May 21, 2019 | Leave a comment ॥ श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ विनियोगः- “ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषिः, अनुष्टुप्-छन्दः, श्रीकृष्णो देवता, श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ॥” ॥ पूर्व-पीठिका ॥ ॥ श्रीशेष उवाच ॥ वसुंधरे वरारोहे जनानामस्ति मुक्तिदम् ॥ 1 ॥ सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ 2 ॥ समस्तजपयज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ 3 ॥ महस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ 4 ॥ तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् । नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ 5 ॥ छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः । ॥ मूल-पाठ ॥ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ 6 ॥ वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः । श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥ 7 ॥ चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः । देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ 8 ॥ यमुनावेगसंहारी बलभद्रप्रियानुजः । पूतनाजीवितहरः शकटासुरभञ्जनः ॥ 9 ॥ नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः । नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ 10 ॥ नवनीतलवाहारी (नवनीतनवाहारो) मुचुकुन्द-प्रसादकृत् (प्रसादकः) । षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ 11 ॥ शुकवागमृताब्धीन्दुर्गोविन्दो गोविदां (योगिनां) पतिः । वत्सपालनसंचारी (वत्सवाटचरोऽनन्तो) धेनुकासुर-मर्द्दनः (-भञ्जनः) ॥ 12 ॥ तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥ 13 ॥ गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥ 14 ॥ वनमाली पीतवासाः पारिजातापहरकः । गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ 15 ॥ अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारका-नाथको(नायको) बली ॥ 16 ॥ वृन्दावनान्तसंचारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥ 17 ॥ कुब्जा-कृष्टांबर(कृष्णाम्बर)-धरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ 18 ॥ संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ 19 ॥ शिशुपालशिरस्छेत्ता दुर्योधन-कुलान्तकृत (कुलान्तकः)। विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ 20 ॥ सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ 21 ॥ जगद्गुरुर्जगन्नाथो वेणुवाद्य (वेणुनाद) विशारदः । वृषभासुरविध्वंसी बाणासुरकरान्तकः(बकारिर्बाणबाहुकृत्) ॥ 22 ॥ युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ 23 ॥ कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः । दामोदरो यज्ञभोक्ता दानवैन्द्र-विनाशनः ॥ 24 ॥ नारायणः परं ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तो गोपीवस्त्रापहारकः ॥ 25 ॥ पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः । सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ 26 ॥ ॥ फल-श्रुति ॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ 27 ॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् । कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ 28 ॥ अत्युपद्रवदुःखघ्नं परमायुष्य वर्द्धनम् । दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ 29 ॥ पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगती नां गतिप्रदम् ॥ 30 ॥ धनवाहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ 31 ॥ बालरोगग्रहादीनां शमनं शान्तिकारकम् । अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ 32 ॥ असिद्धसाधकं भद्रे जपादिकरमात्मनाम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ 33 ॥ नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने । इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥ 34 ॥ सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् । पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ 35 ॥ निषेव्य भोगानन्तेऽपिकृष्णासायुज्यमाप्नुयात् । ॥ इति ब्रह्माण्डपुराणम्, मध्यभागः, अध्यायः ३६ श्लो॰ १६-५१ सम्पूर्णम् ॥ विशेषः- यह स्तोत्र कुछ ग्रन्थों में पद्म पुराण, उत्तरखण्ड का बतलाया गया है तथा कुछ में नारद-पाञ्चरात्र का Related