॥ गायत्रीहृदयम् ॥
॥ अथ श्रीमद्देवीभागवते महापुराणे गायत्रीहृदयम् ॥


॥ नारद उवाच ॥
भगवन् देवदेवेश भूतभव्य जगत्प्रभो ।
कवचं च श्रृतं दिव्यं गायत्रीमन्त्रविग्रहम् ॥ १ ॥
अधुना श्रोतुमिच्छामि गायत्रीहृदयं परम् ।
यद्धारणाद्भवेत्पुण्यं गायत्रीजपतोऽखिलम् ॥ २ ॥
॥ श्रीनारायण उवाच ॥
देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् ।
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् ॥ ३ ॥
विराड्रूपां महादेवीं गायत्रीं वेदमातरम् ।
ध्यात्वा तस्यास्त्वथाङ्गेषु ध्यायेदेताश्च देवताः ॥ ४ ॥
पिण्डब्रह्मण्दयोरैक्याद्भावयेत्स्वतनौ तथा ।
देवीरूपे निजे देहे तन्मयत्वाय साधकः ॥ ५ ॥
नादेवोऽभ्यर्चयेद्देवमिति वेदविदो विदुः ।
ततोऽभेदाय काये स्वे भावयेद्देवता इमाः ॥ ६ ॥
अथ तत्सम्प्रवक्ष्यामि तन्मयत्वमयो भवेत् ।
गायत्रीहृदयस्यास्याप्यहमेव ऋषिः स्मृतः ॥ ७ ॥
गायत्रीछन्द उद्दिष्टं देवता परमेश्वरी ।
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट् क्रमात् ।
आसने विजने देशे ध्यायेदेकाग्रमानसः ॥ ८ ॥

विनियोगः- ॐ अस्य श्रीगायत्री हृदयस्य श्री नारायण ऋषिः गायत्री छन्दः श्रीपरमेश्वरी देवता श्रीपरमेश्वरी देवता प्रीत्यर्थे पाठे विनियोगः ॥
ऋष्यादि-न्यासः- श्री नारायण ऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीपरमेश्वरी देवतायै नमः हृदि श्रीपरमेश्वरी देवता प्रीत्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे ।
अङ्ग-न्यासः- नाम के बाद नमः बोलकर उच्चारण कर न्यास करें। यथा – द्यौः नमः मूर्ध्नि । अश्विनौ नमः दन्तपंक्तौ । उभयोः नमः ओष्ठौ । अग्निः नमः मुखे । सरस्वती जिह्वायां । वृहस्पतिः ग्रीवायां । अष्टौ वसवः स्तनयोः । मरूः: बाह्वौः । पर्जन्यः हृदये । आकाशः उदरे । अन्तरिक्षः नाभौ । इन्द्राग्नीः कट्यो । विज्ञान घनः प्रजापतिःजघने । कैलास-मलयः ऊरौ । विश्वेदेवाः जान्वोः । कौशिकः जङ्घयोः । गुह्यः अयने । पितरः ऊरौ । पृथिवीः पादयोः । वनस्यतयः अंगुलिषु । ऋषयः रोमसु । मुहूर्तानिः नखेषु । ग्रहाः अस्थिषु । ऋतवः असृङ्-मांसयोः । सम्वत्सराः निमिषे । आदित्यश्चन्द्रमाः अहोरात्रयोः । प्रवरां दिव्यां गायत्रीं सहस्त्रनेत्रां शरणमहं प्रपद्ये ।

ॐ तत्-सवितुर्वरेण्याय नमः ॥ ॐ तत्-पूर्वाजयाय नमः ॥ तत्-प्रातरादित्याय नमः ॥ तत्-प्रातरादित्यप्रतिष्ठायै नमः ॥
प्रातरधीयानो रात्रिकृतं पापं नाशयति ॥ सायमधीयानो दिवसकृतं पापं नाशयति ॥ सायंप्रातरधीयानोऽपापो भवति ॥
सर्वतीर्थेषु स्नातो भवति ॥ सर्वैर्देवैर्ज्ञातो भवति ॥ अवाच्य-वचनात्-पूतो भवति ॥ अभक्ष्य भक्षणात्-पूतो भवति ॥
अभोज्य भोजनात्-पूतो भवति ॥ अचोष्य चोषणात्-पूतो भवति ॥ असाध्य साधनात्-पूतो भवति ॥ दुष्प्रतिग्रह शतसहस्रात्-पूतो भवति ॥
सर्वप्रतिग्रहात्-पूतो भवति ॥ पङ्क्तिदूषणात्-पूतो भवति ॥ अमृत(अनृत)वचनात्-पूतो भवति ॥ अथाब्रह्मचारी ब्रह्मचारी भवती ॥

अनेन हृदयेनाधीतेन क्रतुसहस्रेणेष्टं भवति ॥ षष्टिशत-सहस्र-गायत्र्या जप्यानि फलानि भवन्ति ॥ अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् ॥ तस्य सिद्धिर्भवति ॥ य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापः प्रमुच्यते इति ॥ ब्रह्मलोके महीयते ॥ इत्याह भगवान् श्रीनारायणः ॥

॥ ॐ तत्सत् श्रीदेवीभागवते महापुराणे द्वादशस्कन्धे गायत्रीहृदयं नाम चतुर्थोऽध्यायः ॥
Content is available only for registered users. Please login or register

Please follow and like us:
Pin Share

Discover more from Vadicjagat

Subscribe to get the latest posts sent to your email.

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.