।। अथ श्रीपञ्चमुखी-हनुमत्कवचम् ।।

विनियोगः- ॐ अस्य श्रीपञ्चमुख-हनुमन्-कवच-स्तोत्र-मंत्रस्य श्रीरामचन्द्र ऋषिः, अनुष्टुप छंदः, पञ्च-मुख-वीर-हनुमान् देवता, हनुमानिति बीजम्, वायु-पुत्र इति शक्तिः, अञ्जनीसुत इति कीलकम्, श्रीराम-दूत-हनुमत्-प्रसाद-सिद्धयर्थे जपे विनियोगः ।hanuman
ऋष्यादि-न्यासः- श्रीरामचन्द्र ऋषये नमः शिरसि, अनुष्टुप छंदसे नमः मुखे, पञ्च-मुख-वीर-हनुमान् देवतायै नमः हृदि, हनुमानिति बीजाय नमः गुह्ये, वायु-पुत्र इति शक्तये नमः पादयो, अञ्जनीसुत इति कीलकाय नमः नाभौ, श्रीराम-दूत-हनुमत्-प्रसाद-सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
कर-न्यासः- ॐ अञ्जनी-सुताय अङ्गुष्ठाभ्यां नमः, ॐ रुद्र-मूर्तये तर्जनीभ्यां नमः, ॐ वायु-पुत्राय मध्यमाभ्यां नमः, ॐ अग्नि-गर्भाय अनामिकाभ्यां नमः, ॐ राम-दूताय कनिष्ठिकाभ्यां नमः, ॐ पञ्च-मुख-हनुमते करतल-कर-पृष्ठाभ्यां नमः ।
हृदयादि-न्यासः- ॐ अञ्जनी-सुताय हृदयाय नमः, ॐ रुद्र-मूर्तये शिरसे स्वाहा, ॐ वायु-पुत्राय शिखायै वषट्, ॐ अग्नि-गर्भाय कवचाय हुम्, ॐ राम-दूताय नेत्र-त्रयाय विषट्, ॐ पञ्च-मुख-हनुमते अस्त्राय फट् ।
।। ध्यानम् ।।
वन्दे-वानर-नारसिंह-खग-राट्-क्रीडास्य-वक्त्रान्वितम्,
दिव्यालङ्करणं त्रि-पञ्च-नयनं देदीप्य-मानं रुचा ।
हस्ताब्जैरसि-खेट-पुस्तक-सुधा-कुम्भांकुशाद्रीन्-हलम्,
खट्वाङ्गं-फणि-भू-रुहं दश-भुजं सर्वारि-वीरापहम् ।।
मूल-मन्त्रः- ॐ श्रीराम-दूताय आञ्जनेयाय वायु-पुत्राय महा-बल-पराक्रमाय सीता-दुःख-निवारणाय लङ्क-दहन-कारणाय महा-बल-प्रचण्डाय फल्गुन-सखाय कोलाहल-सकल-ब्रह्माण्ड-विश्वरुपाय सप्त-समुद्र-नीरालङ्घनाय पिङ्ल-नयनाय अमित-विक्रमाय सूर्य-बिम्ब-फल-सेवनाय दुष्ट-निर्बहणाय दृष्टि-निरालङ्कृताय सञ्जीवनी-सञ्जीविता अङ्गद-लक्ष्मण-महाकपि-सैन्य-प्राणाय दश-कण्ठ-विध्वंसनाय रामेष्टाय फल्गुन-महा-सखाय सीता-सहित-राम-वर-प्रदाय षट्-प्रयोगाङ्ग-पञ्चमुखी-हनुमते नमः ।

दिग्-बन्धः- ॐ ह्रीं हरि-मर्कट-मर्कटाय वं वं वं वं वं वौषट् स्वाहा ।
ॐ ह्रीं हरि-मर्कट-मर्कटाय फं फं फं फं फं फट् स्वाहा ।
ॐ ह्रीं हरि-मर्कट-मर्कटाय खें खें खें खें खें मारणाय स्वाहा ।
ॐ ह्रीं हरि-मर्कट-मर्कटाय लुं लुं लुं लुं लुं आकर्षित-सकल-सम्पत्कराय स्वाहा ।
ॐ ह्रीं हरि-मर्कट-मर्कटाय धं धं धं धं धं शत्रु-स्तम्भनाय स्वाहा ।
ॐ ह्रीं हरि-मर्कट-मर्कटाय ठं ठं ठं ठं ठं कूर्म-मूर्तये पञ्च-मुख-वीर-हनुमते परयंत्र-परतंत्रोच्चाटनाय स्वाहा ।
ॐ ह्रीं कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं ळं क्षं स्वाहा ।

ॐ पूर्व-कपि-मुखाय पंच-मुख-हनुमते ठं ठं ठं ठं ठं सकल-शत्रु-संहारणाय स्वाहा ।।
ॐ दक्षिण-मुखाय पंच-मुख-हनुमते कराल-वदनाय नृसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकल-भूत-प्रेत-दमनाय स्वाहा ।।
ॐ पश्‍चिम-मुखाय वीर-गरुडाय पंच-मुख-हनुमते मं मं मं मं मं सकल-विष-हरणाय स्वाहा ।।
ॐ उत्तर-मुखाय आदि-वराहाय लं लं लं लं लं नृसिंहाय-नील-कंठ-मूर्तये पंच-मुख-हनुमते स्वाहा ।।
ॐ ऊर्ध्व-मुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्र-मूर्तये सकल-प्रयोजन-निर्वाहकाय स्वाहा ।।
ॐ अञ्जनी-सुताय वायु-पुत्राय महा-बलाय सीता-शोक-निवारणाय लक्ष्मण-प्राण-रक्षकाय दश-ग्रीव-पीडा-कराय श्रीरामचंद्र-पादुका-धराय महा-वीर्याय प्रमथनाय ब्रह्माण्ड-नाथाय कामदाय पञ्च-मुख-वीर-हनुमते स्वाहा ।।
भूत-प्रेत-पिशाच-ब्रह्म-राक्षस-शाकिनी-डाकिन्यन्तरिक्ष-ग्रह-पर-यंत्र-पर-तंत्रोच्चाटनाय स्वाहा ।। सकल-प्रयोजन-निर्वाहकाय पञ्च-मुख-वीर-हनुमते श्रीरामचन्द्र-वर-प्रदाय जं जं जं जं जं स्वाहा ।।
।। फल-श्रुति ।।
एकवारं जपेत् स्त्रोतं, सर्व-शत्रु-निवारणम् ।
द्वि-वारं तु पठेन्नित्यं, सर्व-रोग-निवारणम् ।।
त्रिवारं च पठेन्नित्यं, सर्वसम्पत्करं शुभम् ।
चतुर्वारं पठेन्नित्यं, सर्व-रोग-निवारणम् ।।
पञ्च-वारं पठेन्नित्यं, सर्व-लोक-वशङ्करम् ।
षड्वारं च पठेन्नित्यं, सर्व-देव-वशङ्करम् ।।
सप्त-वारं पठेन्नित्यं, सर्व-सौभाग्य-दायकम्।
अष्ट-वारं पठेन्नित्यमिष्ट-कामार्थ-सिद्धिदम् ।।
नव-वारं पठेन्नित्यं, राज्य-भोगं समाप्नुयात् ।
दश-वारं पठेन्नित्यं, त्रैलोक्य-ज्ञान-दर्शनम् ।।
रुद्रावृत्तीः पठेन्नित्यं, सर्व-सिद्धिर्भवेद् ध्रुवम् ।
कवच-स्मरणेनैव, महा-बलमवाप्नुयात् ।।
।। इति सुदर्शन-संहितायां श्रीरामचन्द्रसीताप्रोक्तं श्रीपञ्चमुखीहनुमत्कत्वचं सम्पूर्णम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.