श्रीमहागणपति-वज्रपञ्जर-कवच

॥ पूर्व-पीठिका-श्रीभैरव उवाच ॥

महा-देवि गणेशस्य, वरदस्य महात्मनः ।
कवचं ते प्रवक्ष्यामि, वज्र-पञ्जरकाभिधम् ॥

विनियोगः- अस्य श्रीमहा-गणपति-वज्र-पञ्जर-कवचस्य शऽरीभैरव ऋषिः, गायत्र्यं छन्दः, श्रीमहा-गणपतिः देवता, गं बीजं, ह्रीं शक्तिः, कुरु-कुरु कीलकं, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे-विनियोगः।


ऋष्यादि-न्यासः- श्रीभैरव ऋषये नमः शिरसि, गायत्र्यं छन्दसे नमः मुखे, श्रीमहा-गणपति देवतायै नमः हृदि, गं बीजाय नमः गुह्ये, ह्रीं शक्तये नमः नाभौ, कुरु-कुरु कीलकाय नमः पादयोः, वज्र-विद्यादि-सिद्धयर्थे महा-गणपति-वज्र-पञ्जर-कवच-पाठे विनियोगाय नमः अञ्जलौ।

षडंग-न्यास कर-न्यास अंग-न्यास
गां अंगुष्ठाभ्यां नमः हृदयाय नमः
गीं तर्जनीभ्यां स्वाहा शिरसे स्वाहा
गूं मध्यमाभ्यां वषट् शिखायै वषट्
गैं अनामिकाभ्यां हुं कवचाय हुं
गौं  कनिष्ठिकाभ्यां वौषट् नेत्र-त्रयाय वौषट्
गः  करतल-कर-पृष्ठाभ्यां फट् अस्त्राय फट्

 

ध्यानः-
विघ्नेशं विश्व-वन्द्यं सु-विपुल-यशसं लोक-रक्षा-प्रदक्षं,
साक्षात् सर्वापदासु प्रशमन-सुमतिं पार्वती-प्राण-सूनुम।
प्रायः सर्वासुरेन्द्रैः स-सुर-मुनि-गणैः साधकैः पूज्यमानं,
कारयण्येनान्तरायामित-भय-शमनं विघ्न-राजं नमामि।।

‘मानस-पूजन’ कर ‘कवच-पाठ’ करे। यथा-

॥ मूल कवच-पाठ ॥
ॐ श्रीं ह्रीं गं शीरः पातु, महा-गणपतिः प्रभुः ।
विनायको ललाटं मे, विघ्न-राजो भ्रुवौ मम ॥ १ ॥
पातु नेत्रे गणाध्यक्षो, नासिकां मे गजाननः ।
श्रुती मेऽवतु हेरम्बो, गण्डौ मे मोदकाशनः ॥ २ ॥
द्वै-मातुरो मुखं पातु, चाधरौ पात्वरिन्दमः ।
दन्तान् ममैक-दन्तोऽव्याद्, वक्र-तुण्डोऽवताद् रसाम् ॥ ३ ॥
गांगेयो मे गलं पातु, स्कन्धौ सिंहासनोऽवतु ।
विघ्नान्तको भुजौ पातु, हस्तौ मूषक-वाहनः ॥ ४ ॥
ऊरु ममावतान्नित्यं, देवस्त्रिपुर-घातनः ।
हृदयं मे कुमारोऽव्याज्जयन्तः पार्श्व-युग्मकम् ॥ ५ ॥
प्रद्युम्नो मेऽवतात् पृष्ठं, नाभिं शंकर-नन्दनः ।
कटिं नन्दि-गणः पातु, शिश्नं वीरेश्वरोऽवतु ॥ ६ ॥
मेढ्रे मेऽवतु सौभाग्यो, भृंगिरीटी च गुह्यकम् ।
विराटकोऽवतादूरु, जानू मे पुष्प-दन्तकः ॥ ७ ॥
जंघे मम विकर्तोऽव्याद्, गुल्फायन्त्य-गणोऽवतु ।
पादौ चित्त-गणः पातु, पादाधो लोहितोऽवतु ॥ ८ ॥
पाद-पृष्ठं सुन्दरोऽव्याद्, नूपुराढ्यो वपुर्मम ।
विचारो जठरं पातु, भूतानि चोग्र-रुपकः ॥ ९ ॥
शिरसः पाद-पर्यन्तं, वपुः सुप्त-गणोऽवतु ।
पादादि-मूर्घ-पर्यन्तं, वपुः पातु विनर्तकः ॥ १० ॥
विस्मारितं तु यत् स्थानं, गणेशस्तत् सदाऽवतु ।
पूर्वे मां ह्रीं करालोऽव्यादाग्नेये विकरालकः ॥ ११ ॥
दक्षिणे पातु संहारो, नैऋते रुरु-भैरवः ।
पश्चिमे मां महा-कालो, वायौ कालाग्नि-भैरवः ॥ १२ ॥
उत्तरे मां सितास्योऽव्यादैशान्यामसितात्मकः ।
प्रभाते शत-पत्रोऽव्यात्, सहस्त्रारस्तु मध्यमे ॥ १३ ॥
दन्त-माला दिनान्तेऽव्यान्निशि पात्रं सदाऽवतु ।
कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥
सर्वत्र सर्वदा पातु शंख-युग्मं च मद्-वपुः ॥ १४ ॥
ॐ ॐ राज-कुले हहौं रण-भये ह्रीं ह्रीं कुद्यूतेऽवतात्,
श्रीं श्रीं शत्रु-गृहे शशौं जल-भये क्लीं क्लीं वनान्तेऽवतु ।
ग्लौं ग्लूं ग्लैं ग्लं गुं सत्त्व-भीतिषु महा-व्याधऽयार्तिषु ग्लौं गगौं,
नित्यं यक्ष-पिशाच-भूत-फणिषु ग्लौं गं गणेशोऽवतु ॥ १५ ॥

॥ फल-श्रुति ॥

इतीदं कवचं गुह्यं, सर्व-तन्त्रेषु गोपितम् ।
वज्र-पञ्जर-नामानं, गणेशस्य महात्मनः ॥ १ ॥
अंग-भूतं मनु-मयं, सर्वाचारैक-साधनम् ।
विनानेन न सिद्धिः स्यात्, पूजनस्य जपस्य च ॥ २ ॥
तस्मात् तु कवचं पुण्यं, पठेद्वा धारयेत् सदा ।
तस्य सिद्धिर्महा-देवि करस्था पारलौकिकी ॥ ३ ॥
यं यं कामयते कामं, तं तं प्राप्नोति पाठतः ।
अर्ध-रात्रे पठेन्नित्यं, सर्वाभीष्ट-फलं लभेत् ॥ ४ ॥
इति गुह्यं सुकवचं, महा-गणपतेः प्रियम् ।
सर्व-सिद्धि-मयं दिव्यं, गोपयेत् परमेश्वरि ॥ ५ ॥

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.