August 7, 2019 | aspundir | Leave a comment ॥ श्रीमहाकालस्तोत्रम् ॥ दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् । भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ॥ १ ॥ ॥ भार्गव उवाच ॥ कल्यन्तकालाग्निसमानभासं चतुर्भुजं कालिकयोपजुष्टम् । कपलखट्वाङ्गवराभयाढ्यकरं महाकालमनन्तमीडे ॥ २ ॥ नमः परमरूपाय परामलसुरूपिणे । नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ॥ ३ ॥ नमः परमरूपाय परमार्थैकरूपिणे । वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ॥ ४ ॥ ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे । वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ॥ ५ ॥ त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे । पराकाष्ठादिरूपाय पराय शम्भवे नमः ॥ ६ ॥ ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते । जगत्संहारकर्त्रे च महाकालाय ते नमः ॥ ७ ॥ नम उग्राय देवाय भीमाय भयदायिने । महाभयविनाशाय सृष्टिसंहारकारिणे ॥ ८ ॥ नमः परापरानन्दस्वरूपाय महात्मने । परप्रकाशरूपाय प्रकाशानां प्रकाशिने ॥ ९ ॥ ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने । वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ॥ १० ॥ वेदागमपरामर्शपरमानन्ददायिने । तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ॥ ११ ॥ धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम् । तत्प्रेरकाय देवाय परमज्योतिषे नमः ॥ १२ ॥ गुणाश्रयाय देवाय निर्गुणाय कपर्दिने । अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ॥ १३ ॥ त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने । नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ॥ १४ ॥ ॥ इति महाकालस्तोत्रं सम्पूर्णम् ॥ Related