श्री वाराही कवचम्

विनियोगः- ॐ अस्य श्रीवाराही-कवच-मन्त्रस्य श्रीत्रिलोचन-ऋषिः, अनुष्टुप्-छन्दः, श्रीआदि-वाराही-देवता, ग्लैं वीजं, स्वाहा शक्तिः, ऐं कीलकं, अभीष्ट-सिद्धयर्थे जपे विनियोगः ।

ऋष्यादि-न्यासः- श्रीत्रिलोचन-ऋषये नमः शिरसि, अनुष्टुप्-छन्दसे नमः मुखे, श्रीआदि-वाराही-देवतायै नमः हृदि, ग्लैं वीजाय नमः गुह्ये, स्वाहा शक्तये नमः नाभौ, ऐं कीलकाय नमः पादयो, अभीष्ट-सिद्धयर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

varahi_devi
ध्यात्वेन्द्र-नील-वर्णाभां, चन्द्र-सूर्याग्नि-लोचनां । विधि-विष्णु-सुरेन्द्रादि-मातृ-भैरव-सेविताम् ।
हार-नूपुर-केयूर-वलयैरुप-शोभितां । ज्वलन्मणि-गण-प्रोत-मुकुटोज्ज्वल-शोभिताम् ।
शस्त्राण्यस्त्राणि सर्वाणि, स्व-कार्य-करणानि च । करैः समस्तैर्विविधैर्विभ्रतीं मुशलं हलम् ।
वाराही-देवि-कवचं, भुक्ति-मुक्ति-फल-प्रदं । पठेत् त्रिसन्ध्यं रक्षर्थ, रोग-शत्रु-निकृन्तये ।
मेघ-श्याम-रुचि मनोहर-कुचां नेत्र-त्रयोद्भासिताम्,
कोलास्यां शशि-शेखरामचलितैः दंष्ट्रा-तलैः शोभिताम् ।
बिभ्राणां स्व-कराम्बुजै रसि-लतां चर्मासि-पाशं सृणीम्,
वाराही मनु-चिन्तये ध्रुव-वरारुढां शुभालंकृतिम् ।।

ॐ वर्ताली मे शिरः पातु, वाराही भालमुत्तमं । नेत्रे वराह-वदना पातु, कर्णौ तथाऽन्धिनी ।
रुन्धिनी नासिका पातु, मुखं पातु सुजम्भिनी । पातु मे मोहिनी जिह्वां, स्तम्भिनी कण्ठमादरात् ।
स्कन्धौ तु पञ्चमी पातु, भ्रुवौ महिष-वाहिनी । सिंहारूढा करौ पातु, कुक्षौ कृष्ण-मुखी सदा ।
हलायुधं च वक्षश्च, मध्येमे मुशली मम । नाभिं तु शङ्खिनी पातु, पृष्ठ-देशे तु चक्रिणी ।
खड्गिनी पातु कट्यां तु, मेढ्रयोः पातु खेटकी । गुदं च क्रोडिनी पातु, जघनं स्तम्भिनी तथा ।
चण्डोच्चण्डा च ऊरु च, जानुनी शत्रु-मर्दिनी । जङ्घा-द्वयोर्भद्र-काली, चामुण्डा गुल्फयोर्द्वयोः ।
पादौ तदङ्गुलीश्चैव, पातु चोन्मत्त-भैरवी । सर्वाङ्गं सततं पातु, काल-सन्दीपनी मम ।
वाराही-कवचं दिव्यं, सर्व-सिद्धि-प्रदायकम् । सर्व-शत्रु-क्षय-करं सर्व-कार्य-करं शुभम् ।

Please follow and like us:
Pin Share

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.