May 26, 2019 | Leave a comment ॥ श्रीराधाकवचस्तोत्रम् ॥ ॥ श्रीपार्वत्युवाच ॥ ॐ देवदेव महादेव परमप्रीतिदायक । राधायाः कवचं देव कथय प्राणवल्लभ ॥ १ ॥ ॥ श्रीमहादेवौवाच ॥ साधु साधु महादेवि भद्रं भद्रं सुमङ्गलम् । प्रेमभावान्वितायाश्च राधायाः कवचं परम् ॥ २ ॥ श्यामप्रेमविलासन्या गोपिन्या प्रेमसागरे । मग्नायाः कवचं देवि कथयामि शृणुष्व तत् ॥ ३ ॥ ऋषिर्नारायणः प्रोक्तो गायत्री छन्द इत्यपि । देवता राधिकादेवी प्रेमभक्तिप्रदायिका ॥ ४ ॥ धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । तप्तकाश्चनगौराङ्गी राधा वृन्दावनेश्वरी ॥ ५ ॥ वृषभानुसुतां देवीं नमामि श्रीहरिप्रियाम् । राधा मे हृदयं पातु मस्तकं पातु गोपिका ॥ ६ ॥ श्रीकृष्णहृदयासक्ता पातु नाभिं सदा मुदा । श्रीकृष्णानन्दकलिता पातु पादयुगं मम ॥ ७ ॥ गोविन्दभावरचिता बाहुयुग्मं सदावतु । श्रीराधायै वह्निजाया सर्वाङ्गं पातु सर्वदा ॥ ८ ॥ श्री क्लीं राधायै तथा स्वाहा पातु नित्यं षडक्षरी । श्री रां हीं राधायै वह्निजायान्ते च महामनुः ॥ ९ ॥ अष्टाक्षरो महामन्त्रः सर्वकार्येषु रक्षतु । विष्णुवक्षःस्थलस्था च पुत्रान् रक्षतु मे सदा ॥ १० ॥ विष्णोर्भावेन मुदिता गृहं पातु च सर्वदा । कृष्णभावरता देवी जिह्वाग्रं मम रक्षतु ॥ ११ ॥ श्यामप्रेमोद्धता देवी राज्यस्थाने सदावतु । कृष्णे निवेदिताङ्गी च भक्तिभावं सदावतु ॥ १२ ॥ कृष्णार्तिवर्द्धिनी देवी सर्वबन्धून् सदावतु । इन्द्राद्याः सकला देवाः पान्तु पूर्वादिदिक्षु च ॥ १३ ॥ रक्षां कुर्वन्तु मां नित्यं धनधान्यप्रदायिका । ॐ श्री राधायै विद्महे वृन्दावनविलासिन्यै धीमहि तन्नो राधा प्रचोदयात् ॥ १४ ॥ इति ते कथितं भद्रे गुह्याद्गुह्यतरं परम् । यः पठेत् साधकश्रेष्ठो भक्तियुक्तः सद भुवि ॥ १५ ॥ गृहे निवसते लक्ष्मीर्वाणी वक्त्रे न संशयः । राजानो दासतां यान्ति देवतुल्यो भवेन्नरः ॥ १६ ॥ कवचं परमं पुण्यं सोपि पुण्यवतां वरः । सर्वसिद्धियुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥ १७ ॥ भक्तियुक्ताय शिष्याय साधकाय प्रकाशयेत् । भक्तिहीनाय दुष्टाय कदाचिन्न प्रकाशयेत् ॥ १८ ॥ द्विजाय भक्तिहीनाय कदाचिन्न प्रदर्शयेत् । श्वपचाय सदा देयं यदि भक्तीयुतो भवेत् ॥ १९ ॥ भक्तिश्रद्धाविहीनाय न देयं हि द्विजाय ते । अज्ञात्वा कवचं देवि राधाकृष्णो भजेत्तु यः ॥ २० ॥ युगायुतकृतक्लेशं प्रेमभक्तिर्नजायते । मायया रहिता धीराः सर्वमेतत्परात्परम् ॥ २१ ॥ यथा राधा तथा लक्ष्मीस्तथात्वं हि न संशयः ॥ २२ ॥ ॥ इति श्रीब्रह्मयामले हरगौरीसंवादे श्रीराधाकवचं समाप्तिमगात् ॥ Related