January 3, 2016 | aspundir | Leave a comment ।। स्त्रीगुरु स्तोत्रम् ।। नमस्ते देव-देवेशि ! नमस्ते हरपूजिते ! । ब्रह्मविद्यास्वरूपायै तस्यै नित्य नमो नम: ।। अज्ञानतिमिरान्धस्य ज्ञानाञ्जन-शलाकया । यया चक्षुरून्मीलितं तस्यै नित्यं नमो नम: ।। भवबंधन पाशस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्या तस्यै नित्या नमो नम: ।। श्रीनाथवामभागस्था सदया सुरपूजिता । सदाविज्ञानदात्री च तस्यै नित्यं नमो नम: ।। सहस्रारे महापद्ये सदाऽऽनन्दस्वरूपिणी । महामोक्षप्रदा देवि तस्यै नित्यं नमो नम: ।। ब्रह्माविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च सदा घूर्णितलोचना । स्व -नाथं च समालिङ्ग्य तस्यै नित्य नमो नम: ।। ब्रह्मविष्णुशिवत्वादि – जीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानदात्री च तस्यै श्रीगुरवे नम: ।। ।। श्रीमातृकाभेदतन्त्रे हरपार्वती संवादे स्त्रीगुरो: स्तोत्रम् ।। Related