October 16, 2015 | aspundir | Leave a comment श्री दुर्गा कवचम् (रुद्रयामलोक्त) पाठान्तर के साथ ।। श्रीदुर्गा-कवचेश्वरम् ।। ।। पूर्व-पीठिका – श्रीभैरव उवाच ।। अधुना देवि ! वक्ष्येऽहं कवचं मन्त्र-गर्भकम् । दुर्गायाः सार-सर्वस्वं कवचेश्वरसञ्ज्ञकम् ।।१ परमार्थ-प्रदं नित्यं महा-पातक-नाशनम् । योगि-प्रियं योगी-गम्यं देवानामपि दुर्लभम् ।।२ विना दानेन मन्त्रस्य सिद्धिर्देवि ! कलौ भवेत् । धारणादस्य देवेशि शिवस्त्रैलोक्य-नायकः ।।३ भैरवी भैरवेशानि विष्णुर्नारायणो बली । ब्रह्मा पार्वति ! लोकेशो विघ्न-ध्वंशी गजाननः।।४ सेनानीश्च महासेनो, जिष्णुर्लेखर्षभः प्रिये ! सूर्यस्तमोपहो लोके, श्चन्द्रोऽमृत-निधिस्तथा ।।५ बहुनोक्तेन किं देवि ! दुर्गाकवचधारणात् । मर्त्योऽप्यमरतां याति, साधको मन्त्र-साधकः ।।६ कवचस्यास्य देवशि ! ऋषिः प्रोक्तो महेश्वरः। छन्दोऽनुष्टुप् प्रिये ! दुर्गा देवताष्टाक्षरा स्मृता ।।७ चक्रि-वीजं च वीजं स्यान्मायाशक्तिरितीरिता । तारं कीलकमीशानि, दिग्बन्धो वर्णितोऽश्मरी ।। धर्मार्थ-काम-मोक्षार्थे, विनियोग इति स्मृतः ।।८ विनियोगः- ॐ अस्य श्रीदुर्गा-कवचेश्वरस्य श्रीमहेश्वर ऋषिः, अनुष्टुप् छन्दः, श्रीदुर्गा देवता, दुं वीजं, ह्रीं शक्तिः, ॐ कीलकं, चतुर्वर्ग-सिद्धये पाठे विनियोगः। ऋष्यादि-न्यासः- श्रीमहेश्वर ऋषिये नमः शिरसि, अनुष्टुप् छन्दसे नमः मुखे, श्रीदुर्गा देवतायै नमः हृदि, दुं वीजाय नमः गुह्ये, ह्रीं शक्तये नमः पादयो, ॐ कीलकाय नमः नाभौ, चतुर्वर्ग-सिद्धये पाठे विनियोगाय नमः सर्वांगे। षडङ्ग-न्यास – कर-न्यास – अंग-न्यास – ॐ ह्रां अंगुष्ठाभ्यां नमः हृदयाय नमः ॐ ह्रीं तर्जनीभ्यां नमः शिरसे स्वाहा ॐ ह्रूं मध्यमाभ्यां नमः शिखायै वषट् ॐ ह्रैं अनामिकाभ्यां हुम् कवचाय हुम् ॐ ह्रौं कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट् ॐ ह्रः करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट् ध्यानः- दूर्वा-निभां त्रि-नयनां विलसत्-किरीटाम्, शंखाब्ज-खड्ग-शर-खेटक-शूल-चापान् । सन्तर्जनीं च दधतीं महिषासनस्याम्, दुर्गा नवार-कुल-पीठं-गतां भजेऽहम् ।। मानस-पूजनः- ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-कनिष्ठांगुष्ठ-मुद्रा)। ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (अधोमुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ यं वायु-तत्त्वात्मकं धूपं श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-तर्जनी-अंगुष्ठ-मुद्रा)। ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-मध्यमा-अंगुष्ठ मुद्रा)। ॐ वं जल-तत्त्वात्मकं नैवेद्य श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-अनामिका-अंगुष्ठ मुद्रा)। ॐ शं सर्व-तत्त्वात्मकं ताम्बूलं श्रीदुर्गा-श्रीपादुकाभ्यां नमः अनुकल्पयामि (ऊर्ध्व-मुख-सर्वांगुलि-मुद्रा)। ।। कवच-पाठ ।। ॐ मे पातु शिरो दुर्गा, ह्रीं मे पातु ललाटकम् । दुँ नेत्रेऽष्टाक्षरा पातु, चक्री पातु श्रुती मम ।।१ मुखं गण्डौ च मे पातु, देवेशि रक्त-कुण्डला । वायुर्नासां सदा पातु, रक्त-बीज-निषूदिनी ।।२ लवणं पातु मे चोष्ठौ, चामुण्डा चण्ड-घातिनी । भेकी बीजं सदा पातु, दन्तान्मे रक्तदन्तिका ।।३ ॐ ह्रीं श्री पातु मे कण्ठं, नील-कण्ठांक-वासिनी । ॐ ऐं क्लीं पातु मे स्कन्धौ, स्कन्द-माता- महेश्वरी ।।४ ॐ सौः क्लीं मे पातु बाहू, देवेशी बगलामुखी । ऐं श्रीं ह्रीं पातु मे हस्तौ, शिवा-शत=निनादिनी ।।५ सौः ऐं ह्रीं पातु मे वक्षो, देवता विन्ध्यवासिनी । ॐ ह्रीं श्रीं क्लीं पातु कुक्षिं, मम मातंगिनी परा ।।६ श्रीं ह्रीं ऐं पातु मे पार्श्वौ, हिमाचलनिवासिनी । ॐ स्त्रीं ह्रूँ ऐं पातु पृष्ठं, मम दुर्गति-नाशिनी ।।७ ॐ क्रीं ह्रूँ पातु मे नाभिं, देवी नारायणी सदा । ॐ ऐं क्लीं सौः सदा पातु, कटिं कात्यायनी मम ।।८ ॐ ह्रीं श्रीं पातु शिश्नं मे, देवी श्रीबगलामुखी । ऐं सौः क्लीं सौः पातु गुह्यं, गुह्यकेश्वर-पूजिता ।।९ ॐ ह्रीं ऐं श्रीं ह्सौः पायादूरु मम मनोन्मना । ॐ जूं सः सौः पातु जानू, जगदीश्वर-पूजिता ।।१० ॐ ऐं क्लीं पातु मे जंघे, मेरु-पर्वत-वासिनी । ॐ ह्रीं श्रीं गीं सदा पातु, गुल्फौ मम गणेश्वरी ।।११ ॐ ह्रीं दुँ पातु मे पादौ, पार्वती षोडशाक्षरी । पूर्वे मां पातु ब्रह्माणी, वह्नौ च वैष्णवी तथा ।।१२ दक्षिणे चण्डिका पातु, नैर्ऋत्ये नारसिंहिका । पश्चिमे पातु वाराही, वायव्ये अपराजिता ।।१३ उत्तरे पातु कौमारी, चैशान्यां शाम्भवी तथा । ऊर्ध्व दुर्गा सदा पातु, पात्वधस्ताच्छिवा सदा ।।१४ प्रभाते त्रिपुरा पातु, निशीथे छिन्न-मस्तका । निशान्ते भैरवी पातु सर्वदा भद्र-कालिका ।।१५ अग्नेरम्बा च मां पातु, जलान्मां जगदम्बिका । वायोर्मां पातु वाग्देवी, वनाद् वनज-लोचना ।।१६ सिंहात् सिंहासना पातु, सर्पात् सर्पान्तकासना । रोगान्मां राज-मातंगी, भूताद् भूतेश-वल्लभा ।।१७ यक्षेभ्यो यक्षिणी पातु, रक्षोभ्यो राक्षसान्तका । भूत-प्रेत-पिशाचेभ्यः, सुमुखी पातु मां सदा ।।१८ सर्वत्र सर्वदा पातु, ॐ ह्रीं दुर्गा नवाक्षरा । इत्येदं कवचं गुह्यं, दुर्गा सर्वस्वमुत्तमम् ।।१९ ।। फल-श्रुति ।। मन्त्रगर्भ महेशानि ! कवचेश्वर-संज्ञकम् । वित्तदं पुण्यदं पुण्यं, वर्म सिद्धि-प्रदं कलौ ।।१ वर्म सिद्धि-प्रदं गोप्यं, परापर-रहस्यकम् । श्रेयस्करं मनु-मयं, रोग-नाश-करं परम् ।।२ महा-पातक-कोटिघ्नं, मानदं च यशस्करम् । अश्व-मेध-सहस्त्रस्य, फलदं परमार्थदम् ।।३ अत्यन्त-गोप्यं देवेशि ! कवचं मन्त्र-सिद्धिदम् । पठनात् सिद्धिदं लोके, धारणान्मुक्तिदं शिवे ।।४ रवौ भूर्जे लिखेद् धीमान्, कृत्वा कर्माह्निकं प्रिये ! श्रीचक्राग्रेऽष्ट-गन्धेन, साधको मन्त्रसिद्धये ।।५ लिखित्वा धारयेद् बाहौ, गुटिकां पुण्य-वर्धिनीम् । किं किं साधयेल्लोके, गुटिका वर्मणोऽचिरात् ।।६ गुटिकां धारयेन्मूर्ध्नि, राजानं वशमानयेत् । धनार्थी धारयेत्कण्ठे, पुत्रार्थी कुक्षि-मण्डले ।।७ तामेवं धारयेन्मूर्ध्नि, लिखित्वा भूर्ज-पत्रके । श्वेत-सूत्रेण संवेष्टय- लाक्षया परि-वेष्टयेत् ।।८ सुवर्णेनाथ सम्वेष्टय, धारयेद् रक्त-रज्जुना । गुटिका कामदा देवि ! देवनामपि दुर्लभा ।।९ कवचस्यास्य गुटिकां, धृत्वा मुक्ति-प्रदायिनीम् । कवचस्यास्य देवेशि ! वर्णितुं नैव शक्यते ।।१० महिमा वै महादेवि ! जिह्वा-कोटि-शतैरपि । अदातव्यमिदं वर्म, मन्त्र-गर्भ रहस्यकम् ।।११ अवक्तव्यं महा-पुण्यं, सर्व-सारस्वत-प्रदम् । अदीक्षिताय नो दद्यात्, कुचैलाय दुरात्मने ।।१२ अन्य-शिष्याय दुष्टाय, निन्दकाय कुलार्थिनाम् । दीक्षिताय कुलीनाय, गुरु-भक्ति-रताय च ।।१३ शान्ताय कुल-सक्ताय, शान्ताय कुल-वासिने । इदं वर्म शिवे ! दद्यात्कुल-भागी भवेन्नरः ।।१४ इदं रहस्यं परमं, दुर्गा-कवच-मुत्तमम् । गुह्यं गोप्य-तमं गोप्यं, गोपनीयं स्व-योनि-वत् ।।१५ ।।इति रुद्रयामल तन्त्रे, पटल ४८ श्रीदेवीरहस्ये दुर्गाकवचं।। Please follow and like us: Related Discover more from Vadicjagat Subscribe to get the latest posts sent to your email. Type your email… Subscribe