August 7, 2019 | Leave a comment ॥ श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ कैलास शिखरे रम्ये, सुखासीनं जगद्गुरुं । प्रणम्य परया भक्त्या, पार्वती परिपृच्छति ॥ ॥ श्रीपार्वत्युवाच ॥ त्वत्तः श्रुतं पुरा देव, भैरवस्य महात्मनः । नाम्नामष्टोत्तरं शतं, ककरादिमभीष्टदम् ॥ गुह्याद् गुह्यतरं गुह्यं, सर्वाभीष्टार्थ साधकम् । तन्मे वदस्व देवेश ! यद्यहं तव वल्लभा । ॥ श्रीशिवोवाच ॥ लक्षवार-सहस्राणि, वारिताऽसि पुनः पुनः । स्त्री स्वभावान्महा देवि ! पुनस्तत्वं त्वं पृच्छसि ॥ रहस्याति रहस्यं च, गोप्याद् गोप्यं महत्तरम् । तत्ते वक्ष्यामि देवेशि ! स्नेहात्तव शुचिस्मिते ॥ कूर्चयुग्मं महाकाल, प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया, राजराजेश्वरो महान् ॥ अथ मन्त्रः – “हूँ हूँ महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ॥” मन्त्रग्रहण मात्रेण, भवेत्सत्यं महाकविः । गद्य-पद्य मयी वाणी, गङ्गा निर्झरिणी यथा ॥ विनियोग :- ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम माला मन्त्रस्य श्रीदक्षिणा कालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, हूँ बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थ साधने पाठे विनियोगः । ऋष्यादिन्यास :- शिरसि श्रीदक्षिणा कालिका ऋषये नमः । मुखे विराट् छन्दसे नमः । हृदि श्रीमहाकाल देवतायै नमः । गुह्ये हूँ बीजाय नमः । पादयोः ह्रीं शक्तये नमः । नाभौ स्वाहा कीलकाय नमः । सर्वाङ्गे सर्वार्थ साधने पाठे विनियोगाय नमः । करन्यास :- ह्रां अंगुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः करतलकरपृष्ठाभ्यां नमः । षडङ्गन्यास :- ह्रां हृदयाय नमः । ह्रीं शिरसे स्वाहा । ह्रूं शिखायै वषट् । ह्रैं कवचाय हुम् । ह्रौं नेत्रत्रयाय वौषट् । ह्रः अस्त्राय फट् । ॥ ध्यानम् ॥ कोटि कालानलाभासं, चतुर्भुजं त्रिलोचनं । श्मशानाष्टक मध्यस्थं, मुण्डाष्टक विभूषितम् ॥ पञ्चप्रेत स्थितं देवं, त्रिशूलं डमरु तथा । खड्गं च खर्परं चैव, वाम दक्षिण योगतः ॥ विभ्रतं सुन्दरं देहं, श्मशान भस्म भूषितम् । नानाशबैः क्रीडमानं, कालिका हृदय स्थितम् ॥ लालयन्तं रतासक्तं, घोरचुम्बन तत्परम् । गृध्र गोमायु संयुक्तं, फेरवीगण संयुतम् ॥ जटापटल शोभाढ्यं सर्वशून्यालय स्थितम् । सर्वशून्यं मुण्ड भूषं, प्रसन्न वदनं शिवम् ॥ ॥ अथ स्तोत्रम् ॥ ॐ कूं कूं कूं कूं शब्दरतः, क्रूं क्रूं क्रूं क्रूं परायणः । कविकण्ठ स्थितः कै ह्रीं, हूँ कँ कँ कवि पूर्णदः ॥ कपाल कज्जल समः, कज्जल प्रिय तोषणः । कपालमालाऽऽभरणः, कपालकर भूषणः ॥ कपाल पात्र सन्तुष्टः, कपालार्घ्य परायणः । कदम्ब पुष्पसम्पूज्यः, कदम्ब पुष्प होमदः ॥ कुलप्रियः कुलधरः, कुलाधारः कुलेश्वरः । कौलव्रतधरः कर्म, कामकेलि प्रियः क्रतुः ॥ कलह ह्रीं मन्त्रवर्णः, कलह ह्रीं स्वरूपिणः । कङ्काल भैरवो देवः, कङ्काल भैरवेश्वरः ॥ कादम्बरी पानरतः, तथा कादम्बरीकलः । कराल भैरवानन्दः, कराल भैरवेश्वरः ॥ करालः कलनाधारः, कपर्दीश वरप्रदः । करवीर प्रिय प्राणः, करवीर प्रपूजनः ॥ कलाधरः कालकण्ठः, कूटस्थः कोटराश्रयः । करुणः करुणावासः, कौतुकी कालिका पतिः ॥ कठिनः कोमलः कर्णः, कृत्तिवास कलेवरः । कलानिधिः कीर्तिनाथः, कामेन हृदयङ्गमः ॥ कृष्णः काशीपतिः कौलः, कूलचूडामणिः कुलः । कालांजन समाकारः, कालांजन निवासिनः ॥ कौपीनधारी कैवर्तः, कृतवीर्यः कपिध्वजः । कामरूपः कामगतिः, कामयोग परायणः । काम सम्मर्दनरतः, कामगेह निवासिनः । कालिका रमणः कालि-नायकः कालिका-प्रियः ॥ कालीशः कालिकाकान्तः, कल्पद्रुम लता मतः । कुलटालाप मध्यस्थः, कुलटासङ्ग तोषितः ॥ कुलटाचुम्बनोद्युक्तः, कुलटाकुच मर्दनः । केरलाचार निपुणः, केरलेन्द्र ग्रह स्थितः ॥ कस्तूरी तिलकानन्दः, कस्तूरी तिलकप्रियः । कस्तूरी होम सन्तुष्टः, कस्तूरी तर्पणोद्यतः ॥ कस्तूरी मार्जनोद्युक्तः, कस्तूरी कुण्डमज्जनः । कामिनी पुष्पनिलयः, कामिनी पुष्पभूषणः ॥ कामिनी कुण्ड संलग्नः, कामिनी कुण्ड मध्यगः । कामिनी मानसाराध्यः, कामिनी मान तोषितः ॥ काममञ्जीर रणितः, कामदेव प्रियातुरः । कर्पूरामोद रुचिरः, कर्पूरामोदधारिणः ॥ कर्पूरमालाऽऽभरणः, कर्पूरार्णव मध्यगः । क्रकसः क्रकसाराध्यः, कलाप पुष्परूपिणः ॥ कुशलः कुशलाकर्णी, कुक्कुरासङ्ग तोषितः । कुक्कुरालय मध्यस्थः, काश्मीर करवीरभृत् ॥ कूटस्थः क्रूर दृष्टिश्च, केशवासक्त मानसः । कुम्भीनस विभूषाढ्यः, कुम्भीनस वधोद्यतः ॥ ॥ फलश्रुति ॥ नाम्नामष्टोत्तर शतं, स्तुत्वा महाकाल देवम् । ककारादि जगद्वन्द्यं, गोपनीयं प्रयत्नतः ॥ य इदं पठते प्रातः, त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति, नात्र कार्या विचारणा ॥ लभते ह्यचलां लक्ष्मी, देवानामपि दुर्लभाम् । पूजाकाले जपान्ते च, पठनीयं विशेषतः ॥ यः पठेत्साधकाधीशः, काली रूपो हि वर्षतः । पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि ॥ वाचकं तोषयेद्वापि, स भवेद् भैरवी तनुः । पश्चिमाभि मुखं लिङ्गं, वृषशून्यं शिवालयम् ॥ तत्र स्थित्वा पठेन्नाम्नां, सर्वकामाप्तये शिवे । भौमवारे निशीथे च, अष्टम्यां वा निशामुखे ॥ माषभक्त बलिं छागं, कृसरान्नं च पायसं । मद्यं मीनं शोणितं च, दुग्धं मुद्रागुडार्द्रकम् ॥ बलिं दत्वा पठेत्तत्र, कुबेरादधिको भवेत् । पुरश्चरणमेतस्य, सहस्रावृत्तिरुच्यते ॥ महाकालसमो भूत्वा, यः पठे न्निशि निर्भयः । सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥ मुक्तकेशो दिशावासः, ताम्बूल पूरिताननः । कुजवारे मध्यरात्रौ, होमं कृत्वा श्मशानके ॥ पृथ्वीशाकर्षणं कृत्वा, नात्र कार्या विचारणा । ब्रह्माण्ड गोले देवेशि ! या काचिज्जगती तले ॥ समस्ता सिद्धयो देवि ! वाचकस्य करे स्थिता । भस्माभिमन्त्रितं कृत्वा, ग्रहग्रस्ते विलेपयेत् ॥ भस्म संलेपनाद् देवि ! सर्वग्रह विनाशनम् । वन्ध्या पुत्रप्रदं देवि ! नात्र कार्या विचारणा ॥ गोपनीयं गोपनीयं, गोपनीयं प्रयत्नतः । स्वयोनिरिव गोप्तव्यं, न देयं यस्य कस्यचित् ॥ ॥ इति श्रीभैरवागमे श्रीशिव पार्वति सम्वादे श्रीमहाकाल ककाराद्यष्टोत्तर शतनाम स्तोत्रम् ॥ विशेषः- यह स्तोत्र केवल अभिषिक्त साधकों के द्वारा पठनीय है । अतः अन्य लोग इससे विरक्त ही रहे, यहीं उत्तम होगा । Related