May 26, 2019 | Leave a comment ॥ अथ श्रीराधिका त्रैलोक्यमङ्गल कवचम् ॥ इस कवच स्तोत्र में राधा को दशमहाविद्या प्रधान त्रिपुरसुन्दरी की दूती बताया गया है, अत: महाविद्या यह महाविद्या नहीं होकर तन्त्रानुसार उपमहाविद्या है । ॥ श्रीदेव्युवाच ॥ देवदेव महादेव सृष्टिस्थित्यन्तकारक । राधिकाकवचं देव कथयस्व दयानिधे ॥ १ ॥ ॥ ईश्वरोवाच ॥ शृणु देवि वरारोहे कवचं जनमोहनम् । गोपितं सर्वतन्त्रेषु इदानीं प्रकटीकृतम् ॥ २ ॥ या राधा त्रिपुरादूती उपविद्या सदा तु सा । उपविद्याक्रमाद्देवि कवचं शृणु पार्वति ॥ ३ ॥ जपपूजाविधानस्य फलं सर्वस्य सिद्धिदम् । यत्र तत्र न वक्तव्यं कवचं गोपितं महत् ॥ ४ ॥ भक्तिहीनाय देवेशि द्विजनिन्दापरायणम् । न शूद्रयाजिविप्राय वक्तव्यं परमेश्वरि ॥ ५ ॥ शिष्याय भक्तियुक्ताय शक्तिदीक्षापरायणम् । वक्तव्यं परमेशानि मम वाक्यं न चान्यथा ॥ ६ ॥ विनियोगः- ॐ अस्य श्रीराधा त्रैलोक्य मङ्गल कवचस्य गोपिका ऋषिः, अनुष्टुप्छन्दः, श्रीराधिका देवता, महाविद्या साधन गोप्यर्थे विनियोगः ॥ ॐ पूर्वे च पातु सा देवी रुक्मिणी शुभदायिनी । ह्रीं पश्चिमे पातु सत्या सर्वकामप्रपूरिणी ॥ ७ ॥ याम्यां ह्रीं जाम्बवती पातु सर्वकामफलप्रदा । उत्तरे पातु भद्रा ह्रीं भद्रशक्तिसमन्विता ॥ ८ ॥ ऊर्ध्वं पातु महादेवी क्लीं कृष्णप्रिया यशस्विनी । अधश्च पातु भो देवी ऐं पातालतलवासिनी ॥ ९ ॥ अधरे राधिका पातु ऐं पातु हृदयं मम । नमः पातु च सर्वाङ्गं ङेयुता च पुनः पुनः ॥ १० ॥ सर्वत्र पातु मे देवी ईश्वरी भुवनेश्वरी । ऐं ह्रीं राधिकायै ह्रीं ऐं शिरः पातु माम् ॥ ११ ॥ क्लीं क्लीं राधिकायै क्लीं क्लीं दक्षबाहुं रक्षतु मम । ह्रीं ह्रीं राधिकायै ह्रीं ह्रीं वामाङ्गं रक्षतु पद्मिनी पद्मगन्धिनी ॥ १२ ॥ ॐ ह्रीं राधिकायै ऐं ऐं दक्षपादं रक्षतु नमः । क्लीं क्लीं ऐं ऐं राधिकायै ह्रीं ह्रीं ऐं ऐं क्लीं कलीं ॐ सर्वाङ्गं मम रक्षतु । ह्रीं राधिकायै ह्रीं वामपादं रक्षतु सदा पद्मिनी । ह्रीं राधिकायै ह्रीं अक्षियुग्म रक्षतु मम । ऐं राधिकायै ऐं कर्णयुग्मं सदा रक्षतु मम । ॐ ह्रीं राधिकायै ह्रीं ॐ दन्तपंक्तिं सदा पातु सरस्वती । ह्रीं भुवनेश्वरी ललाटं पातु ह्रीं काली मे मुखमण्डलं सदापातु । ह्रीं ह्रीं ह्रीं महिषमर्दिन्यै ह्रीं ह्रीं महिषमर्दिनी द्वारकावासिनी सहस्रारं रक्षतु सदा मम । ऐं ह्रीं ऐं मातङ्गी हृदयं सदा मम रक्षतु । ह्रीं ऐं ह्रीं उग्रतारा नाभिपद्म सदा रक्षतु मम । क्लीं ऐं क्लीं सुन्दरी क्लीं ऐं क्लीं स्वाधिष्ठानं लिङ्गमूलं रक्षतु मम । लं ऐं लं पृथिवी गुदमण्डलं रक्षतु मम । ऐं ऐं ऐं बगला ऐं ऐं ऐं स्तनद्वयं रक्षतु मम । हेसौः भैरवी हेसौः स्कन्धद्वयं रक्षतु मम । ह्रीं अन्नपूर्णा ह्रीं घाटां रक्षतु मम । ऐं ह्रीं ऐं बीजत्रयं सदा पातु पृष्ठदेशं मम । ॐ महादेवः पातु सर्वाङ्गं मे ॐ नारायणः पातु सर्वाङ्गं सदा मम । ॐ ॐ कृष्णः पातु सदा गात्रं रुक्मिणीनाथः । रुक्मिणी सत्यभामा च सैव्या जाम्बवती तथा । लक्ष्मीश्च मित्रविन्दा च भद्रा नाग्नजिता तथा ॥ एताः सर्वा युवतयः शोभनाश्वा सुलोचनाः । रक्षेयुर्मामस्तु दिक्षु सततं शुभदर्शनाः ॥ ॐ नारायणश्च गोविन्दः शिवः पद्मदलेक्षणः । सर्वाङ्गे मे सदा रक्षेत् केशवः केशिहा हरिः ॥ ॥ फल-श्रुति ॥ इतीदं कवचं भद्रे त्रैलोक्यमङ्गलं शुभम् । पद्मिन्याः परमेशानि उपविद्यासु सङ्गतम् ॥ यः पठेत् पाठयेद्वापि सततं भक्तितत्परः । निराहरो जलत्यागी अयुतं वत्सरे यदा ॥ तदैव परमेशानि पद्मिनी वशतामियात् । एतत्ते कथितं देवि कवचं भुवि दुर्लभम् ॥ फलमूलजलं त्यक्त्वा पठेत् संवत्सरं यदि । पद्मिनी वशमायाति तदैव नगनन्दिनि ॥ अनेनैव विधानेन यः पठेत् कवचं परम् । विष्णुलोकमवाप्नोति नान्यथा वचनं मम ॥ सङ्गोप्य पूजयेद्विद्या महाविद्या वरानने । प्रकटार्थमिदं देवि कवचं प्रपठेत् सदा ॥ महाविद्यां विना भद्रे यः पठेत् कवचं प्रिये । तदैव सहसा भद्रे कुम्भीपाके व्रजेत् प्रिये ॥ ॥ इति वासुदेवरहस्ये राधातन्त्रे एकत्रिंशत् पटले श्रीराधिका त्रैलोक्यमङ्गल कवचम् ॥ Related