॥ नागपत्नीकृतकृष्णस्तुतिः ॥ ॥ श्रीमद्भागवतान्तर्गतं नाग पत्न्य कृत स्तुतिः ॥ ॥ नागपत्न्य ऊचुः ॥ न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेर्धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥ अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद्दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४॥… Read More


॥ गर्भगत कृष्णस्तुतिः ॥ ॥ श्रीमद्भागवतान्तर्गतं देवकृता गर्भगत कृष्णस्तुतिः ॥ ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् ॥ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥… Read More


॥ श्रीकृष्ण कवचम् ॥ सर्वतो बालकं नीत्वा रक्षां चक्रुर्विधानतः । कालिंदीपुण्यमृत्तोयैर्गोपुच्छभ्रमणादिभिः ॥ गोमूत्रगोरजोभिश्च स्नापयित्वा त्विदं जगुः ॥… Read More


॥ ब्रह्माणं प्रति योगनिद्रयोपदिष्टं श्रीकृष्ण कवचम् ॥ हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्विजः । वदामि तत्ते विप्रेन्द्र कवचं सर्वलक्षणम् ॥ यद्दत्तं मायया पूर्वं ब्रह्मणे नाभिपङ्कजे । निद्रिते जगतींनाथे जले च जलशायिनि । भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ॥… Read More


॥ मालावती कृतं महापुरुष स्तोत्रम् ॥ ॥ मालावत्युवाच ॥ वन्दे तं परमात्मानं सर्वकारणकारणम् । विना येन शवाः सर्वे प्राणिनो जगतीतले ॥ निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु । विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ॥… Read More


॥ गर्गसंहितान्तर्गतं श्रीकृष्णसहस्रनामम् ॥ ॥ गर्ग उवाच ॥ अथोग्रसेनो नृपतिः पुत्रस्याशां विसृज्य च । व्यासं पप्रच्छ सन्देहं ज्ञात्वा विश्वं मनोमयम् ॥ १॥ ॥ उग्रसेन उवाच ॥ ब्रह्मन् केन प्रकारेण हित्वा च जगतः सुखम् । भजेत् कृष्णं परंब्रह्म तन्मे व्याख्यातुमर्हसि ॥ २॥… Read More


॥ अथर्ववेदीया श्रीकृष्णोपनिषत् ॥ श्रीकृष्ण परिकररूप में देवी देवताओं का अवतरण, श्रीकृष्ण से उनकी एकरूपता “हरिः ॐ श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्ट्वा सर्वाङ्गसुन्दर मुनयो वनवासिनो विस्मिता बभूवः । तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ अन्ये येऽवतारास्ते हि गोपा नः स्त्रीश्च नो करु । अन्योऽन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह । शश्वत्स्पर्शयितास्माकं गृह्णीमोऽवतारान्वयम् ॥… Read More


॥ अथ त्रैलोक्यविजयं श्रीकृष्ण कवचम् ॥ ॥ नारद उवाच ॥ भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः । कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ १॥ कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च । स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ २॥… Read More


॥ कृष्णप्रेमामृतं स्तवं अथवा श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् ॥ ॥ शेष उवाच ॥ वसुन्धरै वरारोहे जनानामस्ति मुक्तिदम् ॥ १॥ सर्वमङ्गल मूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २॥ समस्त जप यज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ ३॥… Read More