August 28, 2015 | aspundir | Leave a comment संजीवनी-स्तवः अथापरमहं वक्ष्येऽमृत-सञ्जीवनी-स्तवम्, यस्याऽनुष्ठान-मात्रेण मृत्युर्दूरात् पलायते।।१ असाध्याः कष्ट-साध्याश्च महा-रोग-भयंकरा, शीघ्रं नश्यंति पठनात् स्यात् आयुश्च प्रवर्धते।।२ शाकिनी डाकिनी दोषाः कुदृष्टिः ग्रह-शत्रुजा, प्रेत-वेताल-यक्षोत्था बाधा नश्यंति चाखिलाः।।३ दुरितानि समस्तानि नाना-जन्मोद्भवानि च, संसर्गज विकाराणि विलीयन्तेऽस्य पाठतः।।४ सर्वोपद्रव-नाशाय सर्व-बाधा-प्रशान्तये, आयुः प्रवर्धते चैतत् स्तोत्र परमाद्भुतम्।।५ बाल-ग्रहाभिभूतानां बालानां सुख-दायकम्। सर्वारिष्ट-हरं चैतत् बल-पुष्टि-करं परम्।।६ बालानां जीवनायैतद् स्तोत्रं दिव्य-सुधोपमम्। मृत-वत् सत्त्व-हरणं चिरं जीवित्व-कारकम्।।७ महा-रोगाभिभूतानां भयाकुलितात्मनाम्। सर्वाधि-व्याधि-हरणं अल्प-मृत्यु-विनाशनम्।।८ गर्भ-रक्षा-करं स्त्रीणां बालानां जीवनं परम्। महा-रोग-हरं नृणां अल्प-मृत्यु-हरं परम्।।९ बाल-वृद्धां च तरुणां जराः नार्यश्च दुःखिताः। भवन्ति सुखिनः पाठादस्य लोके चिरायुषः।।१० अस्मात् पर-तरं नास्ति जीवनोपाय ऐहिकः। तस्मात् सर्व-प्रयत्नेन पाठः यस्य समाचरेत्।।११ अयुतावृत्तिकं वाऽथ सहस्रावृत्तिकं तथा। तदर्धं वा तदर्धं वा पठेत् एवं च भक्तितः।।१२ कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः। सायं प्रातश्च विधिवत् स्तोत्रमेतत् पठरत् सुधीः।।१३ सर्पिषा हविषा वाऽपि सम्पायेनाथ भक्तितः। दशांशमानतो होमं कुर्यात् सर्वार्थ-सिद्धये।।१४ नमो नमो विश्व-विभावनाय, नमो नमो लोक-सुख-प्रदाय। नमो नमो विश्व-सृजेश्वराय, नमो नमो मुक्ति-वर-प्रदाय।।१५ नमो नमस्तेऽखिल-लोकपाय, नमो नमस्तेऽखिल-कामदाय। नमो नमस्तेऽखिल-विश्व-धर्त्रे, नमो नमस्तेऽखिल-लोक-भर्त्रे।।१६ नमो नमस्ते सकलार्ति-हर्त्रे, नमो नमस्ते विरुज-प्रकर्त्रे। नमो नमस्तेऽखिल-विश्व-धर्त्रे, नमो नमस्तेऽखिल-लोक-भर्त्रे।।१७ स्पष्टं देव चराचरं यदिदं ब्रह्म-स्वरुपेण ते, सर्वं तत् परिपाल्यते जगदिदं विष्णु-स्वरुपेण ते। विश्वं संह्रियते तदेव निखिलं रुद्र-स्वरुपेण ते, संसिच्यामृत-सीकरैर्हर महाऽरिष्टं चिरं जीवय।।१८ यो धन्वन्तरि-संज्ञया निगदितः क्षीराब्धितो निःसृतो। हस्ताभ्यां जन-जीवनाय कलशं पीयुष पूर्व दधत।।१९ आयुर्वेद-शरीर चब्ज न रुजाम् नाशाय सत्त्वं मुदा। संसिच्यामृत-सीकरैर्हर महाऽरिष्टं चिरं जीवय।।२० स्त्री-रुपं वरं भूषणाम्बर-धरं, त्रैलोक्य-सम्मोहनम्। कृत्वोपाय-विस्मयः सुर-गणान् पीयूषं-मृत्युन्तकम्।। चक्रे दैत्य-गणान् सुधा-विरहितान्, सम्मोह्य सत्त्वं मुदा-संसिच्यामृत-सीकरैर्हर महाऽरिष्टं चिरं जीवय।।२१ चाक्षुषोदधि-सम्प्लावः भूवेदयः झषाकृते। सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।।२२ वाञ्छा छल-बलि-त्रास-मुक्ति-निर्जर-वामनः। सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।।२३ धरोद्धार हिरण्याक्ष घात क्रोडा कृते प्रभो! सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। भक्त-त्रास-विनाशात् चण्डत्व नृहरेः विभो! सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। क्षत्रियारण्य-संच्छेद-कुठार-कर-रेणुक! सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। रक्षोराज प्रतापाब्धि शोषय शुभं राघवः। सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। भूमारासुर-सन्दोहः कालाग्रे रुक्मिणी-पति। सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। कलि वर्णाश्रमास्पष्ट-धर्मा हत्रैक कल्कि-रुप-भाक्। सिञ्च सिञ्चामृत-कणैः, चिरं जीवय जीवय।। अल्प-मृत्युं-चाप-मृत्युं महोत्पातानुपद्रवान्। भिन्दि भिन्दि गदाघातैः चिरं जीवय जीवय।। अहं न जाने किमपि त्वदन्यं। समाश्रयानाथ! पदाम्बुजं ते। कुरुष्व बंधनमनभीप्सितं तं, सुकर्म लोकेन समीक्षमीयाम्।। त्वमेव तातो जननी त्वमेव, त्वमेव नाथश्च त्वमेव बन्धुः। विद्या-धनागार-कुलं त्वमेव, त्वमेव सर्वं मम-देव देव!।। न मेऽपराधं प्रविलोकय प्रभो! अपराध-सिन्धोश्च दयानिधिस्त्वम्। तातेन दुष्टोऽपि सुतं सुरक्षते, दयालु तातोऽवतु सर्वदाऽस्मान्।। अहहः विस्मर नाथ! नमो सदा, करुण्यया निजया परिपूरतः। भुवि भवान् यदि मे नहि रक्षकः, कथम् अहो मम जीवनं यत्र वै।। दहः दहः कृपया त्वं आदिजातं विशालम्। हर हर करवालं चाल्प-मृत्युं करालम्।। निज-जन-परिपालं त्वां भजे भाव-व्यालम्। कुरु कुरु बहु कालं जीवितं मे स-बालम्।। न यत्र धर्माचरणं न दानं व्रतं, न यागो न च विष्णु-चर्चा, न पितृगो विप्र-चरणं न चन्दनं, स्वल्पायुषः तत्र जनः वदन्ति।। मन्त्रः- “क्लीं श्रीं क्लीं नमो भगवते जनार्दनाय सकल-दुरितं नाशय नाशय क्ष्रौं आरोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि देहि स्वाहा।” अस्या धारणतो जायात अल्प-मृत्यु प्रशाम्यति। गर्भ-रक्षा-करं स्त्रीणां बालानां जीवनं परम्। शत-पञ्चाशतं शक्त्याऽथवा पञ्च-विंशति।। पुस्कानां द्विजेभ्यस्तु दद्यात् दीर्घातुर्प्राप्तये। भूर्ज-पत्रे लिखेत् कण्ठं अथवा बाहु-मूलके।। सन्धारयेत् यः सर्वे दीर्घायुष्यं च जायते। यन्त्र-निर्माण हेतु ‘अष्ट-दल-कमल’ भोज-पत्र पर केसर व गंगाजल से अनार की कलम से बनाए और ‘अष्ट-दल-कमल’ के आठों दलों में ‘ह्रीं’ लिखे। Related