॥ गुह्यकाल्युपनिषत् ॥

अथर्ववेदमध्ये तु शाखा मुख्यतमा हि षट् ।
स्वयंभुवा याः कथिताः पुत्रायाथर्वणं प्रति ॥ १ ॥

तासु गुह्योपनिषदस्तिष्ठन्ति वरवर्णिनि ।
नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ २ ॥

मौञ्जायनी द्वितीया तु तृतीया तार्णवैन्दवी ।
चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ ३ ॥

षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः ।
गुह्योपनिषदो गूढाः सन्ति शाखासु षट्स्वपि ॥ ४॥

तो एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः ।
संहितायां साधकानामुद्धाराय वरानने ॥ ५॥

तास्ते वदामि यत् प्रोक्तं ध्यानं कुर्वन्ति देवताः ।
विराट्धऽयानं हि तज्ज्ञेयं महापातकनाशनम् ॥ ६ ॥

ब्रह्माण्डाद्बहिरुर्ध्वं हि महत्तत्त्वमहङ्कृतिः ।
रूपाणि पञ्चतन्मात्राः पुरुषः प्रकृतिर्नव ॥ ७ ॥

महापातालपादान्तलम्बा तस्या जयं स्मरेत् ।
ब्रह्माण्डार्धं कपालं हि शिरस्तस्या विभावयेत् ॥ ८ ॥

देवलोको ललाटञ्च षट्त्रिंशल्लक्षयोजनम् ।
मेरुः सीमन्तदण्डोऽस्या ग्रहरत्नसमाकुलः ॥ ९ ॥

अन्तर्वीथी नागवीथी भ्रुवावस्याः प्रकीर्तिते ।
शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ १० ॥

लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा ।
चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ ११ ॥

गण्डौ स्यातां तपोलोकसत्यलोकौ यथाक्रमम् ।
जनोलोकमहर्लोको कपोलौ परिकीर्तितौ ॥ १२ ॥

स्यातां हिमाद्रिकैलासौ तस्या देव्यास्तु कुण्डले ।
स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ १३ ॥

दिक्पतीनां ग्रहाणाञ्च लोकाश्चाथ रदावली ।
गन्धर्वसिद्धसाध्यानां पितृकिन्नररक्षसाम् ॥ १४ ॥

पिशाचयक्षाप्सरसां मरीचीयायिनां तथा ।
विद्याधराणामाज्योष्मपाणां सोमैकपायिनाम् ॥ १५ ॥

सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली ।
मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ १६ ॥

ब्रह्मलोको गलः प्रोक्तो वायवः प्राणरूपिणः ।
वनस्पतय ओषध्यो लोमानि परिचक्षते ॥ १७ ॥

विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् ।
विश्वं तु हृदयं प्रोक्तं पृथिवीपाद उच्यते ॥ १८ ॥

तलं तलातलं चैव पातालं सुतलं तथा ।
रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ १९ ॥

वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः ।
कला काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ २० ॥

पक्षा मासास्तथा चाब्दाश्चत्वारोऽपि युगाः प्रिये ।
कफोणिर्मणिबन्धश्च तद्रुकटिबन्धनाः ॥ २१ ॥

प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते ।
वैश्वानरः कालमृत्युजिह्वात्रयमिदं स्मृतम् ॥ २२ ॥

आब्रह्मस्तम्बपर्यन्तं तनुमस्याः प्रचक्षते ।
प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ २३ ॥

ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः ।
विराड्रूपस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ २४ ॥

तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तितः ।
तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ २५ ॥

यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि ।
यथा पृथिव्यामोषध्यः सम्भवन्ति गिलन्त्यपि ॥ २६ ॥

पुरुषात् केशलोमानि जायन्ते च क्षरन्त्यपि ।
उत्पद्यन्ते विलीयन्ते तथा तस्यां जगत्यपि ॥ २७ ॥

ज्वलतः पावकाद् यद्वत् स्फुलिङ्गाः कोटिकोटिशः ।
निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ २८ ॥

ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः ।
अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ २९ ॥

ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः ।
प्राणापानौ ब्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ ३० ॥

समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः ।
विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ ३१ ॥

जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् ।
नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ ३२ ॥

सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति ।
शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ ३३ ॥


तया मुक्तं पुरं तद्धि मृतमित्यभिधीयते ॥ ३४ ॥

ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् ।
ज्योतिर्मयीं शरीरेऽन्तर्ध्यायमानां महात्मभिः ॥ ३५ ॥

बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
दुरात् सुदूरे तदिहास्ति किञ्चित् पश्येत्त्विहैतन्निहितं गुहायाम् ॥ ३६॥

न चक्षुषा गृह्यते नापि वाचा नान्यैर्योगैर्न हि सा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तां पश्यति निष्कलाञ्च ॥ ३७॥

यथा नद्यः स्यन्दमाना समुद्रे गच्छन्त्यस्तं नामरूपे विहाय ।
तथा विद्वान् नामरूपाद् विमुक्तः परात् परां जगदम्बामुपैति ॥ ३८ ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद् वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ॥ ३९ ॥

सैवैतत् –

एषैवालम्बनं श्रेष्ठं सैषैवालम्बनं परम् ।
एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ ४० ॥

इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ ४१ ॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ ४२ ॥

यथोदकं गिरौ सृष्टं समुद्रेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तामेवानुविधावति ॥ ४३ ॥

एका गुह्या सर्वभूतान्तरात्मा एकं रूपं बहुधा या करोति ।
तामात्मस्थां येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४४ ॥

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तामेव भान्तीमनुभाति सर्वं तस्या भासा सर्वमिदं विभाति ॥ ४५ ॥

यस्याः परं नापरमस्ति किञ्चिद् यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् ।
वृक्ष इव स्तब्धा दिवि तिष्ठत्येका यदन्तः पूर्णामवगत्यपूर्णः ॥ ४६ ॥

सर्वाननशिरोग्रीवा सर्वभूतगुहाशया ।
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ ४७ ॥

सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा ।
सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ ४८ ॥

सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता ।
सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ ४९ ॥

नवद्वारे पुरे देवी हंसी लीलायत बहिः ।
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ ५० ॥

अपाणिपादा जननी ग्रहीत्री पश्यत्यचक्षुः सा शृणोत्यकर्णा ।
सा वेत्ति वेद्यं न च तस्यास्तु वेत्ता तामाहुरग्र्यां महतीं महीयसीम् ॥ ५१ ॥

सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमाः ।
सा चैव शुक्रः सा ब्रह्म सा चापः सा प्रजापतिः ।
सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ ५२ ॥

ऋचो अक्षरे परमे व्योमन् यस्यां देवा अधिरुद्रा निषेदुः ।
यस्तां न वेद किमृचा करिष्यति ये तां विदुस्त इमे समासते ॥ ५३ ॥

छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति ।
सर्वं देवी सृजते विश्वमेतत् तस्याश्चान्यो मायया संनिरुद्धः ॥ ५४ ॥

मायां तु प्रकृतिं विद्यात् प्रभु तस्या महेश्वरीम् ।
अस्या अवयवैः सूक्ष्मै र्व्याप्तं सर्वमिदं जगत् ॥ ५५ ॥

या देवानां प्रभवा चोद्भवा च विश्वाधिपा सर्वभूतेषु गूढो ।
हिरण्यगर्भ जनयामास पूर्वं सा नो बुद्ध्या शुभया संयुनक्तु ॥ ५६ ॥

सूक्ष्मातिसूक्ष्मं पलिलस्य मध्ये विश्वस्य स्रष्ट्रीमनेकाननाख्याम् ।
विश्वस्य चैकां परिवेष्टयित्रीं ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ ५७ ॥

सा ह्येव काले भुवनस्य गोप्त्री विश्वाधिपा सर्वभूतेषु गूढा ।
यस्यां मुक्ता ब्रह्मर्षयोऽपि देवाः ज्ञात्वा तां मृत्युपाशाञ्छिनत्ति ॥ ५८ ॥

घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा कालीं सर्वभूतेषु गूढाम् ।
कल्पान्ते वै सर्वसंहारकर्त्रीं ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ ५९ ॥

एषा देवी विश्वयोनिर्महात्मा सदा जनानां हृदि सन्निविष्टा ।
हृदा मनीषा मनसाभिक्लृप्ता ये त्वां विदुरमृतास्ते भवन्ति ॥ ६० ॥

यदा तमस्तत्र दिवा न रात्रिेन सन्न चासद् भगवत्येव गुह्या ।
तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्याः प्रसृता परा सा ॥ ६१ ॥

नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् ।
न तस्या प्रतिमाभिश्च तस्या नाम महद्यशः ॥ ६२ ॥

न सदृशे तिष्ठति रूपमस्या न चक्षुषा पश्यति कश्चिदेनाम् ।
हृदा मनीषा मनसाभिक्लृप्तां य एनां विदुरमृतास्ते भवन्ति ॥ ६३ ॥

भूयश्च सृष्ट्वा त्रिदशानवेशी सर्वाधिपत्यं कुरुते भवानि ।
सर्वा दिशश्चोर्ध्वमधश्च तिर्यक् प्रकाशयन्ती भ्राजते गुह्यकाली ॥ ६४ ॥

नैव स्त्री न पुमानेषा नैव चेयं नपुंसका ।
यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ ६५ ॥

धर्मावहां पापनुदां भगेशीं ज्ञात्वात्मस्थाममृतां विश्वमातरम् ।
तामीश्वराणां परमां महेश्वरी तां देवतायाः परदेवतां च ॥
पतिं पतीनां परमां पुरस्ताद् विद्यावतां गुह्यकालीं मनीषाम् ॥ ६६ ॥

तस्या न कार्यं करणं न विद्यते न तत्समा चाप्यधिका च दृश्यते ।
पराऽस्याः शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ६७ ॥

कश्चिन्न तस्याः पतिरस्ति लोके न चेशिता नैव तस्याश्च लिङ्गम् ।
सा कारणं कारणकारणाधिपा नास्याश्च कश्चिज्जनता न चाधिपः ॥ ६८ ॥

एका देवी सर्वभूतेषु गूढा व्याप्नोत्येतत् सर्वभूतान्तरस्था ।
कर्माध्यक्षा सर्वभूताधिवासा साक्षिण्यैषा केवला निर्गुणा च ॥ ६९ ॥

वशिन्यका निष्क्रियाणां बहूनाम् एकं बीजं बहुधा या करोति ।
नानारूपा दशवक्त्रं विधत्ते नानारूपान् या च बाहून् बिभर्ति ॥ ७० ॥

नित्या नित्यानां चेतना चेतनानाम् एका बहूनां विदधाति कामान् ।
तत्कारणं सांख्ययोगाधिगम्यं ज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ ७१ ॥

या वै विष्णु पालने संनियुङ्क्ते रुद्रं देवं संहृतौ चापि गुह्या ।
तां वै देवीमात्मबुद्धिप्रकाशां मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ७२ ॥

निष्कलां निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् ।
बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ ७३ ॥

इयं हि गुह्योपनिषत् सुगूढा यस्या ब्रह्मा देवता विश्वयोनिः ।
एतां जपंश्चान्वहं मतियुक्तः सत्यं सत्यं ह्यमृतः सम्बभूव ॥ ७४ ॥

वेदवेदान्तरयोर्गुह्यं पुराकल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ ७५ ॥

यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ७६ ॥

॥ महाकाल उवाच ॥

गुह्योपनिषदित्येषा गोप्यात् गोप्यतरा सदा ।
चतुर्थ्यश्चापि वेदेभ्य एकीकृत्यात्र योजिता ॥ ७७ ॥

उपदिष्टा च सर्गादौ सर्वानेव दिवौकसः ।
एवंविधं च यद्ध्यानमेवंरूपं च कीर्तितम् ॥ ७८ ॥

सा सपर्या परिज्ञेया विधानमधुना शृणु ।
सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ ७९ ॥

तदस्म्यहं तृतीयं च महावाक्यत्रयं भवेत् ।
आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ ८० ॥

देवता गुह्यकाली च रजःसत्त्वतमोगुणाः ।
सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ ८१ ॥

मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् ।
एभिर्वाक्यत्रयैः सर्वं कर्म प्रोतं विधानतः ॥ ८२ ॥

अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः ।
द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ ८३ ॥

एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः ।
विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते ।
सर्वाभिः सिद्धिभिस्तस्य कि कार्य कमलानने ॥ ८४ ॥

॥ इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् सम्पूर्णम् ॥

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.