October 17, 2015 | Leave a comment श्रीदुर्गा-कर्पूर-स्तवम् ‘ऐं’ जपन्ति तव देवि ! ये मनुं भक्ति-नम्र-मनुजा विचक्षणाः। गद्य-पद्य-प्रभवः सुविलाशो भासते हि वचसा खलु तेषाम्।।१ ‘ह्रीं-ह्रीमि’त्येव मन्त्रं जपति यदि जनो भक्ति-नम्रो नितान्तम्, तद्-गेहे नैव लक्ष्मीस्त्यजति गिरि-सुते ! ते प्रसादात् कदापि। दासो-भूताश्च सर्वे भगवति ! मनुजाऽधीश्वरास्तस्य को वा, वक्तुं भूयात् समर्थः तव शिव-दयिते ! ह्रीं-मनोर्वै प्रभावम्।।२ ‘क्लीं-क्लीमि’त्येव बींज जपति यदि जनस्त्वत्-पदाम्भोज-भक्तो, मुक्तिस्तत्-पाणि-पद्मे वसति गिरि-सुते ! मे मतिर्जायते वै। बीजस्यास्यैव वक्तुं भगवति ! भगवान्नो समर्थः प्रभावम्, शेषोऽशेषं सहस्त्रैरनुदिनमिह वै वत्सरैशऽचापि वक्त्रैः।।३ ‘चा’-बीजं च चतुर्थमेव विमलं देवि ! त्वदीयं जनो, नित्यं त्वच्चरणारविन्द-युगलं ध्यानैक-निष्ठा-परः। प्रातः प्रातरिदं जपत्यनुदिनं जाम्बू-नदाभं शिवे, शम्भो तत्परमं पदं ब्रजति वै देहान्त-काले मुदा।।४ ‘मुं’ बीजं पञ्चमं ते यदि जपति जनो रक्त-वर्णं त्वदीयम्, ध्यात्वा हृत्-पद्म-मध्ये भगवति वरदे ! तस्य सिद्धिः करस्था। सेवन्ते सम्पदस्तं जलधिमिव सदा निम्नगास्त्वत्-प्रसादात्, वाणी तद्-वक्त्र-पद्मे विलसति सुतरां गद्य-पद्याभियुक्ता।।५ ‘डा’ – बीजमुग्रार्ति-हरं सुनीलं ध्येयं सदा शाक्त-वरैर्नरैर्यैः। जपन्ति षष्ठं तव शुभ्र-कान्ते ! विपक्ष-पक्ष-क्षय-सर्वं तेषाम्।।६ ‘यै’ – सप्तमं बीजमरिघ्नमीशे ! कृष्णं च जप्ते मनुजैस्त्वदीयम्। लभन्ति ते भुक्तिमिहैव मुक्तिं परं च तेऽनुग्रहतः सुरेशि ! ।।७ ‘वि’ – पाण्डुरं चाष्टम-संज्ञकं च बीजं च जप्त्वा दुरितापहं यैः। सुमेरु-तुल्योऽपि पातकानां राशिर्विनाशं किल याति तेषाम्।।८ ‘च्चे’ – बीजं धूम्र-वर्णं नवममिह शिवे ! जप्तमेकाग्र-चित्तै – र्भक्तैर्भक्त्या नितान्तं चरण-कमलयोस्ते च सिध्यन्ति तेषाम्। मातः ! कर्माणि सर्वाण्यपि बहु-दिवसैः प्रार्थितान्येव दुर्गे ! भुक्त्वा भोगान् समस्तान् जननि ! तव पदं यान्ति ते भक्ति-पूताः।।९ फल-श्रुति- इदमुत्थाय मनुजः प्रातः प्रातः पठेच्च यः। मुक्ति-स्त्री नृत्यते तस्य, करस्था नर्तकी यथा।। Related