Print Friendly, PDF & Email

॥ मंत्रात्मक गायत्री कवच ॥
देव देव महादेव! संसारार्णव तारक ! गायत्री कवचं देव ! कृपया कथय प्रभो ।
॥ महादेव उवाच ॥
मूलाधारेषु या नित्या कुण्डली तत्त्व-रूपिणी । सूक्ष्माति सूक्ष्मा परमा विसतन्तु-स्वरूपिणी ॥
विद्युत-पुञ्ज-प्रतीकाशा कुण्डलाकृति-रूपिणी । परम-ब्रह्म गृहिणी पञ्चाशद् वर्ण-रूपिणी ॥
शिवस्य नर्तकी नित्या परम् ब्रह्म-पूजिता । ब्रह्मणः सैव गायत्री सच्चिदानन्दरूपिणी ॥
तद् भ्रमावर्त्तवातोऽयं प्राणात्मा नित्यनूतनः । नित्यं तिष्ठतु सानन्दा कुण्डली भव-विग्रहे ।
अति गोप्यं महत् पुण्यं त्रिकोटि-तीर्थ-संयुतम् । सर्व-यज्ञ-मयं देवि ! सर्वदानमयं सदा ॥
सर्व-ज्ञान-मयं देवि ! परम् ब्रह्ममयं सदा । कवचं कथयाम्याद्य पार्वति ! प्राणवल्लभे ॥
॥ मूल पाठ ॥
ॐ भूः पातु ॐ पातु मे मूलं चतुर्दल समन्वितम् । ॐ भुवः ॐ पातु मे लिङ्गं षड्दल समन्वित ॥१ ॥
ॐ स्वः ॐ पातु मे कण्ठं साकाशं दलषोडशम् । ॐ तत् ॐ पातु मे ब्रह्मण्य कारणं परम् ॥२ ॥
ॐ स ॐ वदनं पातु रसना संयुतं मम । ॐ वि ॐ पातु मे गन्धं सदा शरीरसंयुतम् ॥३ ॥
ॐ तुः ॐ पातु मे स्पर्शं शरीरस्य च कारणम् । ॐ व ॐ पातु मे शब्दं शब्दविग्रहकारणम् ॥४ ॥
ॐ रे ॐ पातु में नित्यं त्वचं शरीर रक्षकम् । ॐ णि ॐ पातु मे अक्षं सर्वतत्वैककारण ॥५ ॥
ॐ यं ॐ पातु मे श्रोत्रं श्रवणस्य च कारणम् । ॐ भ ॐ पातु मे घ्राणं गन्धोपादान कारणम् ॥६ ॥
ॐ र्गों ॐ पातु मे वाक्यं सभायां शब्दरूपिणी । ॐ दे पातु मे बाहुयुगलं ब्रह्मकारणम् ॥७ ॥
ॐ व ॐ पातु मे पादयुगलं ब्रह्मकारणम् । ॐ स्य ॐ पातु मे लिङ्गं सजलं षड्दलैर्युतम् ॥८ ॥
ॐ धी ॐ पातु मे नित्यं प्रकृतिं शब्दकारणम् । ॐ म ॐ पातु मे नित्यं मनो ब्रहस्वरूपिणी ॥९ ॥
ॐ हि ॐ पातु मे बुद्धिं परब्रहमयं सदा । ॐ धि ॐ पातु मे नित्यमहङ्क़ारं यथा तथा ॥१० ॥
ॐ यो ॐ पातु मे नित्यं पृथिवीं पार्थिवं वपुः । ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा ॥११ ॥
ॐ नः ॐ पातु मे नित्यं तेजः पुञ्जं यथा तथा । ॐ प्र ॐ पातु मे नित्यमनिलं देह कारणम् ॥१२ ॥
ॐ चो ॐ पातु मे नित्यमाकाशं शशि सन्निभम् । ॐ द ॐ पातु मे जिह्वां जप यज्ञस्य कारणम् ॥१३ ॥
ॐ यात् ॐ पातु मे चित्त् शिवज्ञानमयं सदा । ॐ तत्वानि पातु मे नित्यं गायत्री परदेवता ॥१४ ॥
ॐ भू र्भुवः स्वः पातु मे नित्यं ब्रह्माणी जठरं क्षुधा । ॐ त्वष्टा मे सततं पातु ब्रह्माणी भूर्भुवः स्वरः ॥१५ ॥
विनियोगः- “ॐ अस्याः श्रीगायत्र्याः श्रीपरब्रह्म ऋषिः ऋग्-यजुः-सामाथर्वाश्छन्दांसि श्रीगायत्री ब्रह्माणी देवता धर्मार्थकाम-मोक्षार्थे जपे विनियोगः।
ॐ भू र्भुवः स्वः तत्-सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।
॥ फल-श्रुति ॥
काम क्रोधादि सर्वस्मरणाद् याति साम्यताम् । इदं कवचमज्ञात्वा गायत्रीं प्रजपेद् यदि ।
लक्षादि जपेनैव न सिद्धिः जायते प्रिये ॥
गायत्री वाचनात् सर्वं स्मरणं सिद्धयति ध्रुवम् । पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् ॥
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद् द्विजः । इदं कवचमज्ञात्वा कवचान्य पठेत् तु यः ।
सर्वं तस्य वृथा देवि ! त्रैलोक्य मङ्गलादिकम् ॥
गायत्री कवचं यस्य जिह्वायां विद्यते सदा । तदाऽमृतमयी जिह्वा पवित्रा जप पूजने ॥
इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद् यदि । व्यर्थं भवति चार्वङ्गि ! तज्जपं वन रोदनम् ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागम: । महानि पातकान्येव स्मरणान्नाशमाप्नुयुः ॥
॥ ॐ तत्सत् श्री मंत्रात्मक गायत्री कवचं ॥

See Also :-

 1.  अलभ्य श्रीगायत्री-कवच

2. श्री गायत्री कवचम्

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.