॥ अथ श्रीराधा भक्तिज्ञान कवचम् ॥

कवच की महिमा तथा राधा अष्टाक्षर व नवाक्षर मंत्र का फल बताते हुए कहा कि ब्रह्मा, धर्मराज, नरनारायण, कामदेव, अग्नि, वायु, शेष कूर्मादि ने अपना अपना यथेष्ट सिद्ध किया ।
महर्षि दधीचि ने कवच तथा राधा मन्त्र — “ॐ श्रीं ह्रीं क्लीं ऐं रां राधिकायै स्वाहा ।” के प्रभाव से वज्रांग देह को प्राप्त किया था ।

॥ श्रीमहादेव उवाच ॥

सद्वंशजातः शिष्यश्च शुद्धः सुब्राह्मणः सुधीः ।
मन्यते कृष्णतुल्यं च गुरु परमधार्मिकः ॥
देवमन्यं कृष्णतुल्यं यो ब्रवीति नराधमः ।
ब्रह्महत्यां च लभते महामूर्खो न संशयः ॥


परमात्मा स्वयं कृष्णो निर्गुणः प्रकृतेः परः ।
ततो देवास्तदंशाश्च सगुणाः प्राकृताः स्मृताः ॥
सर्वे जन्याः कृत्रिमाश्च पुरा ब्रह्मादयः सुराः ।
सर्वेषां जनकः कृष्णः परमाद्यः परात्परः ॥
शृणु वक्ष्यामि विप्रेन्द्र राधिकाकवचं शुभम् ।
परमानन्दसन्दोहाभिधमिष्टं सुदुर्लभम् ॥
कृष्णेन दत्तं मह्यं च शतशृङ्गे च पर्वते ।
निरामये च गोलोके पुण्ये वृन्दावने वने ॥
राधिकासद्विधाने च शोभने रासमण्डले ।
गोपगोपीकदम्बैश्च वेष्टिते समभीप्सिते ॥
अहं तुभ्यं प्रदास्यामि प्रवक्तव्यं न कस्यचित् ।
यद्धृत्वा पठनाद्भक्तो जीवन्मुक्तो भवेद् ध्रुवम् ॥
ब्रह्महत्यालक्षपापान्मुच्यते नात्र संशयः ।
कोटिजन्मार्जितात् पापादुपदेशान् प्रमुच्यते ॥
अश्वमेघसहस्त्रं च राजसूयशतं तथा ।
विप्रेन्द्र कवचस्यास्यकलां नार्हति षोडशीम् ॥
शिष्याय विष्णुभक्ताय साधकाय प्रकाशयेत् ।
शठाय परशिष्याय दत्त्वा मृत्यु लभेन्नरः ॥

॥ अथ कवचम् ॥

विप्रेन्द्र कवचस्यास्य ऋषिर्नारायणः स्वयम् ।
कृष्णस्य भक्तिदास्ये च विनियोगः प्रकीर्तितः ॥
सर्वाद्या मे शिरः पातु केशं केशवकामिनी ।
भालं भगवती पातु लीला लोचनयुग्मकम् ॥
नासां नारायणी पातु सानन्दा चाधरौष्ठकम् ।
जिह्वां पातु जगन्माता दन्तं दामोदरप्रिया ॥
कपोलयुग्मं कृष्णेशा कण्ठं कृष्णप्रियाऽवतु ।
कर्णयुग्मं सदा पातु कालिन्दीकूलवासिनी ॥
वसुन्धरेशा वक्षो मे परमा सा पयोधरम् ।
पद्मनाभप्रिया नाभिं जठरं जाह्नवीश्वरी ॥
नित्या नितम्बयुग्मं मे कङ्कालं कृष्णसेविता ।
परात्परा पातु पृष्ठं सुश्रोणी श्रोणिकायुगम् ॥
परमाद्या पानयुग्मं नखरांश्च नरोत्तमा ।
सर्वाङ्गं मे सदा पातु सर्वेशा सर्वमङ्गला ॥
पातु रासेश्वरी राधा स्वप्ने जागरणे च माम् ।
जले स्थले चान्तरीक्षे सेविता जलशायिनी ॥
प्राच्यां मे सततं पातु परिपूर्णतमप्रिया ।
वह्नीश्वरी वह्निकोणे दक्षिणे दुःखनाशिनी ॥
नैर्ऋते सततं पातु नरकार्णवतारिणी ।
वारुणे वनमालीशा वायव्यां वायुपूजिता ॥
कौबेरे मां सदा पातु कूर्मेण परिसेविता ।
ऐशान्यामीश्वरी पातु शतशृङ्गनिवासिनी ॥
वने वनचरी पातु वृन्दावनविनोदिनी ।
सर्वत्र संन्ततं पातु सर्वेशा विरजेश्वरी ॥
प्रथमे पूजिता या च कृष्णेन परमात्मना ।
षडक्षर्या विद्यया च सा मां रक्षतु कातरम् ॥
द्वितीये पूजिता देवी शम्भुना रासमण्डले ।
नानासंभृतसंभारैर्माया प्रकृतिरीश्वरी ॥
सप्ताक्षर्या विद्यया च पूज्यया प्रणवाद्यया ।
तृतीये पूजिता देवी ब्रह्मणा परमादरम् ॥
श्रीबीजयुक्तया भक्त्या चाष्टाक्षर्या च विद्यया ।
चतुर्थे पूजिता देवी शेषेण विघ्ननाशिनी ॥
तेनैव सेविता विद्या मायायुक्ता नवाक्षरी ।
विद्या सा चापि धर्मेण सेविता परमेश्वरी ॥
धर्मेण दत्ता सा विद्या पुत्र नारायणर्षये ।
नराय शुद्धभक्ताय सा च विद्या मनोहरा ॥
नवाक्षरी महाविद्या कामदेवेन सेविता ।
तदधीनं सर्वविश्वं पूज्यया विद्यया यया ॥
सम्प्राप दाहिकां शक्तिं वह्निश्च विद्यया यया ।
नवाक्षरी महाविद्या वायुना परिषेविता ॥
विश्वेषां प्राणरूपश्च पूज्यया विद्यया यया ।
सर्वाधारश्च पूज्यश्च बलवान् सर्वेतोऽभवत् ॥
शेषाधारश्च कूर्मश्च पूज्यया विद्यया यया ।
विश्वाधारश्च शेषश्च तया च विद्यया यया ॥
धराधरा च सर्वेषां तया च विद्यया सदा ।
तयैव विद्यया शुद्धा गङ्गा भुवनपावनी ॥
तयैव तुलसी शुद्धा तीर्थपूता बभूव सा ।
तया स्वाहा वह्निजाया पितृणां कामिनी स्वधा ॥
लक्ष्मीर्माया कामवाणी सर्वाद्या प्रणवादिका ।
रासेश्वरी राधिका सा ङेन्ता वह्निप्रियान्तका ॥
तत्षोडशी महाविद्या परिपूर्णतमा श्रुतौ ।
कामधेनुस्वरूपा सा सर्वसिद्धिप्रदायिनी ॥
पुरा सनत्कुमारेण षोडशी परिसेविता ।
सनकेन सनन्देन तथा सनातनेन च ॥
शुक्रे ण गुरुणा पूज्या सिद्धा व्यासेन सेविता ।
पपौ समुद्रं सोऽगस्त्यः पूज्यया विद्यया यया ॥
रासेश्वरी ङेन्तहीना षोडश्या मुनिपुङ्गव ।
दधीचिना सेविता सा विद्या च द्वादशाक्षरी ॥
तया तदस्थि चाव्यर्थमन्त्रमेव बभूव ह ।
चतुर्दशेन्द्रावच्छिन्नं मुनिरासीन्निरापदः ॥
स्वेच्छामृत्युर्मुनिश्चैव जितः कालोऽपि विद्यया ।
देवानां प्रार्थनेनैव तत्याज स कलेवरम् ॥
मत्तो मन्त्रं गृहीत्वा च जजाप पुष्करे मुनिः ।
शतवर्ष तपस्तप्त्वा ददर्श परमेश्वरीम् ॥
दत्त्वा सा स्वपदं तस्मै गोलोकं च जगाम सा ।
देहं त्यक्त्वा च स मुनिर्गोलोकं प्रययौ पुरा ॥

इत्येवं कथितं वत्स कवचं परमाद्भुतम् ।
परमानन्दसन्दोहं वेदेषु च सुदुर्लभम् ॥
श्रीकृष्णेनैव कथितं मह्यं भक्ताय भक्तितः ।
मया तुभ्यं प्रदत्तं च प्रवक्तव्यं न कस्यचित् ॥
गुरुमभ्यर्थ्य विधिना वस्त्रालंकारचन्दनैः ।
नमस्कृत्य परं भक्त्या कवचं धारयेत् सुधीः ॥
पठित्वा कवचं दिव्यं परमादरपूर्वकम् ।
गुरवे दक्षिणां दत्त्वा लभेत्तस्य शुभाशिषम् ॥
महामूढो नोपदिष्टः कवचं धारयेत् पठेत् ।
निष्फलं तद्भवेत् सर्वं शतलक्षं जपेद्यदि ॥
उपदिष्टो यदि पठेत् धारयेत् कण्ठदेशतः ।
जले वह्नौ च शस्त्रास्ते मरणं नो भवेद्भुवम् ॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
अनेन कवचेनैव शङ्खचूडः प्रतापवान् ॥
युयुधे से मया सार्धं वर्षं च नर्मदातटे ।
न विद्धो मम शूलेन दत्त्वा च कवचं मृतः ॥
सर्वाण्येव हि दानानि व्रतानि नियमानि च ।
तपांसि यज्ञाः पुण्यानि तीर्थान्यनशनानि च ॥
सर्वाणि कवचस्यास्य कलां नार्हन्ति षोडशीम् ।
इदं कवचमज्ञात्वा भजेद्यः परमेश्वरीम् ॥
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।
इत्येवं कथितं सर्वं राधिकाकवचं मुने ॥

॥ इति नारदपञ्चरात्रे ज्ञानामृतसारे द्वितीयरात्रे भक्तिज्ञानकथने राधाकवचम् ॥

 

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.