा में दिशतु कांक्षितम् ॥ ७८ ॥
चण्डः सर्वगणेशान्तः `दिशतु कांक्षितम् ॥ ७९ ॥
पिङ्गलो गणपः श्रीमान् शिवासक्तः शिवप्रियः ।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ॥ ८० ॥
भृङ्गीशो नाम गणपः शिवाराधनतत्परः ।
प्रयच्छतु स मे कामं पत्युराज्ञापुरस्सरम् ॥ ८१ ॥
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ।
भक्तकालिप्रियो नित्यं मातृणां चाभिरक्षिता ॥ ८२ ॥
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेन्द्रन्द्रेयमादीनां देवानामंगतक्षकः ॥ ८३ ॥
शिवास्यानुचरः श्रीमान् शिवशासन पालकः ।
शिवयो शासनादेव स मे दिशतु कांक्षितम् ॥ ८४ ॥
विष्णोर्वक्षः स्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयो शासनादेव स मे दिशतु कांक्षितम् ॥ ८५ ॥
महामोदी महादेव्याः पादपूजापरायणा ।
तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ॥ ८६ ॥
कौशिकी सिंहमारूढ़ा पार्वत्याः परमा सुता ।
विष्णोर्निद्रा महामाया महामहिषमर्दिनी ॥ ८७ ॥
निशुम्भशुम्भसंहत्री मधुमांसासवप्रिया ।
सत्कृत्य शासनं मातुः सा मे दिशतु कांक्षितम् ॥ ८८ ॥
रुद्रा रुद्रसमप्रख्याः प्रमथाः प्रमथितौजसः ।
भृतसख्या महावीर्या महादेवसमप्रभाः ॥ ८९ ॥
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपपल्लवाः ।
सशक्तयः सानुचरा सर्वलोकनमस्कृताः ॥ ९० ॥
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमा ।
परस्परानुरक्तश्च परस्परमनुव्रता ॥ ९१ ॥
परस्परमतिस्रग्धाः परस्परनमस्कृताः ।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ॥ ९२ ॥
सौम्या घोरस्तथा मिश्राश्चान्तरालद्वयात्मिका ।
विरूपाश्च सुरूपाश्च नानारूप धरास्तथा ॥ ९३ ॥
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै ।
देव्याः प्रियसखीवर्गो देवीलक्षणलक्षितः ॥ ९४ ॥
सहितो रुद्रकन्याभि शक्तिभिश्चाप्यनेकशः ।
तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः ॥ ९५ ॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकरो महेशस्य मूर्तिर्दीप्तसुमण्डलः ॥ ९६ ॥
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मकश्चद्यः एकः सामान्यविक्रियः ॥ ९७ ॥
असाधारणकर्मा च सृष्टिस्थिति लयक्रमात् ।
एवं त्रिधा चतुर्द्धा च विभक्तः पञ्चधा पुनः ॥ ९८ ॥
चतुर्थावरणो शम्भोः पुजितश्चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ ९९ ॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
दिवाकर षड्ङ्गानि दीप्ताद्याश्चाष्टशक्तयः ॥ १०० ॥
आदित्यो भास्करो भानू रिवश्चेत्य नुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चादित्यमूर्तयः ॥ १०१ ॥
विस्तरा सुतरा बोधिन्याप्यान्यपराः पुनः ।
उषा प्रभा तथा प्राज्ञा सन्ध्या चेत्यपि शक्तयः ॥ १०२ ॥
सोमादिकेतु पर्यन्ता ग्रहाश्च शिवभाविताः ।
शिवयोराज्ञया नूना मङ्गलं प्रदिशन्तु मे ॥ १०३ ॥
अथ वा द्वादशादित्या स्तथा द्वादश शक्तयः ।
ऋषयो देवगन्धर्वा पन्नगाप्सरा गणाः ॥ १०४ ॥
ग्रामण्यश्च तथा यक्षाः राक्षसाश्च सुरास्तथा ।
सप्त सप्तगणाश्चैते सप्तछन्दोमया हयाः ॥ १०५ ॥
वालखिल्यादयश्चैव सर्वे शिवपदार्चकाः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ॥ १०६ ॥
ब्रह्माथ देवदेवस्य मूर्तिभूमण्डलाधिपः ।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ॥ १०७ ॥
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मको देवस्ततः साधारणः पुरः ॥ १०८ ॥
असाधरणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्द्धा च विभक्तः पञ्चधा पुनः ॥ १०९ ॥
चतुर्थावरणे शम्भोः पूजितश्च महानुगैः ।
शिवप्रियः शिवसक्तः शिवपादार्चने रतः ॥ ११० ॥
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलम् ।
हिरण्यगर्भो लोकेशो विराटेश्वर सनातनः ॥ १११ ॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ॥ ११२ ॥
एकादश सपत्निका धर्मः सङ्कल्प एव च ।
शिवार्चनरताश्चैते शिवभक्ति परायणाः ॥ ११३ ॥
शिवाज्ञावशगाः सर्वे दिशन्तु मम मङ्गलम् ।
चत्वारश्च तथा वेदाः सेतिहासपुराणकाः ॥ ११४ ॥
धर्मशास्त्राणि विद्याभिर्वैदिकीभिः समन्विताः ।
परस्पराविरुद्धर्था शिवप्रकृतिपादकाः ॥ ११५ ॥
सत्कृत्य शिवयोराज्ञां मङ्गलम् प्रदिशन्तु मे ।
अथ रुद्रो महादेव शम्भोर्मूर्तिर्गरीयसी ॥ ११६ ॥
वाह्नेयमण्डलाधीशः : पौरुषैश्वर्यवान् प्रभुः ।
शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः ॥ ११७ ॥
केवलं सात्त्विकाश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वं ततस्तु समविक्रयः ॥ ११८ ॥
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
ब्रह्मणोऽपि शिरश्छेत्ता जनकस्तस्य तत्सुतः ॥ ११९ ॥
जनकस्तनयश्चापि विष्णोरपि नियामकः ।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ॥ १२० ॥
अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ॥ १२१ ॥
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ।
तस्य ब्रह्म षडङ्गानि विद्येशानां तथाष्टकम् ॥ १२२ ॥
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव मृडश्चैव तथापरः ।
शिवस्याज्ञां पुरस्कृत्य मङ्गलं प्रदिशन्तु मे ॥ १२३ ॥
अथ विष्णुर्म महेशस्य शिवस्यैव परा तनुः ।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ॥ १२४ ॥
निर्गुणः सत्त्वबहुलस्थैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारण विक्रयः ॥ १२५ ॥
असाधारणकर्मा च सृष्ट्याकिरणात्पृथक् ।
दक्षिणाङ्गभवेनापि स्पर्धमानः स्वयम्भुवाः ॥ १२६ ॥
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ।
अण्डस्यान्तर्बहिर्वती विष्णुर्लोकद्वयाधिपः ॥ १२७ ॥
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भुश्च दशधा भृगशापच्छलादिह ॥ १२८ ॥
भृभारनिग्रहार्थाय स्वेच्छयावतरत् क्षितौ ।
अप्रमेयबलौ मायी मायया मोहयंजगत् ॥ १२९ ॥
मूर्ति कृत्वा महाविष्णुं सदाविष्णुमथापि वा ।
वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ॥ १३० ॥
शिवप्रियः शिवासक्तः शिवापादार्चने रतः ।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मङ्गलम् ॥ १३१ ॥
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
सङ्कर्षणः समाख्याताश्चस्त्रो मूर्तयो हरे ॥ १३२ ॥
मत्स्यः कूर्मो वाराहश्च नारसिंहोऽथ वामनः ।
रामत्रयं तथा कृष्णोः विष्णुस्तुरगवत्रकः ॥ १३३ ॥
चक्रं नारायणस्यास्त्रं पाञ्चजन्यं च श्राङ्गकम् ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशतु मे ॥ १३४ ॥
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेव मङ्गलं प्रदिशन्तु मे ॥ १३५ ॥
इन्द्रोऽग्निश्च यमश्चैव निर्ऋतिर्वरुणस्तथा ।
वायुः सोमः कुबेरस्य तथेशानस्त्रिशूलधृक् ॥ १३६ ॥
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ।
सत्कृत्य शिवयोराज्ञां मङ्गलं प्रदिशन्तु मे ॥ १३७ ॥
त्रिशूलमथ वज्रं च तथा परशुसायकौ ।
खड्गपाशाङ्कुशाश्चैव पिनाकश्चायुधोत्तमः ॥ १३८ ॥
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ॥ १३९ ॥
वृषभ रूप धरो देवः सौरभेयो महाबलः ।
वडवाख्यानलस्पर्द्धी पञ्चगोमातृभिर्वृतः ॥ १४० ॥
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ॥ १४१ ॥
नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा ।
पञ्च गोमातरस्वेताः शिवलोके व्यवस्थिताः ॥ १४२ ॥
शिवभक्ति परा नित्यं शिवार्चनपरायणाः ।
शिवयोः शासनादेव दिशन्तु मम वाञ्छितम् ॥ १४३ ॥
क्षेत्रपालो महातेजा नीलजीमूतसन्निभः ।
दंष्ट्राकराल वदनः स्फुरद्रतारधोज्ज्वलम् ॥ १४४ ॥
रक्तोर्ध्वमूर्द्धजः श्रीमान् भृकुटिकुटिलेक्षणः ।
रक्तवृत्त त्रिनयनः शशिपन्नगभूषणः ॥ १४५ ॥
नग्नस्त्रिशूल पाशासि कपालोद्यत पाणिकः ।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ॥ १४६ ॥
क्षेत्रे क्षेत्रसमासीनः स्थितो यो रक्षकः सताम् ।
शिवप्रणामपरमः शिव सद्भाव भावितः ॥ १४७ ॥
शिवाश्रितान् विशेषेण रक्षन् पुत्रानिवौरसान् ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मङ्गलं ॥ १४८ ॥
तालजंघादयस्तस्य प्रथमावरणेऽर्चिताः ।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तुमाम् ॥ १४९ ॥
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ।
तेऽपि मामनुगृह्णन्तु शिवशासन गौरवात् ॥ १५० ॥
नारदाद्यश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या नागाश्च ये देवा जनलोकनिवासिनः ॥ १५१ ॥
विनिर्वृत्ताधिकारश्च महर्लोकनिवासिनः ।
सप्तर्षयस्तथान्ये वै वैमानिकगणैः सह ॥ १५२ ॥
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ।
शिवयोराज्ञया मह्यं दिशन्तु समकांक्षितम् ॥ १५३ ॥
गन्धर्वाद्या पिशाचान्ताश्चतस्त्रो देवयोनयः ।
सिद्धा विद्याधराद्यश्च येऽपि चान्ये नभश्चराः ॥ १५४ ॥
असुरा राक्षसाश्चैव पाताल तलवासिनः ।
अनन्ताद्यश्च नागेन्द्रा वैनतेयादयो द्विजा ॥ १५५ ॥
कूष्माण्डाः प्रेत वेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ॥ १५६ ॥
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ॥ १५७ ॥
गिरयश्च सुमेर्वाद्याः काननानि समन्ततः ।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ॥ १५८ ॥
भुवनान्यपि सर्वाणि भुवनानामधीश्वराः ।
अण्डान्यावरणैः सार्द्धं मासाश्च दश दिग्गजा ॥ १५९ ॥
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्माण्डधारका रुद्रारुक्ताश्चान्ये सशक्तिकाः ॥ १६० ॥
यच्च किञ्चिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ।
सर्वे कामं प्रयच्छतु शिवयोरेव शासनात् ॥ १६१ ॥
अथ विद्या परा शैवी पशुपाशविमोचिनी ।
पञ्चार्थसंहिता दिप्या पशुविद्याबहिष्कृता ॥ १६२ ॥
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ।
शैवाख्यं शिवधार्माख्यं पुराणं श्रुतिसम्मतम् ॥ १६३ ॥
शैवाऽगमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ।
शिवाभ्यामविशरेषेण उत्कृत्येह समर्चिताः ॥ १६४ ॥
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६५ ॥
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ।
तत्संततीया गुरुवो विशेषाद् गुरवो मम ॥ १६६ ॥
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ।
कर्मेर्दमेमनुमन्यन्तां सफलं साध्वनुष्ठितम् ॥ १६७ ॥
लौकिका ब्राह्मणाः सर्वे क्षत्रियाश्चविशःक्रमात् ।
वेदवेदाङ्गतत्त्वाज्ञाः सर्वशास्त्रविशारदाः ॥ १६८ ॥
सांख्या वैशेषिकाश्चैव यौगी नैयायिका नराः ।
सौरा ब्राह्मास्तथा रौक्ता वैष्णवाश्चपरे नराः ॥ १६९ ॥
शिष्टाः सर्वे विशिष्टाश्च शिवशासन यन्त्रिताः ।
कर्मेर्दमेमनुमन्यन्तां ममभिप्रेतसाधकम् ॥ १७० ॥
शैवाः सिद्धान्तमार्गस्थाः शैवाः पशुपतास्तथा ।
शैवाः महाव्रतधरा शैवाः कापालिकाः परे ॥ १७१ ॥
शिवाऽज्ञापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे मामनुगृह्णन्तु शंसन्तु सफलक्रियाम् ॥ १७२ ॥
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तर मार्गगाः ।
अविरोधेन वर्तन्ता मन्त्रं श्रेयोऽर्थिनो मम ॥ १७३ ॥
नास्तिकाश्च शठाश्चैव कृतमश्चैव तामसाः ।
पाषण्डाश्चातिपापाश्च वर्तन्ता दूरतो मम ॥ १७४ ॥
बहुभिः किं स्तुतैरत्र येऽपि केऽपि चिदास्तिकाः ।
सर्वे मानुगृहणन्तु सन्तः शंसन्तु मङ्गलम् ॥ १७५ ॥
नमः शिवाय साम्बाय ससुतायादि हेतवे ।
पञ्चावरणरूपेण प्रपञ्चेनावृताय ते ॥ १७६ ॥
इत्युक्त्वा दण्डवद्भूमौ प्रणिपत्य शिवं शिवाम् ।
जपेत्पञ्चाक्षरसीं विषमष्टोत्तर शतावराम् ॥ १७७ ॥
तथैव शक्ति विद्यां च जपित्वा तत्समर्पणम् ।
कूत्वा तं क्षमयित्वेशं पूजा शेषं समापयेत् ॥ १७८ ॥
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ।
सर्वाभीष्टप्रदं साक्षाद् भक्तिमुक्तयेकसाधनम् ॥ १७९ ॥
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ॥ १८० ॥
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागतघाती च मित्रविश्रम्भ घातकः ॥ १८१ ॥
दुष्टपापसमाचारो मातृहा पितृहापि वा ।
स्तवेनानेन जप्तेन तत्तत्यापात् प्रमुच्यते ॥ १८२ ॥
दुःस्वप्नादि महाऽनर्थ सूचकेषु भयेषु च ।
यदि संकीर्तयेदेतन्न ततोऽनर्थभाग्भवेत् ॥ १८३ ॥
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वाञ्क्षितम् ।
स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ॥ १८४ ॥
असम्पूज्य शिवं स्तोत्र जपात्फल मुदाहृतम् ।
सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ॥ १८५ ॥
आस्तामियं फलावाप्तिरस्मिन् संकीर्तिते सति ।
सार्धमम्बिकया देवः श्रुत्वैव दिवि तिष्ठति ॥ १८६ ॥
तस्मान्नभसि सम्पूज्य देवदेवं सहोमया ।
कृताञ्जलिपुटस्तिष्ठन् स्तोत्रमेतदुदीरयेत् ॥ १८७ ॥

॥ इति शिव पञ्चावरण देवानां स्तुतिम् ॥

 

 

 

 

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.