August 24, 2019 | Leave a comment ॥ श्रीकृष्णसहस्रनामस्तोत्र ॥ श्रीमद्रुक्मिमहीपालवंशरक्षामणिः स्थिरः । राजा हरिहरः क्षोणीं रक्षत्यम्बुधिमेखलाम् ॥ १ ॥ स राजा सर्वतन्त्रज्ञः समभ्यर्च्य वरप्रदम् । देवं श्रियः पतिं स्तुत्या समस्तौद्वेदवेदितम् ॥ २ ॥ तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपांगनावृतः । स पिंछश्यामलं रूपं पिंछोत्तंसमदर्शयत् ॥ ३ ॥ स पुनः स्वात्मविन्यस्तचित्तं हरिहरं नृपम् । अभिषिच्य कृपावर्षैरभाषत कृतांजलिम् ॥ ४ ॥ ॥ श्रीभगवानुवाच ॥ मामवेहि महाभाग कृष्णं कृत्यविदां वर । पुरःस्थितोऽस्मि त्वद्भक्त्या पूर्णास्सन्तु मनोरथाः ॥ ५ ॥ संरक्षणाय शिष्टानां दुष्टानां शिक्षणाय च । समृद्ध्यै वेदधर्माणां ममांशत्वमिहोदितः ॥ ६ ॥ राजन्नामसहस्रेण रामो नाम्नां स्तुतस्त्वया । सोऽहं सर्वविदो तस्मात्प्रसन्नोऽस्मि विशेषतः ॥ ७ ॥ मामपि त्वं महाभाग मदीयचरितात्मना । सम्प्रीणय सहस्रेण नाम्नां सर्वार्थदायिनाम् ॥ ८ ॥ पराशरेण मुनिना व्यासेनाम्नायर्दशिना । स्वात्मभाजा शुकेनापि सूक्तेऽप्येतद्विभावितम् ॥ ९ ॥ तं हि त्वमनुसन्धेहि सहस्रशिरसं प्रभुम् । दत्तान्येषु मया न्यस्तं सहस्रं रक्षयिष्यति ॥ १० ॥ इदं विश्वहितार्थाय रसनारंगगोचरम् । प्रकाशय त्वं मेदिन्यां परमागमसम्मतम् ॥ ११ ॥ इदं शठाय मूर्खाय नास्तिकाय विकीर्णिने । असूयिनेऽहितायापि न प्रकाश्यं कदाचन ॥ १२ ॥ विवेकिने विशुद्धाय वेदमार्गानुसारिणे । आस्तिकायात्मनिष्ठाय स्वात्मन्यनुसृतोदयम् ॥ १३ ॥ कृष्णनामसहस्रं वै कृतधीरेतदीरयेत् । विनियोगः – ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ ऋषियादिन्यासः – पराशराय ऋषये नमः इति शिरसि, अनुष्टुप् छन्दसे नमः इति मुखे, गोपालकृष्णदेवतायै नमः इति हृदये, श्रीकृष्णाय बीजाय नमः इति गुह्ये, श्रीवल्लभाय शक्त्यै नमः इति पादयोः, शार्ङ्गधराय कीलकाय नमः इति सर्वांगे ॥ करन्यासः – श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अंगुष्ठाभ्यां नमः । शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः । कृतात्मविद्याविन्यासेत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः, वृंदावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यानामिकाभ्यां नमः, रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः, ॥ ध्यानम् ॥ केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् । केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १ ॥ क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले । कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २ ॥ फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं गोविन्दं कलवेणुवादनरतं दिव्यांगभूषं भजे ॥ ३ ॥ ॥ मूल-पाठ ॥ कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥ भक्तिगम्यः त्रईमूर्तिर्भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ २ ॥ सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥ शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥ वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥ रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥ शूरवंशैकधीश्शौरिः कंसशंकाविषादकृत् । वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥ वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः । आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥ स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः । प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥ शंखचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥ पीतवासा घनश्यामः कुंचितांचितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥ कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥ निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥ महर्षिमानसोल्लासो महीमंगलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥ जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥ स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः । शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६ ॥ यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥ दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥ सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः । अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥ स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥ नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यंकनिद्रालुर्मुखार्पितपदांगुलिः ॥ २१ ॥ अंजनस्निग्धनयनः पर्यायांकुरितस्मितः । लीलाक्षस्तरलालोकश्शकटासुरभंजनः ॥ २२ ॥ द्विजोदितस्वस्त्ययनो मंत्रपूतजलाप्लुतः । यशोदोत्संगपर्यंको यशोदामुखवीक्षकः ॥ २३ ॥ यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥ प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः । व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ २५ ॥ स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पंकानुलेपरुचिरो मांसलोरूकटीतटः ॥ २६ ॥ घृष्टजानुकरद्वंद्वः प्रतिबिम्बानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्ग्मः ॥ २७ ॥ धात्रीकरसमालम्बी प्रस्खलच्चित्रचंक्रमः । अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥ वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥ अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥ पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥ भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥ बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः । कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥ मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥ सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥ मृषाकोपप्रकम्पोष्ठो गोष्ठांगणविलोकनः । दधिमन्थघटीभेत्ता किकिंणीक्वणसूचितः ॥ ३६ ॥ हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः । जननीश्रमविज्ञाता दामबन्धनियंत्रितः ॥ ३७ ॥ दामाकल्पश्चलापांगो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥। ३८ ॥ नारदोक्तिपरामर्शी यमलार्जुनभंजनः । धनदात्मजसंघुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥ बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः । आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥ प्रस्थानशकटारूढो वृन्दावनकृतालयः । गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥ क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः । वृषवत्सानुकरणो वृषध्वनिविडम्बनः ॥ ४२ ॥ नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः । उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ ४३ ॥ भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः । बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥ भीतगोपार्भकाहूतो बकचंचुविदारणः । बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥ बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः । क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽद्भुतः ॥ ४६ ॥ कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः । सुमनोऽलंकृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥ गुंजाप्रालम्बनच्छन्नः पिंछैरलकवेषकृत् । वन्याशनप्रियः शृंगरवाकारितवत्सकः ॥ ४८ ॥ मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः । मंजुशिंजितमंजीरचरणः करकंकणः ॥ ४९ ॥ अन्योन्यशासनः कीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥ ५० ॥ अघदानवसंहर्ता व्रजविघ्नविनाशनः । व्रजसंजीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५१ ॥ कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥ भुजसन्ध्यन्तरन्यस्तशृंगवेत्रः शुचिस्मितः । वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ ५३ ॥ अंगुल्यन्तरविन्यस्तफलः परमपावनः । अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥ अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः । गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ ५५ ॥ स्वसंकल्पानुरूपार्थो वत्सवत्सपरूपधृक् । यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥ यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी । चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥ विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः । ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ ५८ ॥ ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः । निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥ प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् । अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ ६० ॥ व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः । छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ ६१ ॥ अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः । सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ ६२ ॥ महाप्रभावनः पूर्ववत्सवत्सपदर्शकः । कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥ स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः । ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥ बलभद्रैकहृदयो नामाकारितगोकुलः । गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥ वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः । गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६ ॥ गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणरंजनः ॥ ६७ ॥ तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥ गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः । प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥ विलासललितस्मेरगर्भलीलावलोकनः । स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७० ॥ वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः । यमुनातटसंचारी विषार्तव्रजहर्षदः ॥ ७१ ॥ कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारंगनटः कालियमर्दनः ॥ ७२ ॥ नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् । अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः ॥ ७३ ॥ सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः । अकुंठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥ अनिर्देश्यगतिर्नागवनितापतिभैक्षदः । स्वांघ्रिमुद्रांकनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥ अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः । अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥ नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः । बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥ ७७ ॥ दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ ७८ ॥ काकपक्षधरस्सौम्यो बलवाहककेलिमान् । बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥ मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥ सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालांको गोपिकावृतः ॥ ८१ ॥ गोपीमनोहरापांगो वेणुवादनतत्परः । विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥ बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः । व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ ८३ ॥ गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः । गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥ रागपल्लवितस्थाणुर्गीतानमितपादपः । विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥ व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः । गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः ॥ ८६ ॥ निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ ८७ ॥ प्रसन्नः परमानन्दश्चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुंकुममुद्रितः ॥ ८८ ॥ गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत् । स्कन्धारोपितगोपस्रग्वासाः कुन्दनिभस्मितः ॥ ८९ ॥ गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः । गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥ गोप्यंजलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्गोपीकृतांजलिरघापहः ॥ ९१ ॥ गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः । गोपस्त्रीईवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥ वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता । यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३ ॥ मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ ९४ ॥ प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥ पितृप्रोक्तक्रियारूपशक्रयागनिवारणः । शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६ ॥ गोवर्धनधरो गोपगोवृन्दत्राणतत्परः । गोवर्धनगिरिछत्रचंडदंडभुजार्गलः ॥ ९७ ॥ सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा । भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥ स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः । सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ ९९ ॥ कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः । धरांघ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥ ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः । ऐरावतकरानीतवियद्गंगाप्लुतो विभुः ॥ १०१ ॥ ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः । सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥ वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः । वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥ स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः । ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥ शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः । भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥ गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः । गोपिकामानहरणो गोपिकाशतयूथपः ॥ १०६ ॥ वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः । गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥ स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः । वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥ गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः । रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥ गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः । विद्याधरेन्दुशापघ्नश्शंखचूडशिरोहरः ॥ ११० ॥ शंखचूडशिरोरत्नसम्प्रीणितबलोऽनघः । अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥ सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः । संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥ अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः । प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥ सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः । पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥ मधुराजनसंवीक्ष्यो रजकप्रतिघातकः । विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥ कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः । कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥ धीरः कुवलयापीडमर्दनः कंसभीतिकृत् । दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित् ॥ ११७ ॥ चाणूरहन्ता कंसारिर्देवकीहर्षदायकः । वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥ उर्वीभयापहो भूप उग्रसेनाधिपत्यदः । आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥ ११९ ॥ आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः । सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥ १२० ॥ गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः । हतपंचजनप्राप्तपांचजन्यो यमार्चितः ॥ १२१ ॥ धर्मराजजयानीतगुरुपुत्र उरुक्रमः । गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः ॥ १२२ ॥ जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसंचरः । गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥ चक्राद्यायुधसंशोभी जरासन्धमदापहः । सृगालावनिपालघ्नस्सृगालात्मजराज्यदः ॥ १२४ ॥ विध्वस्तकालयवनो मुचुकुन्दवरप्रदः । आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥ द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः । रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥ अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः । अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥ बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् । धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥ षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् । शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शंम्भुसंस्तुतः ॥ १२९ ॥ इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः । हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ १३० ॥ आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् । इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥ १३१ ॥ तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः । अज्ञातपारो वश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥ आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः । बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥ अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः । जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः ॥ १३४ ॥ प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः । जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥ सत्यभामाप्रियः कामश्शतधन्वशिरोहरः । कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥ कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः । माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥ सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः । लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥ सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित्। हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥ नरकासुरविच्छेत्ता नरकात्मजराज्यदः। पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ १४० ॥ गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् । कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥ प्रपन्नपालनो माली महद् ब्रह्मविवर्धनः । वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥ १४२ ॥ स्वयंप्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः । नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥ कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः । अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥ षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः । क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥ शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः । अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेतनः ॥ १४६ ॥ पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः । यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः ॥ १४७ ॥ ब्रह्मबोधः परानन्दः पारिजातापहारकः । पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥ कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः । कंसविध्वंसनस्साम्बजनको डिंम्भकार्दनः ॥ १४९ ॥ मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः । रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥ सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः । आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥ विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः । पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥ कैलासयात्रासुमुखो बदर्याश्रमभूषणः । घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥ १५३ ॥ मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः । तपश्चर्यापरश्चीरवासाः पिंगजटाधरः ॥ १५४ ॥ प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः । कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥ बलसंरम्भशमनो बलदर्शितपाण्डवः । यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥ सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः । खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः ॥ १५७ ॥ सुलभो राजसूयार्हयुधिष्ठिरनियोजकः । भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥ राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः । चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥ १५९ ॥ सर्वात्मार्थसमाहर्ता मन्दराचलधारकः । यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥ १६० ॥ बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः । दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥ सर्वावताराधिष्ठाता वेदबाह्यविमोहनः । कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥ अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः । द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥ नारायणो मधुपतिर्माधवो दोषवर्जितः । गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥ त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् । हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥ दामोदरश्चतुर्व्यूहः पांचालीमानरक्षणः । साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥ दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥ घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥ गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः । अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥ पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् । विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः ॥ १६९ ॥ सुयोधनतिरस्कर्ता दुर्योधनविकारवित् । विदुराभिष्ठुतो नित्यो वार्ष्णेयो मंगलात्मकः ॥ १७० ॥ पंचविंशतितत्वेशश्चतुर्विंशतिदेहभाक् । सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥ १७१ ॥ अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः । मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥ १७२ ॥ उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः । ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ १७३ ॥ वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् । स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः ॥ १७४ ॥ धृतराष्ट्रगतोदृष्टिप्रदः कर्णविभेदनः । प्रतोदधृग्विश्वरूपविस्मारितधनंजयः ॥ १७५ ॥ सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः । चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥ ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् । अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥ १७७ ॥ सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः । अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥ दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः । सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक् ॥ १७९ ॥ सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः । पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥ अंगुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् । कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥ अश्वत्थामवधायासत्रातपाण्डुसुतः कृती । इषीकास्त्रप्रशमनो द्रौणिरक्षाविचारणः ॥ १८२ ॥ पार्थापहारितद्रौणिचूडामणिरभंगुरः । धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥ भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः । गदाग्रजन्मा पांचालीप्रतिज्ञापरिपालकः ॥ १८४ ॥ गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः । प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः ॥ १८५ ॥ शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः । स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥ प्रसादपरमोदारो गांगेयसुगतिप्रदः । विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥ जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः । विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥ उत्तंकहर्षदात्मीयदिव्यरूपप्रदर्शकः । जनकावगतस्वोक्तभारतस्सर्वभावनः ॥ १८९ ॥ असोढयादवोद्रेको विहिताप्तादिपूजनः । समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९०॥ मुनिशापायुधः पद्मासनादित्रिदशार्थितः । वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः ॥ १९१॥ प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् । सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥ वेलाकाननसंचारी वेलानिलहृतश्रमः । कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः ॥ १९३ ॥ द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः । सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः ॥ १९४ ॥ पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः । विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥ १९५ ॥ स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् । जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥ देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः । स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥ १९७ ॥ ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः । प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥ व्याधेषुविद्धपूज्यांघ्रिर्निषादभयमोचनः । पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥ दारुकार्पितपार्थादिकरणीयोक्तिरीशिता । दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥ पुराणः परमेशानः पूर्णभूमा परिष्टुतः । पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥ श्रीपरमात्मा परात्परः ॐ नमः इति- ॥ फलश्रुतिः ॥ इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् । अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥ तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः । व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥ तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे । कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥ इदं पठति भक्त्या यः शृणोति च समाहितः । स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥ प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् । तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥ ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः । ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥ इदं नामसहस्रं यः पठत्येतच्छृणोति च । शिवलिंगसहस्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥ इदं किरीटी संजप्य जयी पाशुपतास्त्रभाक् । कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥ द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया । दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥ किमिदं बहुना शंसन्मानवो मोदनिर्भरः । ब्रह्मानन्दमवाप्यान्ते कृष्णसायूज्यमाप्नुयात् ॥ २११ ॥ ॥ इति श्रीविष्णुधर्मोत्तरपुराणे श्रीकृष्णसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥ Related