सरस्वती महा-स्तोत्र

प्रस्तुत ‘सरस्वती महा-स्तोत्र’ का एक वर्ष तक पाठ करने से मूर्ख व्यक्ति की भी मूर्खता दूर हो जाती है । नित्य-पाठ करने से पाठ-कर्त्ता मेधावी हो जाता है । यह महर्षि याज्ञवल्क्य का अनुभूत प्रयोग है ।

॥ याज्ञवल्क्य उवाच ॥

कृपां कुरु जगन्मातर्मामेवं हत-तेजसम् ।
गुरु-शापात् स्मृति-भ्रष्टं, विद्या-हीनं च दुःखितम् ।।१
ज्ञानं देहि स्मृतिं विद्याम्, शक्तिं शिष्य-प्रबोधिनीम् ।
ग्रन्थ-कर्तृत्व-शक्तिं च, सु-शिष्यं सु-प्रतिष्ठितम् ।।२
प्रतिभां सत्-सभायां च, विचार-क्षमतां शुभाम् ।
लुप्तं सर्वं दैव-योगात्, नवी-भूतम् पुनः कुरु ।।३


यथांकुरं भस्मनि च, करोति देवता पुनः ।
ब्रह्म-स्वरुपा परमा, ज्योति-रुपा-सनातनी ।।४
सर्व-विद्याधि-देवी या, तस्यै वाण्यै नमो नमः ।
विसर्ग-विन्दु-मात्रासु, यदधिष्ठानमेव च ।।५
तदधिष्ठात्री या देवी, तस्यै नीत्यै नमो नमः ।
व्याख्या-स्वरुपा सा देवी, व्याख्याऽधिष्ठात्री रुपिणी ।।६
यया विना प्रसंख्या-वान्, संख्यां कर्तुं न शक्यते ।
काल-संख्या-स्वरुपा या, तस्यै देव्यै नमो नमः ।।७
भ्रम-सिद्धान्त-रुपा या, तस्यै देव्यै नमो नमः ।
स्मृति-शक्ति-ज्ञान-शक्ति-बुद्धि-शक्ति-स्वरुपिणी ।।८
प्रतिभा-कल्पना-शक्तिः, या च तस्यै नमो नमः ।
सनत्कुमारो ब्रह्माणम्, ज्ञानं पप्रच्छ यत्र वै ।।९
बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः ।
तदा जगाम भगवान्, आत्मा श्रीकृष्ण ईश्वरः ।।१०
उवाच स च तां स्तौहि, वाणीमिष्टां प्रजा-पते ! ।
स च तुष्टाव तां ब्रह्मा, चाज्ञया परमात्मनः ।।११
चकार तत्-प्रसादेन, तदा सिद्धान्तमुत्तमम् ।
यदाऽप्यनन्तं पप्रच्छ, ज्ञानमेकं वसुन्धरा ।।१२
बभूव मूक-वत्सोऽपि, सिद्धान्तम् कर्तुमक्षमः ।
तदा तां स च तुष्टाव, सन्त्रस्त कश्यपाज्ञया ।।१३
ततश्चकार सिद्धान्तम्, निर्मलं भ्रम-भञ्जनम् ।
व्यासः पुराण-सूत्रं च, पप्रच्छ वाल्मीकिं यदा ।।१४
मौनी-भूतश्च संस्मार, तामेव जगदम्बिकाम् ।
तदा चकार सिद्धान्तम्, तद् वरेण मुनीश्वरः ।।१५
सम्प्राप्य निर्मलं ज्ञानं, भ्रमान्ध्य-ध्वंस-दीपकम् ।
पुराण-सूत्रं श्रुत्वा च, व्यासः कृष्ण-कुलोद्भवः ।।१६
तां शिवां वेददध्यौ च, शत-वर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य, सत्कवीन्द्रो बभूव ह ।।१७
तदा वेद-विभागं च, पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ, तत्त्व-ज्ञानं सदा-शिवम् ।।१८
क्षणं तामेव सञ्चिन्त्य, तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्द-शास्त्रं च, महेन्द्रश्च वृहस्पतिम् ।।१९
दिव्यं वर्ष-सहस्रं च, स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरम् प्राप्य, दिव्य-वर्ष-सहस्रकम् ।।२०
उवाच शब्द-शास्त्रं च, तदर्थं च सुरेश्वरम् ।
अध्यापिताश्च ये शिष्याः, यैरधीतं मुनीश्वरैः ।।२१
ते च तां परि-सञ्चिन्त्य, प्रवर्तन्ते सुरेश्वरिम् ।
त्वं संस्तुता पूजिता च, मुनीन्द्रैः मनु-मानवैः ।।२२
दैत्येन्द्रैश्च सुरैश्चापि, ब्रह्म-विष्णु-शिवादिभिः ।
जडी-भूतः सहस्रास्यः, पञ्च-वक्त्रश्चतुर्मुखः ।।२३
यां स्तोतुं किमहं स्तौमि, तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्यश्च, भक्ति-नम्रात्म-कन्धरः ।।२४
प्रणनाम निराहारो, रुरोद च मुहुर्मुहुः ।
ज्योति-रुपा महा-माया, तेन दृष्टाऽप्युवाच तम् ।।२५
स कवीन्द्रो भवेत्युक्त्वा, वैकुण्ठं च जगाम ह ।
याज्ञवल्क्य-कृतम् वाणी, स्तोत्रमेतत् तु यः पठेत् ।।२६
स कवीन्द्रो महा-वाग्मी, वृहस्पति-समो भवेत् ।
महा-मूर्खश्च दुर्बुद्धिः, वर्षमेकं यदा पठेत् ।।२७
स पण्डितश्च मेधावी, सु-कवीन्द्रो भवेद् ध्रुवम् ।।२८

।।श्रीमद्-देवी-भागवत, अ॰९-५।।

 

 

Content Protection by DMCA.com

One comment on “सरस्वती महा-स्तोत्र

Leave a Reply

Your email address will not be published.

This site uses Akismet to reduce spam. Learn how your comment data is processed.