November 24, 2018 | aspundir | Leave a comment श्री गोरक्षनाथ स्तवन कैलाशाचल चारु श्रंग रचिता वेदी यदी यासनं, शान्तं शंख शशांक कुन्दकुमुस स्फितश्रियालिंगितम् । बालार्करुणतीर्णकोण किरण ज्योतिर्जटा मण्डितं, तज्जयोतिर्मयमैश्वर वपुरिदं गोरक्ष ! ते धीमहि ।। आत्म-खलु विश्व-मूलम् ॐ कृण्वन्तो विश्वमार्यम् । गोरक्ष-बालं गुरु-शिष्य-पालं शेष-हिमालं शशि-खण्ड-भालम् ।। कालस्य-कालं जित-जन्म-जालं वन्दे जटालं जगदाब्जनालम् । गोरक्षनाथ ! भवरुप भवाब्धि पोत, भक्तार्ति-नाशन विभो करुणैकमूर्ते । त्वपाद–पद्म–मकरन्द–मधुव्रतोऽहं, तापं मदीयमनसो हर देव सद्यः ।।१।। गोरक्षनाथ ! मयि चेत् करुणआस्तवद्वेक्, दीन-स्त्वदीय चरणौ शरणं प्रपद्ये । नश्येदवश्य मथमान सवेदना में, सिद्धि ब्रजान्निखिल ब्रह्म-विधिहिं लोके ।।२।। गोरक्षनाथ ! रजसा चरणस्थितेन, पूतं शिरो भवति भक्त-जनस्यन्नम् । त्वद्दर्शनं हरति तस्य समस्तचिन्ता, त्वत्सेवनं हरति पाप-पिशाच पुञ्जम् ।।३।। हे नाथ ! मामपि विलोक्य दीनबन्धो, सन्ताप–तप्त–हृदयं कृपणं क्षणेऽस्मिन् । पादानते शिरसि मे वरदात्म–हस्तं, कामं निधेहि गुरदेव ! भवानुकूलः ।।४।। दोषकरोऽस्मि भगवन्नुकम्पनीयः निर्दोषता न सुलभा जगतीतलेऽस्मिन् । दोषकरेऽपि विमल-द्युति-संयुतेऽपि, किं लाञ्छनं मनुज-दृष्टिपथं न याति ।।५।। आक्रम्यते जगति नैकपिधैर्य लोके, भोगी जनो वितत-भोग–विमूढचेताः । गोरक्षपाद–सरसीरुह–पूजनन्तु, व्याधीर्हिनस्ति सकलान् खलु भोग मूलान् ।।६।। बद्धोऽस्मि देव भव–मोह–समूह–जाले, मोच्यस्त्वया सदयमार्तिहरेण पुंजम् । देयांचमे शुभमति सततं ज्याऽह, त्वदपाद–पद्म–युगलं विमलं भजेऽहम् ।।७।। गोरक्ष पत्तनमिदं प्रथितं पृथिव्यां, तेपे तपः सततमत्र भवान् मुनीन्द्रः । योगस्य मार्ग भुपदिश्य जनान् कृतार्था, श्चक्रे भृश सकललोक–शुभाभिलाषी ।।८।। Related