October 27, 2015 | Leave a comment श्रीबगला-प्रातः-स्मरण प्रातः स्मरामि मधु-पूर्ण-सुधा-समुद्रम्, तन्मध्य-दिव्य-मणिद्वीप-मनोहरं च । कल्पाटवीममित-रत्न-विभूष-कोटम्, श्रीमण्डपं विशद-शोभि हृदि स्फुरन्तम् ।। १ प्रातर्नमामि मधु-सूदन-त्रीक्षणाब्जैः, नीराजितं ह्यति-नतैः मुकुट-प्रदीपैः । सौवर्ण-वर्णमतुलं तं पाद-पीठम्, देव्या निवेशित-सदंघ्रि-द्वयं ललामम् ।। २ प्रातर्भजामि भव-भूरि-भयापहां ताम्, पीताम्बरां कर-सु-मुद्गर-वैरि-जिह्वाम् । सु-स्तम्भिनीं सु-वदनां करूणार्द्र-चित्ताम्, सृष्ट्युत्पत्ति-स्थिति-नियामिनि ब्रह्म-विद्याम् ।। ३ Related