August 24, 2019 | aspundir | Leave a comment ॥ श्रीराधास्तोत्रम् ॥ राधे राधे च कृष्णेशे कृष्णप्राणे मनोहरे । भक्तधामप्रदे देवि राधिके त्वं प्रसीद मे ॥ १ ॥ रहःकेलिसुखस्थाने सखीप्रेमकरेऽनघे । कृष्णोत्कर्षकरे नित्यं राधिके त्वं प्रसीद मे ॥ २ ॥ भक्तानानन्दसंदोहवर्द्धिनि ज्येष्ठचिन्तने । कोटिचन्द्रार्कसंहर्त्री राधिके त्वं प्रसीद मे ॥ ३ ॥ गौरांगि नीलाम्बरधरे कृष्णप्रेमाब्धिधारिणि । पीताम्बरप्रदे कृष्णे राधिके त्वं प्रसीद मे ॥ ४ ॥ किरीटकेयूरधरे नूपुराभातपादुके । बहुभूषणसंयुक्ते राधिके त्वं प्रसीद मे ॥ ५ ॥ इति गदितमनाद्यं राधिका स्तोत्रमाद्य सुरनरगणमुख्यैर्नागगन्धर्वसाध्यैः । पठितमपि रहस्यं साधुभिश्चैकवारं नयति परमदिव्ये धाम्नि कृष्णः स्वभक्तान् ॥ ६ ॥ ॥ इति श्रीसनत्कुमारसंहितायां श्रीराधास्तोत्रं सम्पूर्णम् ॥ Related