May 27, 2019 | Leave a comment ॥ अथ श्रीराधा कृपाकटाक्ष स्तोत्र ॥ मुनीन्द्र-वृन्द-वन्दिते त्रिलोक-शोकहारिणि, प्रसन्न-वक्त्र-पङ्कजे निकुञ्ज-भूविलासिनि । व्रजेन्द्र-भानुनन्दनि व्रजेन्द्र सूनुसङ्गते, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ १ ॥ अशोक-वृक्ष-वल्लरी-वितान-मण्डप-स्थिते, प्रवाल-बालज्वाल)-पल्लव-प्रभारुणाङ्घ्रिकोमले । वराभयस्फुरत्करे प्रभूतसम्पदालये, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ २ ॥ अनङ्ग-रङ्ग-मङ्गल प्रसङ्ग-भङ्गुर-भ्रुवां, सविभ्रमं ससम्भ्रमं दृगन्तबाणपातनैः । निरन्तरं वशीकृत प्रतीतिनन्दनन्दने, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ३ ॥ तडित्सुवर्णचम्पक प्रदीप्तगौरविग्रहे, मुखप्रभापरास्तकोटिशारदेन्दुमण्डले । विचित्रचित्रसञ्चरच्चकोरशाबलोचने, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ४ ॥ मदोन्मदातियौवने प्रमोद मानमण्डिते, प्रियानुराग-रञ्जिते कला-विलास-पण्डिते । अनन्य-धन्य-कुञ्ज-राज्य(राज) कामकेलिकोविदे, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ५ ॥ अशेष हाव-भाव धीरहीर हारभूषिते, प्रभूत शातकुम्भ कुम्भ कुम्भि कुम्भसुस्तनि । प्रशस्त मन्द-हास्य चूर्ण-पूर्ण-सौख्य-सागरे, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ६ ॥ मृणाल बाल-वल्लरी तरङ्ग-रङ्ग-दोर्लते, लताग्रलास्य लोलनील लोचनावलोकने । ललल्लुलन्मिलन्मनोज्ञ मुग्ध-मोहनाश्रिते, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ७ ॥ सुवर्ण-मालिकाञ्चितत्रिरेख कम्बुकण्ठगे, त्रिसूत्रमङ्गलीगुण त्रिरत्नदीप्तिदीधिते । सलोलनीलकुन्तले प्रसूनगुच्छगुम्फिते, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ८ ॥ नितम्ब-बिम्ब-लम्बमान पुष्पमेखलागुणे, प्रशस्त-रत्न-किङ्किणी कलापमध्यमञ्जुले । करीन्द्रशुण्डदण्डिका वरोहसौभगोरुके, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ९ ॥ अनेक मन्त्र-नाद-मञ्जु-नूपुरारवस्खलत्- समाजराजहंसवंश निक्वणातिगौरवे । विलोल हेम-वल्लरी विडम्बिचारुचङ्क्रमे, कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ १० ॥ अनन्त-कोटि-विष्णु-लोक नम्र-पद्मजार्चिते, हिमाद्रिजा पुलोमजा विरञ्चिजा वरप्रदे । अपार-सिद्धि-ऋद्धि(वृद्धि)-दिग्ध सम्पदाङ्गुलीनखे(सत्पदाङ्गुलीनखे), कदा करिष्यसीह मां कृपा-कटाक्ष भाजनम् ॥ ११ ॥ मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि, त्रिवेदभारतीश्वरी प्रमाणशासनेश्वरी । रमेश्वरी क्षमेश्वरी प्रमोदकाननेश्वरी व्रजेश्वरी व्रजाधिपे श्रीराधिके नमोस्तुऽते ॥ १२ ॥ स्तवं निशम्य भानुनन्दनी, करोतु सन्ततं जनं कृपा-कटाक्ष भाजनम् । भवेत्तदैव सञ्चित त्रिरूपकर्मनाशनं, लभेत्तदा(भवेत्तदा) व्रजेन्द्रसूनु मण्डल प्रवेशनम् ॥ १३ ॥ ॥ फलश्रुति ॥ राकायाञ्च सिताष्टम्यां दशम्याञ्च विशुद्धधीः(विशुद्धया)। एकादश्यां त्रयोदश्यां यः पठेत् साधकः(सशिवः) सुधी(स्वयम्) ॥ १४ ॥ यं यं कामयते कामं तन्तमाप्नोति साधकः । राधा कृपा-कटाक्षेण भक्तिः स्यात् प्रेमलक्षणा(भुक्त्वान्ते मोक्षमाप्नुयात्) ॥ १५ ॥ ऊरु मात्रे(दघ्ने) नाभिमात्रे(दघ्ने) हृन्मात्रे(दघ्ने) कण्ठमात्रके(दघ्नके) । राधाकुण्ड जले स्थित्वा यः पठेत् साधकः शतम्(साधकस्तु सः) ॥ १६ ॥ तस्य सर्वार्थसिद्धिः स्यात् वाञ्छितार्थ फलं(स्याद्वाक्सिद्धिञ्च ताथ) लभेत् । ऐश्वर्यञ्च लभेत्साक्षाद्दृशा पश्यन्ति राधिकाम् ॥ १७ ॥ तेन सा तत्क्षणादेव तुष्टा दत्ते महावरम् । येन पश्यन्ति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम् ॥ १८ ॥ नित्यलीलाप्रवेश्यं च ददाति श्रीव्रजाधिपः । अतः परतरं प्राप्यं वैष्णवानां न विद्यते ॥ १९ ॥ ॥ इति श्रीराधाकृपाकटाक्ष स्तोत्र सम्पूर्णम् ॥ Related